SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २८८ चन्द्रप्रमचरितम् [१२,३४ किमु तस्य न सन्ति वारणा बहवोऽन्ये परपक्षवारणाः । अमुना स पदेन मन्दधीर्ध वमस्मानभियोक्तुमिच्छति ॥३४॥ बलवानहमित्यहक्रिया नहि सर्वत्र भवेत्प्रशान्तये । अधिकक्रमतैव मृत्यवे ननु सिंहस्य घनं लिलविषोः ॥३५।। बलगर्वितयैव निष्फलं प्रविधिसुमहतामतिक्रमम् । स्वयमेव खलः स भोत्स्यते कटुनो यन्मधुरस्य चान्तरम् ॥३६।। शयितस्य हरेः प्रबोधनामिति कुर्वन्तमुपेत्य मत्प्रभुः । सहसैव हिनस्ति किं न तं यदि न स्यात्क्षमया निवारितः ॥३७॥ अभियुज्य निहन्ति यो रिपूनभियुक्तः स पुनर्विशेषतः । ज्वलितुं स्वयमुत्सुकः शिखी सुतरां मारुतसंप्रधुक्षितः॥३८॥ (किम् ) अभिधत्ते ( किं ) वदति । डुधाञ् धारणे च लट् । किं कि निमित्तम् ॥३३॥ किम्विति। तव भूपतेः । परपक्षवारणाः परेषां पक्षस्य सेनाया वारणा: तिरस्कारः। 'कृतकामुक स्य-' इत्यादिना कर्मणि षष्ठी। अन्ये केचित् । बहवः बहुलाः। वारणा: गजाः। न सन्ति न विद्यन्ते । अस भुवि लट् । किमु किम् । मन्दधोः मन्दबुद्धिः। सः तव भूपः । अमना एतेन । पदेन व्याजेन । अस्मान्, अमियोक्तुं योद्धम् । इच्छति वाञ्छति । ध्रुवं निश्चयेन ॥३४॥ बलवानिति । अहं बलवान् सामर्थ्यवान् इति । अहंक्रिया अहंकारः। सर्वत्र सर्वप्रदेशेषु कार्येषु वा। प्रशान्तये सुखाय । न भवद्धि न स्याद्धि [ नहि भवेत् नहि स्यात् ] । भू सत्तायां लिङ्। घनं मेघम् । लिलचिषोः लवितुमिच्छोः । सिंहस्य कण्ठोरवस्य । अधिकक्रमता अधिकमत्यन्तं क्रमता पादविक्षेपतैव । मृत्यवे मरणाय । ननु । अर्थान्तरन्यासः ।। ३५ ।। बलेति । बलगवितयैव बलेन सामर्थ्येन वितयैव गर्वयुक्ततयैव । महतां महापुरुषाणाम् । निष्फलं प्रयोजनरहितं यथा तथा। अतिक्रम लङ्घनम् । प्रविधित्सुः कतुमिच्छुः। सः खलः दुर्जनः । कटुनः कटुवस्तुनः । मधुरस्य मधुरवस्तुनश्च । यत् अन्तरं तारतम्यम्, अस्ति । (तत ) स्वयमेव भोत्स्यते ज्ञास्यते। बधि मनि ज्ञाने लट । 'बशो भष-' इत्यादिना भषादेशः। आक्षेपः ॥३६॥ शयितस्येति । इति एवम् । शयितस्य सुप्तस्य । हरेः सिंहस्य । प्रबोधनां जागरणम् । कुर्वन्तं विदधतम् । तं पुरुषम् । समुपेत्य समोपं गत्वा । मत्प्रभुः स्वामी क्षमया 'शान्त्या। निवारितः निरुद्धः । यदि न स्यात् न भवेत्, तहि। सहसैव शीघ्रमेव । न हिनस्ति किं न हन्ति किम्, अपितु हन्त्येव ॥३७॥ अमियुज्येति । यः भूपः । रिपून शत्रून् । अभियुज्य अभिषेणयित्वा, शत्रून् प्रति सेनया सह अभिगम्य-इत्यर्थः । निहन्ति हिनस्ति । हन हिंसागत्योर्लट् । सः लानेवाले धमकी भरे वचन क्यों कहता है ? ॥३३॥ क्या उसके पास शत्रुओंकी सेनाका वारण करनेवाले ( परेषां शत्रूणां पक्षं वारयन्तीति परपक्षवारणाः ) और बहुतेरे हाथी नहीं हैं, जो वह नादान इस बहाने हमसे युद्ध करना चाहता है ॥३४॥ 'मैं बलवान् है' यह अहंकार सभी जगह सुखदायी नहीं हो सकता। मेघको लाँघनेको इच्छा करनेवाले सिंहको ऊँची छलांग ही उसकी मृत्युके लिए हो जाती है ॥३५॥ केवल बलके घमण्डसे बड़ोंके ऊपर निष्प्रयोजन आक्रमण करनेका इरादा करनेवाला वह दुर्जन पृथिवीपाल अपने आप कडुए और मीठेका फर्क जान जायेगा ॥३६॥ यदि क्षमाने न रोक लिया होता तो इस तरह सोए हुए सिंहको जगानेवाले पृथिवीपाल को, मेरे प्रभु-पिता पद्मनाभ, सहसा चढ़ाई करके क्या मार न डालते ? ॥३७॥ जो झूठा अभियोग लगाकर अथवा आक्रमण करके शत्रुओंको मारनेको उद्यत होता है, वह १. आ इ भोत्स्यते, म भोक्ष्यते । २. अ शखी। ३. आ किमिति । ४. श लेट् । ५. = भवतीति शेषः। ६. शवोत्स्यते । ७. श प्रचोदनां । ८. = पृथिवीपालम् । ९. आ शील्या।१०. श 'न हन्ति किम्' इति नोपलभ्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy