________________
२९०
चन्द्रप्रमचरितम्
[१२, ४२
इति तस्य निशम्य भारता रिपुदूतः परिवृद्धमत्सरः । न्यगदीद्गुरुगर्वगद्गदामभिसर्पन्गिरमग्रतोऽग्रतः ॥४२॥ स्वहितं स्वधियैव बुध्यते पुरुषः सत्युदये सुकर्मणः । अविधेयविधिर्न बुध्यते स्वधिया नापि परेण बोधितः ॥४३॥ न निमित्तमिहोपदेशको न च शास्त्रं न च साधुसंगतिः। कुशलाकुशला च जायते धिषणा दैववशेन देहिनाम् ॥४४॥ अवभाति निजं स पौरुषं कथयनिर्वहते तथैव यः। निजविक्रमगर्विणो रणे हसनीया बहवो मयेक्षिताः ॥४५।।
संशयः तया। अरयः शत्रवः न प्रहरन्ति न हनन्ति । हज हरणे लट् । आक्षेपः ॥४१।। इतीति । इति उक्तप्रकारेण । तस्य सुवर्णनाभस्य । भारती वचनम् । निशम्य श्रुत्वा । परिवृद्धमत्सरः परिवृद्धः प्रवृद्धो मत्सरो यस्य सः । रिपुदूतः शत्रुवचोहरः । अग्रतोऽग्रतः अग्रे अग्रे । वीप्सायां द्विः। अभिसर्पन् गच्छन् । गुरुगर्वगदगदां गरुणा महता गणाहंकारेण गदगदां स्खलन्तीम । गिरं वचनम । न्यगदीत अभाषत । गद व्यक्तायां वाचि लुङ् ॥४२॥ स्वहितमिति । पुरुषः पुमान् । सुकर्मणः पुण्यस्य । उदये फलदानपरिणतो, सति । स्वहितं स्वस्य हितम् । स्वधियैव स्वस्व धियैव बुद्धयैव । बुध्यते जानाति । बुधि मति ज्ञाने लट् । अविधेयविधिः अविधेयः प्रतिकूलो विधिः कर्म यस्य सः, शुभकर्मरहित:-इत्यर्थः । स्वधिया स्वबुद्धया । न बुध्यते न जानाति । परेण अन्येन । बोधितोऽपि ज्ञापितोऽपि । न न बुध्यते । आक्षेपः । ४३।। नेति । इह अविधेयबुद्धयाः (?)। उपदेशक: गुरुः । न [ निमित्तम् ] ( कारणम् ) नास्ति । शास्त्रं नीत्यादिशास्त्रम् । न चनास्ति (निमित्तं नास्ति )। साधुसंगतिः साधूनां सज्जनानां संगतिः संसर्गश्च । न नास्ति देहिनां जोवानाम् । कुशला [ अकुशला ] च प्रशस्ता ( अप्रशस्ता ) च । धिषणा बुद्धिः । दैववशेन पुण्यापुण्यवशेन । जायते उत्पद्यते । जनैङ् प्रादुर्भावे लट् । अर्थान्तरन्यासः ॥४४॥ अवमातीति । यः पुरुषः । निजं स्वकीयम् । पौरुषं सामादिकम् । कथयन् अवन् । तथैव प्रोक्तप्रकारेणव । निर्वहते संपूर्णयति । वह प्रापणे लट् । सः पुरुष । अवभाति अवभासते । भा दीप्तो लट। निजविक्रमगविण: निजानां स्वेषां विक्रमेण पराक्रमेण गविणोऽहंकारिणः । बहवः प्रचुरा:। रणे संग्रामे हसनोयाः हसितुं योग्याः। मया ईक्षिताः
करते-उसके निष्कण्टक राज्यका एकमात्र श्रेय पद्मनाभको है ॥४१॥ राजकुमार सुवर्णनाभके इन वचनोंको (२६वें श्लोकसे ४१वें श्लोक तक) सुनकर शत्रु-पृथिवीपालके दूतका पारा चढ़ गया-वह क्रुद्ध हो उठा। फिर आगे-आगे बढ़कर अखर्व गर्व भरी बातें गद्गद होकर यों सुनाने लगः -॥४२॥ शुभकर्मका उदय होनेपर पुरुष अपनी बुद्धिसे हो अपना हित जान लेता है, किन्तु जिसका भाग्य प्रतिकूल हो, वह पुरुष न अपनो बुद्धिसे अपना हित जान पाता है, और न दूसरेके समझाने पर । हे सुवर्णनाभ ! पृथिवीपालका भाग्य अनुकूल है, अतः वह अपने आप अपना हित समझता है, पर तुम्हारा भाग्य प्रतिकूल है, अतः तुम अपने आप अपना हित नहीं समझे और न मेरे समझाने पर भी ।।४३॥ शुभ कर्मोंके उदयसे प्राणियोंकी अच्छो बुद्धि और अशुभ कर्मोके उदयसे बुरी बुद्धि होती है--बुद्धि की कुशलता और अकुशलता देवके अधोन है । बुद्धिकी कुशलता और अकुशलतामें उपदेशक निमित्त नहीं है; शास्त्र निमित्त नहीं है; और सत्संगति भो निमित्त नहीं है ।।४४।। वह मनुष्य शोभा पाता है, जो अपने पुरुषार्थके
१. अ°ला प्रजायते । २. आ लङ् । ३. आ स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । ४. = स्वहितावबोधने । ५. = निमित्तं नास्तीत्यर्थः। ६. आ 'प्रोक्त' इति नास्ति । ७. = संपूरयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.