________________
२७५
-११,८४]
एकादशः सर्गः कोऽपि क्षरत्करटभित्तिरुपेत्य देव दन्ती कुतोऽपि सुरदन्तिसमानसत्त्वः। हन्त्युद्धतः सकलमेव पुराबहिःस्थं लोकं त्वदीयभुजरक्षितमारटन्तम् ॥२॥ निष्कामति प्रविशति प्रकटोऽथ वा यः सर्वः स तत्करपराहतिचूर्णिताङ्गः । दिग्भ्यो बलिर्भवति किं बहुना जनानां संहारकाल इव स द्विपरूपधारी ॥३।। इत्यागमं करटिनो मुनिसृचितस्य श्रुत्वा जहर्ष हृदयेऽधिपतिर्धरित्र्याः।
भेजे विषामपि किंचिदुदारबुद्धिर्दुःसाध्यतां' परिमृशन्मनसा तदीयाम् ।।४।। भुजि राज्ञि । त्वरितं शोघ्रम् । संप्रष्टरि सति संशृण्वति सति । वचस्वी वचोहरः। कश्चित् एकः । प्रगत्य एत्य । निर्णीतलोकविषयाकुलतानिमित्तः लोको जनः स एव विषयो यस्याः सा तथोक्ता, सा चासावाकुलता च तथोक्ता, तस्या निमित्तं तथोक्तं, निर्णीतं निश्चितं लोलविषयाकुलतानिमित्तं येन सः। पुनः पश्चात् । निवत्य आगत्य । इति एवम् । अवदत वदति स्म । वद व्यक्तिायां वाचि लङ। संशयः (?) ॥८१॥ क इति । देव भोः स्वामिन । क्षरकरटभित्तिभिः (त्तिः ) द्रवत्कपोलप्रदेशः (शः पुरदन्तिसमानसत्त्वः सुरदन्तिन ऐरावतस्य समानं सदृशं सत्त्वं सामर्थ्य यस्य सः। उद्धतः गर्वितः । कोऽपि एकः । दन्ती गजः । कुतोऽपि कस्मादपि। उपेत्य आगत्य । त्वदीयभुजरक्षितं त्वदीयेन तव संबन्धेन । भुजेन बाहुना। रक्षितं पालितम् । आरटन्तम् आक्रोशन्तम् । पुरात् नगरात् । बहिस्थं बाह्यस्थितम् । सकलमेव सर्वमेव । लोकं जनम् । हन्ति हिनस्ति । हन् हिंसागत्योर्लट् । जातिः ॥८२॥ निष्क्रामतीति । यः जनः। प्रकटः प्रकटो भूत्वा । निष्क्रामति निर्गच्छति । अथवा प्रविशति अन्तर्गच्छति । सः सर्वः जनः । तत्करपराहतिचूर्णिताङ्गः तस्य गजस्य करस्य शुण्डायाः पराहत्या आहत्या चूणितं पेषितमङ्ग गात्रं यस्य सः, सन् । दिग्भ्यः अष्टदिशाभ्यः । बलिः, भवति जायेत । जातिः। बहना बहनोक्तेन । किं कि प्रयोजनम् । जनानां लोकानाम् । सः गजः । द्विपरूपधारी द्विपस्य गजस्य रूपधारी वेषधारी। संहारकाल इव प्रलयकाल इव भवति । उत्प्रेक्षा ।।८३।। इतीति । उदारबुद्धिः उदारा बुद्धिर्यस्य सः । धरित्र्याः भूमेः । अधिपतिः प्रभुः । मुनिसूचितस्य मुनिनिरूपितस्य । करटिन: दन्तिनः । आगमम् आगमनम्। इति एवम् । श्रुत्वा आकर्ण्य । हृदये चित्ते । जहर्ष तुतोष । हृषू' अलोके' लिट् । तदीयां गजसंबन्धिनीम् । दुःसाध्यतां साधयितुमशक्यताम् । मनसा है यह, जाओ देखो' राजाके यह पूछने या कहने पर कोई दूत वहाँसे शीघ्र ही निकल करके और लोगोंकी आकुलताके कारणको ठीक-ठीक जान करके वापस लौट आया और पद्मप्रभसे यों कहने लगा-॥८१॥ राजन् ! कहींसे एक हाथी आ धमका है। उसके गण्डस्थलसे मदजल बह रहा है। वह एरावतके समान बलवान् है और है उद्धत । वह आपकी बाहुओंसे सुरक्षित, नगरके बाहर स्थित सभी लोगोंको मारे डालता है, इसीलिए वे सब 'त्राहि-त्राहि'बचाओ' 'बचाओ' की रट लगा रहे हैं-चिल्ला रहे हैं ॥८२॥ कोई निकल रहा हो, कोई प्रवेश कर रहा हो या कोई और भी किसी रूपमें प्रकट होता देख पड़ रहा हो तो वे सब-के-सब उसकी सूंडकी प्रहारसे चूर-चूर होकर दिशाओंकी बलि होते जा रहे हैं। बहुत कहनेसे क्या लाभ ? संक्षेपमें इतना समझ लीजिये कि मनुष्योंके लिए वह हाथोका रूप धारक करके आया हुआ प्रलयकाल ही जान पड़ता है ।।८३॥ उदार बुद्धिवाला राजा पद्मनाभ इस तरह हाथीके-जिसकी सूचना श्रीधर मुनि नौ दिन पहले ही दे
१. आ इ दुःसाधनां । २.=पृच्छके । ३. = गत्वा। ४. श कटभित्तिभिः । ५. = कश्चित् । ६. कुतश्चिदपि प्रदेशात् । ७. = भवदीयेन। ८. श अप्रविशति । ९. श पीडित । १०. आ °दिशात् । ११. आ हृष । १२. 'अलीकमानन्दः' इति काशकृत्स्नधातुपाठीयकन्नडटीका (पृ०६१)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org