________________
- १२, २६ ]
द्वादशः सर्गः
क्षमते विनयातिलङ्घनं स यथा ते गदितास्मि ते तथा । ' तत्र भवत्यसंशयं मम वाक्येन पयोऽपि गोरसः ||२३|| हितमिच्छसि चेदकैतवां कुरु मद्वाचमथ प्रियप्रिय । रहसि व्रज तिष्ठ भाषयञ्जय जीवेति गिरः स्वयोषितः ||२४|| इति भाषिण' एव भारतीं रिपुदूतस्य सगर्वमा क्षिपन् । 'नरनाथदृशा कटाक्षितो युवराजो गिरमित्युदाहरत् ||२५|| विनयप्रशमकभूषणं परमन्याय समर्थनोद्यतम् । प्रविहाय भवन्तमीदृशं वचनं वक्तुमुपक्रमेत कः ||२६||
२८५
५
1
११
*
अदर्शने लुट् । 'नमस्—' इत्यादिना नम् - आगमः ||२२|| क्षमत इति । सः प्रभुः । ते तव । विनयातिलङ्घनं विनयातिक्रमम् । यथा येन प्रकारेण | क्षमते सहते । क्षमर्षि सहने लट् । तथा तेन प्रकारेण । तं विभुम् । गदितास्मि भणिष्यामि । गद व्यक्तायां वाचि लुट्, उत्तमपुरुषैकवचनम् । विनयातिलङ्घनं न क्षमेत - इत्यर्थः । तत्र पृथिवीपाले भूपे । मम मे । वाक्येन वचनेन । पयोऽपि जलमपि । गोरसः क्षीरम् । असंशयं निश्चयेन' | भवति जायते । अतिशयः ||२३|| हितमिति । प्रियप्रिय प्रियेषु प्रिय भो मित्र, अत्यन्तं मित्र -- इत्यर्थः । हितं स्वस्य हितम् । इच्छसि चेत् वाञ्छसि चेत् । इमाम् एताम् । मद्वाचं मम मे वाचं वचनम् । अकैतवां सत्यरूपाम् । कुरु विधेहि । डुकृञ् करणे लोट्" । स्वयोषितः स्वस्य योषितो वनिता: । जय जीव इति, गिरः वचनानि । भाषयन् उच्चारयन् । रहसि निशायाम् ( एकान्ते ) । व्रज गच्छ । तिष्ठ || २४|| इतीति । इति उक्तप्रकारेण । भाषिणः एव भाषणशीलस्यैव । रिपुदूतस्य शत्रोतस्य वचो - हरस्य । सगर्वं गर्वयुक्तं यथा तथा भारतीं वचनम् । आक्षिपन् निवारयन् । नरनाथदृशा नरनाथस्य पद्मनाभस्य । दृशा नयनेन । कटाक्षितः " कटाक्षेण दर्शितः । युवराजः सुवर्णनाभकुमारः । इति वक्ष्यमाणप्रकारेण । गिरं भारतीम् । उदाहरत् अब्रवीत् । हृञ् हरणे लङ् ||२५|| विनयेति । विनयप्रशमैकभाषणं २ विनयप्रशमी एकभाषणे एकवचने यस्य तम्, अन्यत्र विगतनयप्रशमैकभाषणम् । परमन्यायसमर्थनोद्यतं परमश्वासौ न्यायश्च परमन्यायस्तस्य समर्थने साधने उद्यतमुद्युक्तम्, अन्यत्र परं केवलमन्यायसमर्थनोद्यतम् । भवन्तं नष्ट हो जायेगा - 'लाभमिच्छतो मूलच्छेदः ' यह उक्ति चरितार्थ होगी ||२२|| में पृथिवीपाल भूपालसे तुम्हारे बारे में ऐसे ढंगसे बात करूंगा, जिससे वह तुम्हारे इस विनयके उल्लंघनको क्षमा कर देगा । यह निश्चित है कि मेरे कहने से वह पानीको भी दूध मान लेगा || २३ ॥ हे प्रियवर ! यदि तुम अपना हित चाहते हो तो मेरे निश्छल वचनका पालन करो, और अपनी स्त्रियोंसे 'जय हो महाराजकी, जियो महाराज' यह कहलवाते हुए जाओ और एकान्त में पृथिवीपाल से मिलो ||२४|| इतना सुनकर पद्मनाभने युवराज सुवर्णनाभको ज्योंही आँखका इशारा किया त्योंही उसने, उक्त प्रकारसे बड़े घमण्ड से बोलनेवाले पृथिवीपालके दूतको टोककर यों उत्तर दिया- ॥ २५ ॥ हे दूत ! विनय और शान्तिपूर्वक बोलनेवाले और उत्कृष्ट न्यायका समर्थन करने के लिए तैयार रहनेवाले तुम्हें छोड़कर ऐसे वचन और कौन कह सकता है ? ( यह प्रशंसा परक अर्थ हुआ ) हे दूत ! नीति और शान्ति रहित भाषण करनेवाले और सरासर अन्यायका समर्थन करनेके लिए तैयार रहनेवाले तुम्हें छोड़कर ऐसे वचन कहने के १. आ इ खलु तत्र । २ अ मथाप्रियाप्रियः, आ इ म मिमां प्रियाप्रियः क ख ग घ 'मथ प्रियंप्रियः । ३. इ भाषण एव । ४. आ इ पृथ्वीप । ५. आ 'नश्च भ्रश्च' इत्यादिना नुमागमः । ६. आ क्षमूष् । ७. = लङ्घनं क्षमेत । ८. आ निश्चयम् । ९. आ न्तं प्रियं । १०. श लेट् । ११. = कृतसंकेत इत्यर्थः । १२. एष टोका पाठः प्रतिषु तु 'भूषणं' इत्येव पाठः समुपलभ्यते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org