________________
- १२, ४१]
द्वादशः सर्गः क्षयवान्विजिगीष्यते परैर्व्यसनी दैवविवर्जितोऽथवा । कलिता वद तत्र के वयं प्रसभं त्वत्प्रभुणा जिगीषता ॥३९॥ भवति प्रियमिष्टसाधकं महति जुद्रजने हठक्रिया। इति किं न स वेत्ति मूढधीरथवा को विभवैः सचेतनः ॥४०॥ न भवान्किमवैति यबलात्कुरुते राज्यमसावकण्टकम् ।
प्रहरन्ति न सांख्यपूरुष ननु तं मत्प्रभुशङ्कयारयः ॥४१॥ राजा । पुनः पश्चात् । अभियुक्तः अन्येन गृहीतः। विशेषतः विशेषात्, निहन्ति । शिखी वह्निः । स्वयं ज्वलितुं दीपितुम् । उत्सुक: उद्युक्तः । मारुतसंप्रधुक्षितः मारुतेन वायुना संप्रधुक्षितः प्रवद्धितः । सुतराम् अत्यन्तं ज्वलति-इत्यर्थः । अर्थान्तरन्यासः ॥३८॥ क्षयवानिति । क्षयवान् नाशवान् । अथवा, व्यसनी कामक्रोधादिदोषवान् । दैवविजितः देवेन पुण्येन विजितो रहितः । परः शत्रुः । विजिगीष्यते जेतुमिष्यते । प्रसभं हठात् । जिगोषता जेतुमिच्छता। त्वत्प्रभुणा स्वामिना । तत्र त्रये । वयं के कलिता: गणिताः निश्चिता वा । वद ब्रहि । वद व्यक्तायां वाचि लोट् । आक्षेपः ॥३९॥ भवतीति । महति स्वस्मादधिके । प्रियं प्रीतिः । इष्टसाधकम् इष्टस्य अभीष्टस्य साधकम् । भवति जायते। क्षद्रजने स्वस्माद्धीने । हठक्रिया बलात्कार: ( इष्टसाधिका ) भवति । मूढधीः मूढा मन्दा धीमतिर्यस्य सः । सः राजा। इति किं न वेत्ति किं न जानाति । अथवा तथापि विभवैः सद्धिः चेतनः चैतन्ययुक्तः कः को वा वेत्ति । विद ज्ञाने लट् अर्थान्तरन्यासः ॥४०॥ नेति । यबलात् यस्य पद्मनाभस्य बलात् सामर्थ्यात् असो पृथ्वीपालः । राज्यं राज्ञो भाव: कृत्यं वा राज्यं, देशाधिपत्यम् । अकण्टकं न विद्यते कण्टको यस्मिन् कर्मणि तत् शत्रुरहितं यथा तथाइत्यर्थः । भवान् त्वम् । नावैति न जानाति किम् । भवच्छब्दप्रयोगे प्रथमपुरुषः । सांख्यपूरुषः सांख्येनाङ्गीकृतः पुरुषः, जडात्मा-इत्यर्थः । अकिंचित्करं तं पृथिवीपालम् । मत्प्रभुशङ्कया मम मे प्रभुः स्वामी तस्य शङ्का
विशेष रूपसे अभियुक्त या आक्रान्त होकर स्वयं मारा जाता है जो दूसरेको मारना चाहता है, वह स्वयं दूसरेके द्वारा मारा जाता है। अग्नि जलनेके लिए स्वयं उत्सुक रहता है, फिर वायुसे खूब प्रज्वलित होकर तो और भी अधिक जल उठता है । पद्मनाभ अग्निके समान हैं। पृथिवीपाल उन्हें छेड़ेगा तो स्वयं मारा जायेगा ॥३८॥ जो राजा क्षीण हो, दुर्व्यसनोंमें फंसा हुआ हो अथवा भाग्यहीन हो, उसे दूसरे जीत लेना चाहते हैं। तुम्हारा स्वामी पृथिवीपाल हमें जीतना चाहता है, तो तुम हमें यह तो बताओ कि उसने हमें उन तीनोंमें-से क्या समझ रखा है-क्षयवान्, दुर्व्यसनी या हतभाग्य ? ॥३९॥ 'महान् पुरुषके साथ किया गया प्रिय व्यवहार और क्षुद्र व्यक्तिके साथ किया गया बलात्कार इष्टको सिद्ध करनेवाला होता है' इस बातको क्या वह मूर्ख पृथिवीपाल नहीं जानता ? अथवा वैभव होनेसे कौन चेतना ( बुद्धि ) युक्त रह पाता है ?-वैभवके मदसे चेतना ( बुद्धि ) विकृत हो जाती है, जिससे विवेक लुप्त हो जाया करता है ॥४०॥ जिनके बलके भरोसे पृथिवीपाल निष्कण्टक राज्य कर रहा है, उन्हें क्या आप नहीं जानते ? न जानते हो तो सुनो, निश्चय ही मेरे पिताजीके भयसे ही शत्रु लोग उस जड़ और अकिंचित्कर पृथ्वीपालके ऊपर प्रहार नहीं
२. श लेट्।
३. श स्वात्माधीने ।
४. श तथा हि । ५. श पृथ्वी ।
१. अ कुचेतनः । ६.भीतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org