________________
- ११, ७७ ]
जन्मावलीमिति यथावदसौ निगद्य तूष्णीमभून्मुनिपतिर्मुनिवन्द्यपादः । राजापि पूर्वभवकीर्तन हृष्टरोमा बद्धाञ्जलिर्य तिवृषं पुनरित्युवाच ॥७५॥ जन्मान्तराणि भगवन्भवतः प्रसादाज्ज्ञातानि संशयमुपैति तथापि चेतः । तत्प्रत्ययं कमपि नाथ कुरुष्व येन निःसंशया भवति धीर्मम संशयाना ॥ ७६ ॥ तद्भारतीमिति निशम्य जगाद भूपं संदेहपङ्कमपहस्तयितुं मुनीन्द्रः । यूथं त्वदीयनगरे दशमेऽह्नि हित्वा दन्ती मदान्धमतिरेष्यति कश्चिदेक ||७७||
एकादशः सर्गः
नामनगरे । जगद्विजयिनः लोकविजयिनः । कनकप्रभस्य कनकप्रभभूपस्य । पद्मनाभः पद्मनाभ इति पुत्रः तनयः । अभूः अभवः । भू सत्तायां लुङ् । ते तव । जनमनोज्ञसुवर्णमाला जनानां लोकानां मनोज्ञा मनोहररूपा सा चासी सुवर्णमाला च तयोक्ता ( जनमनोज्ञ इति पद्यनाभस्य संबोधनमपि भवितुमर्हति ) । माता च जनन्यपि । चशब्दः समुच्चयार्थः, अभूत् - इत्यर्थः । ७४ । । जन्मावलीमिति । मुनिवन्द्यपाद: मुनिभिर्वन्द्यो पादो चरणो यस्य सः । असो मुनिपतिः श्रधरमुनीन्द्रः । इति उक्तप्रकारेण । जन्मावलि भवावलिम् । यथावत् सत्यरूपम् ( यथा स्यात्तथा ) । निगद्य निरूप्य । तूष्णीं जोषम् । अभूत् अभवत् । पूर्वभव कीर्तन. हृष्टरोमा पूर्वभवानां जन्मान्तराणां कीर्तनेन भाषणेत संतुष्टं रोम रोमाञ्चो यस्य सः । राजावि पद्मनाभोऽपि । बद्धाञ्जलिः सन् रचिताञ्जलिर्भूत्वा । यतिवृषं यतीनां मुनीनां वृषं श्रेष्ठम् । पुनः पश्चात् । उवाच ब्रवोति स्म । ब्रून् व्यक्तायां वाचि लिट् ॥७५॥ जन्मेति । भगवन् भो महात्मन् । भवतः पूज्यस्य तत्र । प्रसादात् कृपायाः । जन्मान्तराणि भवान्तराणि । ज्ञातानि अवबुद्धानि । तथापि चतः मम चित्तम् । संशयं संदेहम् । उपैति प्राप्नोति । नाथ भो स्वामिन् । संशयाना संशयं कुर्वाणा । मम मे । घोः बुद्धिः । येन केन ( ? ) प्रत्ययेन । निःसंशया संदेहरहिता । भवति जायते । कमपि तत्प्रययं स चासौ प्रत्ययश्च तत्प्रत्ययः, तं, विश्वासम् - इत्यर्थः । कुरुष्व विधेहि । डुकृञ् करणे लोट् ॥ ७६ ॥ तदिति । मुनीन्द्रः मुनितिः । इति एवम् । तद्भारतीं तस्य भूपस्य भारतीं वाचम् । निशम्य श्रुत्वा । संदेहपङ्कं संशय एव मलम् । अपहस्तयितुं निवारयितुम् । भूयः पश्वात् । जगाद उवाच । गद व्यक्तायां वाचि । मदान्धमतिः मदेन कर्णकपोलादिमदेनान्धा मतिर्यस्य सः । कश्चित् एकः । दन्ती भद्रगजः । यूथं गजसमूहम् । हित्वा त्यक्त्वा । दश में अह्न दिवसे । स्वदीयनगरे त्वदीये तव संबन्धे नगरे पुरे । एष्यति आगमिष्यति । इण् गतौ लृट् । जातिः
४
२७३
कनकप्रभके यहाँ उनकी रानी सुवर्णमालाकी कुक्षिसे पद्मनाभ नामक राजकुमार हुए हो । राजकुमार ! तुम प्रजाजनको अत्यन्त प्रिय हो ||७४ || इस प्रकार से पद्मनाभके पिछले भवोंकी परम्पराको ठीक-ठीक बतलाकर श्रीधर मुनिराज - जो समस्त मुनियोंके द्वारा वन्दनीय थेमन हो गये । पूर्व जन्मोंकी चर्चा सुनकर पद्मनाभको रोमाञ्च हो आया। उसने हाथ जोड़कर मुनिराज से पुनः यों कहा - ||७५ ॥ भगवन्! आपकी कृपासे मैंने अपने पिछले भवोंको जान लिया है, फिर भी मेरा मन संशय में पड़ा हुआ है । अतः मुझे कोई विश्वास जनक बात बतलाइये, जिससे मेरी संशय बुद्धि, संशय रहित हो जाय ॥ ७६ ॥ पद्मनाभके ये वचन सुनकर श्रीधर मुनिने उसके संशयके मैलको दूर हटानेके लिये यों कहा- आजसे दसवें दिन एक मदो
३५
Jain Education International
१. क ख ग घ म मुनिवृषं । २. श लेट् । ३ = सन्देहः संशयः स एव पङ्को मलः, तम् । ४. = भवदीये ।
For Private & Personal Use Only
www.jainelibrary.org