________________
२७४ चन्द्रप्रमचरितम्
[११,७८तत्प्रत्ययात्स्वयमिदं नचिरेण राजनिश्चेष्यसि त्वमखिलं वचनं मदुक्तम् । प्रत्यक्षमन्यदथवा जगति प्रमाणं संवादकं मतिमतां सकलं प्रमाणम् ॥८॥ प्रह्लादिनेति वचसा वदतां वरस्य निर्धूय संशयमलं विरतस्य साधोः। पादौ प्रणम्य शिरसा व्रतभूषिताङ्गः प्रत्याययौ निजपुरं प्रति पद्मनाभः ॥७॥ आकस्मिकोदगतबृहत्परचक्रशङ्कात्रस्यजनोक्तकिमिदंध्वनिपूर्यमाणः। तस्मिन्मुनीन्द्रकथितेऽथ दिने तुरंगानुत्कर्णयन्कलकलोऽतिमहान्बभूव ॥८०॥ . किं किं किमेतदुपयाहि विलोकयेति संप्रष्टरि क्षितिभुजि त्वरितं प्रगत्य ।
कश्चिन्निवृत्य पुनरित्यवदद्वचस्वी निर्णीतलोकविषयाकुलतानिमित्तः ।।८।। ॥७७॥ तदिति । राजन् भूप । तत्प्रत्ययात् तद्विश्वासात् । मदुक्तं मया उक्तं प्रोक्तम्'। इदं तु एतत् तु [ इदम् एतत् ]। अखिलं सकलम् । वचनं वचः। त्वं स्वयमेव त्वयव । अचिरेण शीघ्रम् । निश्चेष्यसि
रिष्यसि । चित्र चयने लट । अर्थ । जगति लोके । प्रत्यक्षं विशदरूपम । अन्यद्वा परोक्षरूपं वा। प्रमाणं ज्ञानम् । मतिमतां बुद्धिमताम् । संवादकं सत् विषयाव्यभिचारं सत् । सकलं सर्वम् । प्रमाणं सत्यरूपं स्यात् । जातिः । ७८॥ प्रह्लादिनेति । प्रह्लादिना संतोषकरणशोलेन । वचसा वचनेन । संशयमलं संदेहमलम् । निधूय निराकृत्य । विरतस्य महाव्रतयुक्तस्य । वदतां वरस्य वदतां वाग्मिनां वरस्य श्रेष्ठस्य । साधोः मुनिपस्य । पादौ चरणौ। [शिरसा प्रणम्य ] । व्रतविभूषिताङ्गः अणुगुणादिव्रतेन भूषितमलंकृतमङ्गमवयवो यस्य सः । पद्मनाभः पद्मनाभभूपः । 'नाभेर्नाम्नि' इत्यदन्तः । शिरसा मस्तकेन । प्रणय नमस्कृत्य । निजपुरं स्वराजधानीम् । प्रति, प्रत्याययो प्रत्याजगाम । या प्रापणे लिट् ।।७९।। आकस्मिकेति । अथ आगमनानन्तरम् । मुनीन्द्रकथिते मुनीन्द्रेण श्रीधराचार्येण कथिते प्रोक्ते । तस्मिन् दशमे । दिने दिवसे । आकस्मिकोद्गतबृहत्परचक्रशङ्कात्रस्यज्जनोक्तकिमिदंध्वनिपूर्यमाणः आकस्मिकेन अकारणेन उद्गतस्तथोक्तः, परेषां शत्रूणां चक्र सेना तदिति शङ्का संदेहस्तया त्रस्यन्तो बिम्यन्तस्ते च ते जनाश्च, त्रस्यज्जनरुक्तस्तथोक्तः, किमिदम् इति ध्वनिस्तथोक्तः, आकस्मिकोद्गतेन बृहत्परचक्रशङ्कात्रस्यज्जनोक्तकिमिदमिति ध्वनिना पूर्यमाणो व्याप्यमानस्तथोक्तः । तुरङ्गान् अश्वान् । उत्कर्णयन् उद्गतकर्णान् कुर्वन् । अतिमहान् अत्यन्तं महान् । कलकलः कलकल इति ध्वनिः । बभूव भवति स्म। जातिः ॥८०॥ किमिति । एतत् इदम् । किं किं किम् । 'संभ्रमेऽसकृत्' इति असकृत्प्रयोगः। उपयाहि गच्छ । विलोकय इति वीक्षस्व इति । क्षितिन्मत्त हाथी अपने झुण्डको छोड़कर तुम्हारे नगरकी ओर आयगा ॥७७॥ राजन् ! उस हाथीको देखकर तुम्हें विश्वास हो जायगा, फिर तुम स्वयं शीघ्र ही मेरी कही सारी बातोंकी सचाईका निश्चय कर लोगे। क्योंकि प्रत्यक्ष अथवा परोक्ष सभी प्रमाणोंका प्रामाण्य( सचाई ) तभी सिद्ध होता है, जब वे विद्वानोंको दोष रहित दृष्टिगोचर होते हैं ।।७८॥ श्रीधर मुनि, श्रेष्ठ वक्ता थे। उन्होंने उक्त आह्लादजनक बात कहकर राजा पद्मनाभका संशयका मैल दूर कर दिया। जब वे उत्तर दे चके. तब व्रतोंसे विभषित-व्रती पद्मनाभ उनके चरणोंमें प्रणाम करके अपने पुरकी ओर चला गया ॥७९॥ अपनी राजधानीमें पहुँचनेपर मुनिराजके कथनानुसार दसवें दिन बहुत भारी कोलाहल हुआ, जिससे घोड़े चौंक उठे, और उनके कान खड़े हो गये। कोलाहलमें, अचानक ही बहुत बड़े शत्रुओंके गिरोहके आक्रमणको शंकासे डरे हुये लोगोंकी 'यह क्या है ? यह क्या है ?' यह ध्वनि मिली हुई थी-॥८०॥ 'क्या, क्या, क्या
१. आ श मयोक्तं मया प्रोक्तम् । २. = त्वं स्वत एव । ३. = अथवा। ४. श 'सकलं' इति नास्ति । ५. श वमिनां। ६.श आकस्मीति । ७. श गमनानन्तरम् । ८. श व्याप्त । ९.= कोलाहल इति यावत् । 'कोलाहल: कलकलः' इति हैमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.