________________
२८६
चन्द्रप्रमचरितम्
[ १२, २७
सचिवरधुना भवद्विधैः परमेधोद्यमयोग्यतान्वितैः । सहितस्य कथं भवेत्प्रभोस्तव भूतिः प्रचुरा न मन्दिरे ॥२७॥ विनयैकरतिर्महागुणः सकलेऽस्मिन्भुवने स गण्यते । नृपतिः प्रविनिन्दितं सतामुचित तस्य विधातुमीदृशम् ।।२८।। यदि भाग्यवशेन वारणो गृहमस्माकमयं व्यगाहत । इयतैव किमक्षमा प्रभोः परवृद्धिष्वसतां हि मत्सरः ।।२९।।
त्वाम् । प्रविहाय विमुच्च। ईदृशम् एतादृशम् । वचनं भाषणम् । वक्तुं निगदितुम् । कः को वा । उपक्रमेत प्रारभेत । क्रम पादविक्षेपे लड्। 'प्रोपाभ्यां समर्थाभ्याम्' इति तङ । श्लेषः ।।२६।। सचिवैरिति । परमेधो. द्यमयोग्यतान्वितैः परा उत्कृष्टा मेधा धारणाबुद्धिः, परा चासो मेधा च तस्या उद्यम उद्योगः तस्य योग्यतया योग्यत्वेनान्वितयुक्तः, अन्यत्र परं केवलम् एधोद्यम इन्धनानामुद्यम उद्योगः तेन अन्वितैः । भव द्वधैः भवादशः । सचिवैः दूतैः । अधुना इदानीम् । सहितस्य युक्तस्य । तव ते। प्रभोः पृथिवीपालस्य । मन्दिरे गृहे । भूति: संपत्, अन्यत्र भस्म । प्रचुरा बहुला । कथं केन । न भवेत न स्यात् । लिङ। श्लेषः ॥२७॥ विनयेति । अस्मिन् एतस्मिन् । सकले निखिले। भुवने लोके । विनयकरति: विनये एका मख्या रतिः प्रोतिर्यस्य सः, अन्यत्र विगतनयकप्रीतिः । महागुणः महन्तो गुणा यस्य सः, अन्यत्र महान्तो अगुणा दोषा यस्य सः। सः नृपतिः भूपतिः। गण्यते' संख्या क्रियते । गण संख्याने कर्मणि लट् । सतां सत्पुरुषैः । प्रविनिन्दितं प्रकुत्सितम् । ‘वा नाकस्य-' इत्यादिना कर्मणि षष्ठी। ईदृशम् एतादृशं कार्यम् । विधातुं कर्तुम् । उचितम् । श्लेषः ॥२८॥ यदीति । यदि भाग्यवशेन' भाग्यस्य दैवस्य वशेन अधोनेन । अयम् एषः । वारणः गजपतिः । अस्माकं गृहं मन्दिरम् । व्यगाहत प्रविशति स्म । गाहौङ् विलोडने लङ् । इयतैव एतावतैव । प्रभोः भवतः स्वामिनः। अक्षमा [किं] मात्सर्यं किम् । असतां दुर्जनानाम् । परवृद्धिषु" परेषामन्येषां वृद्धिषु संपत्तिषु ।
लिए और कौन उपक्रम ( प्रारम्भ ) कर सकता है ? ( यह निन्दापरक अर्थ हुआ ) ॥२६॥ हे दूत ! दूसरोंको बुद्धिको प्रेरणा देनेकी योग्यतावाले आप सरीखे सलाहकारोंसे युक्त पृथिवीपालके महल में इस समय प्रचुर सम्पत्ति क्यों न हो ? ( यह स्तुतिपरक अर्थ है ) हे दूत ! केवल ईंधन ले आनेकी योग्यता रखनेवाले तुम्हारे सरीखे नौकरोंसे युक्त तुम्हारे स्वामी पृथिवोपालके घर में इस समय भस्म क्यों न हो ? ( यह निन्दा परक अर्थ है ) ॥२७॥ 'वह राजा पृथिवीपाल विनयमें अत्यन्त आसक्त और महान् गुणी है', इस रूपमें उसकी इस संसारमें गणना की जाती है । सज्जनोंके द्वारा श्लाघ्य समझे जानेवाले, ऐसे काम करना उसके लिए उचित है । ( यह स्तुतिपरक अर्थ है ) इस संसार में सभी जगह पृथिवीपालकी गणना अन्यायमें आसक्त और महान् दुर्गुणोके रूपमें की जाती है। अतः सज्जनोंके द्वारा निन्दनीय, ऐसे काम करना, उसके लिए उचित है। ( यह निन्दापरक अर्थ है ) ॥२८॥ यदि भाग्यवश यह हाथी हमारे घर में घुस आया, तो इतने मात्रसे तुम्हारे प्रभुजी महाराज आपेसे बाहर क्यों हो रहे हैं ? सच तो यह है कि दूसरोंकी वृद्धि होनेपर दुर्जनोंको डाह हुआ करती
१. अ यस्य । २. क ख ग विगाहत। ३. =केन प्रकारेण । ४. श लेडः । ५. = गणनाविषयीक्रियते । ६. श 'प्र' नास्ति । ७. आ करणार्थे । ८. आ यदिति । ९. = दैवात् । १०. आ गाह। ११. आ परमधिषु । १२. आ ऋद्धिषु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org.