SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २८७ - १२, ३३] द्वादशः सर्गः इह तावददातुमिच्छतां निजमस्माकमयं किलाक्रमः। परवस्तु जिगीषतां पुनर्भवतामेष किमुच्यते क्रमः ॥३०॥ वचनं क्व खलूपयुज्यते प्रभुरस्मि क्रमतोऽहमित्यदः। ननु खगवलेन भुज्यते वसुधा न क्रमसंप्रकाशनैः ।।३१।। करिणीपतिरन्यदेव वा कृतपुण्यं समुपैति वस्तु यत् । बलिना तदपास्यते बलान्नहि लोके क्वचिदीदृशः क्रमः ॥३२।। अथ सप्रणयेन याचते करिणीनाथमनाथवत्सलः।। इति ते विनिवेदितं मयेत्यभिधत्ते भयदर्शि किं वचः ॥३३॥ मत्सर: मात्सर्य हि । अर्थान्तरन्यासः ॥२९॥ इहेति । इह अस्मिन् जगति । तावत् प्रथमम् । निजं स्वकीयं वस्तु । अदातुम् अदानाय । इच्छतां वाञ्छताम् । अस्माकम्, अयम् एषः । क्रमः किल अन्यायः किल । पुनः पश्चात् । परवस्तु अन्यदो यं वस्तु । जिघृक्षतां गृहीतुमिच्छताम् । भवतां युष्माकम् । एषः अयम् । क्रमः 'न्यायः' इति उच्यते निगद्यते किम् ।।३०।। वचन मिति । अहं क्रमतः वंशक्रमात् । प्रभुः राज्याधिपतिः । अस्मि भवामि । अस भुवि लट् । [ इति ] अदः एतत् । वचनं भाषणम् । वत्र कुत्र । खलु स्फुटम् । उपयुज्यते प्रयुज्यते। वसुधा भूमिः । खड्गबलेन शस्त्रबलेन । भुज्यते अनुभूयते । भुन पालनाभ्यवहारयोः कर्मणि लट् । क्रमसंप्रकाशनैः क्रमस्य परिपाट्याः संप्रकाशनैः प्रकटनैः । [नन निश्चयेन । न भज्यते ननु निश्चयम् । अर्थान्तरन्यासः ॥३१॥ करिणीति । करिणीपतिः गजपतिः । अन्य देव वा गजादायत अमूल्यरत्नादि वः । यत् वस्तु । कृतपण्यं कृतं पुण्यं सुकृतं येन तम् । पुरुषं समुपैति संप्राप्नोति । इण् गतो लट् । तत् वस्तु । बलिना सामर्थ्यवता पुरुषेण । बलात् सामर्थात । अपास्यते आकृष्यते गातेवा। अस क्षेपणे कर्मणि लट् । ईदृशः एतादृशः । क्रमः परिपाटी, मम गजो मदीयः इति क्रमः । लोके जगति । क्वचित् नहि नास्ति हि ॥३२॥ अथेति । अथ अथवा। अनाथवत्सलः अनाथेषु दीनजनेषु वत्सलः प्रतिमान । स:१० पृथिवीपाल.११ । करिणीनाथं गजपतिम् । प्रणयेन विनयेन । याचते प्रार्थ्यते । यात्रा १२ याचने लट। इति एवम् । ते तव । मया विनिवेदितं ज्ञापितम्-इत्युक्ते ( इत्युक्तम् ) । भयदशि भयप्रकाश । वच: वचनम् । है ॥२९॥ हम अपनी वस्तु आपको नहीं देना चाहते, इसे आप हमारा अन्याय कहते हैं, तो फिर पराई ( हमारी ) वस्तुको जो आप स्वयं हड़प लेना चाहते हैं, उसे क्या आपका न्याय कहा जायेगा? ॥३०॥ 'मैं पीढ़ी-दर-पीढ़ीसे साम्राज्यका स्वामी हैं' यह कहना कहाँ उपयोगी है ? निश्चय ही तलवारके बलपर पृथिवीका भोग किया जाता है, न कि वंश परम्पराका राग अलापनेसे ॥३१॥ गजराज या और भी कोई वस्तु, जो पुण्यवान् पुरुषको प्राप्त हो, उसे कोई तीसमारखाँ बलात् छीन ले, ऐसा न्याय या ऐसी परिपाटी इस दुनियामें कहीं भी नहीं है ॥३२॥ और, यदि वह दीनानाथ ( दोन, अनाथ ) विनय पूर्वक हमसे हाथीकी याचना करना चाहता है, तो 'मैंने तुमसे निवेदन कर दिया' (६ से १९वें श्लोक तक) ये डर दिख १. इरन्यदैव । २. आ इ धत्से । ३. आ इ तं वचः । ४. वंशस्य । ५. मा प्रकटक्रियाभिः । ६. = नानुभूयते । ७. = इठात् । ८. आ दृश्यते । ९. आ असु । १०. श 'सः' इति नास्ति । ११. आ पृथ्वीपा। १२. आ याच । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy