SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ - ११, ९१ ] एकादशः सर्गः पश्चात्पुरोऽप्युभयतश्च गजाधिपस्य बभ्राम तस्य स तथा निजलाघवेन । सर्वैर्यथा परिधिसौधतलाधिरूढैः सर्वासु दिक्षु युगपद्ददृशे जनौघैः ||८|| निःस्पन्दं गजमिति संविधाय तस्य स्कन्धेऽसौ विधृतसृणिः समारुरोह | तुष्टेनामरनिवहेन लोलभृङ्गैः पुष्पौधैर्दिवि दिविजैर्विकीर्यमाणः ॥ ६०॥ अनुपमबलवीर्यैः संमुखीभूय सर्वैः करिपतिरुरुधैयैर्यः सुरैरप्यसाध्यः । तमकुरुत स वश्यं लीलया चारुलोलो नहि जगति नराणां पुण्यभाजामसाध्यम् ||११|| २७७ 3 ४ पार्श्वभागे । बभूव भवति स्म, अन्यपार्श्वे स्थितवान् - इत्यर्थः । असौ गजः तत्रापि अन्यपार्श्वेऽपि । निवृत्य वलित्वा । हस्तं शुण्डादण्डम् । यावत्, वाहयति प्रापयति । वहि प्रायणे लट् । तावदेव सः ईशः पद्मनाभः तन जठरतलेन । निरियाय निर्जगाम । इण् गतौ लिट् ॥८८॥ पश्चादिति । सः राजा । तस्य गजाधिपस्य भद्रगजस्य । पश्वादपि पृष्ठभागे । पुरोऽपि अग्रभागेऽपि । उभयतश्व उभयभागयोरपि । परिधिसोधतलाधिरूढैः परिधेः प्राकारस्य सौधानां राजसदनानां तलानि प्रदेशान् अधिरूढैः आरूढः । सर्वैः सकलैः । जनोघैः जनसमूहैः। यथा येन प्रकारेण । सर्वासु सकलासु । दिक्षु दिशासु । युगपत् ददृशे दृश्यते स्म । दृप्रेक्ष कर्मणि लिट् । तथा तेन प्रकारेण । निजलाघवेन स्वस्याभ्यासेन बभ्राम भ्रमति स्म । भ्रम् चलने लिट् ॥८९॥ निष्पन्दमिति । विधून सृणिः भृताङ्कुशः । असौ पद्मनाभः गजं करिणम् । इति एवम् । निष्पन्दं चलनरहितं यथा तथा । संविधाय कृत्वा । दिवि आकाशे । तुष्टेन संतुष्टेन । अमरनिवहेन अमराणां देवानां निवहेन समूहेन । लोलभृङ्गः लोला लालसा भृङ्गा येषु तैः । दिविजैः स्वर्गजैः । पुष्पोघैः कुसुमोघैः विकीर्यमाणः सन् । [ तस्य गजस्य । स्कन्धे स्कन्धप्रदेशे । समारुरोह चटति स्म । ] ||१०|| अनुपमेति । यः ६ उरुधैर्यः ( : ) महाधैर्ययुक्तः ( क्तैः ) । अनु मबलवीर्यै: अनुपमैरुपमातीतैर्बलैरोपाधिकशक्तिभिर्वीर्यैः स्वाभाविकशक्तिभिश्च ( अनुपमं बलं वीर्यञ्च येषां तैः ) । सर्वैः सकलैः । सुरैरपि देवैरपि । असाध्यः साधयितुमशक्यः करिपतिः गजपतिः । तं गजम् । चारुलील: मनोहरविलासः । सः पद्मनाभः संमुखीभूय अभिमुखं गत्वा । लोलया विलासेन । वश्यं वशंगतम् । 'वश्यपथ्य -' इत्यादिना साधुः । अकुरुत अकृत । डुकृञ् करणे लङ् । जगति लोके । पुण्यभाजां पुण्ययुक्तानाम् । नराणां पुरुषाणाम् । असाध्यं साध्यरहितम् । कार्यं नहि दूसरी बगल में ( जिधर से डण्डा मारा था, उधर नहीं ) पहुँच गया । उस ओर भी जबतक वह मुड़कर सूंड फटकारता है तबतक वह राजा उसके नीचेसे निकल गया ||८८ || राजा पद्मनाभ उस गजराजके आगे पीछे और दोनों बगलों में भी बड़ी ही फुर्तीसे ऐसे ढंगसे घूम रहा था, जिससे चहारदीवारी और महलोंकी छतोंपर चढ़कर देखनेवाले सभी मनुष्योंके द्वारा वह सारो दिशाओं में एक ही साथ देखा गया ॥ ८६ ॥ इस तरह हाथीको इतना पस्त कर दिया कि उसे अपने अवयवों का हिलाना-डुलाना भी कठिन हो गया ( निःस्पन्दम् ) ' फिर वह हाथमें अंकुश लेकर उसके कन्धेपर सवार हो गया । यह देखकर देववृन्दने सन्तुष्ट होकर उसके ऊपर दिव्य पुष्पोंकी - जिनके ऊपर भौंरे मडरा रहे थे - वर्षा की ॥ ६०॥ अतुल बल और अनुपम पराक्रमवाले, एवं अत्यधिक धैर्य धारण करनेवाले सभी देवलोग भी सामने जाकर जिस हाथीको अपने वशमें नहीं कर सकते थे, उसे सुन्दर विलास करनेवाले पद्मनाभने खेल-खेल में अपने अधीन कर लिया । सच तो यह है कि इस जगत् में पुण्यवान् मनुष्योंके लिए कोई भी काम कठिन १. आा स्वस्तिकान्तर्गतः पाठो नास्ति । २. आ दृशिर् । ३. श 'कर्मणि' इति नास्ति । ४ = धृताङ्कुशः । ५. = चञ्चलाः सतृष्णा वा । ६. = गजः । ७. श वीर्यः । ८. = दुर्घटं कठिनं दुःसाध्यं वा । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy