SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २०० चन्द्रप्रमचरितम् [११,६४ बहुप्रकारा यदि न स्युरङ्गिनामनिष्टयोगादिकृता दुराधयः। जिनेन्द्रचन्द्राचरितं सुदुःसह सहेत कः सत्यमिदं महाव्रतम् ॥६४।। विचित्रदुःखा भवमृत्युसंततिः प्रलीयते चेद् गृहमेधिनामपि । भवादृशामेकविवेकचक्षुषां' भवेदृथा तहिं तपःपरिश्रमः ॥६५॥ इति ब्रुवन्तं तमुदारचेष्टितं जिनेन्द्रदीक्षानिहितैकमानसम् । विनिश्चितकान्ततदीयनिश्चयो विशामधीशं मुनिरन्वमन्यत ॥६६॥ ततः स तेनानुमतो महोपतिर्वितीर्य राज्यं जितशत्रुसूनवे । तपोऽग्रहीत्संयमभारभूषणं विमुक्तये मुक्तपरिग्रहग्रहः ॥६७।। बह्विति । अङ्गिनां जीवानाम् । अनिष्टयोगादिकृता अनिष्टस्याहितकण्टकादेर्योगादिना संबन्धादिना, आदिशब्देन वियोगादिर्गृह्यते, कृता विहिताः । बहुप्रकाराः नानाप्रकाराः । दुराधयः दुष्टपीडाः । यदि न स्युः न भवेयुः । जिनेन्द्रचन्द्राचरितं जिनेन्द्र चन्द्रेणाचरितं प्रवृत्तम् । सुदुस्सह सोढुमशक्यम् । सत्यं सत्यरूपम् । इदम् एतत् । महाव्रतं पञ्चमहाव्रतादिकम् । कः को वा । सहेत क्षमत, न कोऽपि–इत्यर्थः । संसारे सुखं वर्तते चेत्, जिनेन्द्रपादाचरितं कृच्छ् तपश्चरणं मुनयः किनिमित्तमाचरन्ति–इत्यर्थः। अनुमितिः । ६४।। विचित्रेति । विचित्रदुःखा विचित्रं दुःखं यस्यां सा। भवमृत्युसन्ततिः भवानां जननानां मृत्यूनां मरणानां सन्ततिः समहः। गहमेधिनामपि गृहस्थानामपि । प्रलीयते चेत विनश्यति चेत । लीड श्लेषणे लट । तर्हि, एकविवेकचक्षुषाम् एको मुख्यो विवेक एव चक्षु र्येषां तेषाम् । भवादृशां युष्मादृशाम् । तपःपरिश्रमः तपसः तपश्चर्यायाः परिश्रमः प्रयासः । वृथा निष्फलः । भवेत् स्यात् । भू सत्तायां लिङः ॥६५॥ इतीति । विनिश्चितकान्ततदीयनिश्चयः विनिश्चितो निर्णीत एकान्तो दृढस्तदीयस्तस्य संबन्धी निश्चयो निर्णयो येन सः । मुनिः यतिः । इति उक्तप्रकारेण । ब्रुवन्तं भाषमाणम् । उदारचेष्टितम् उदारं महच्चेष्टितं व्यापारो यस्य तम । जिनेन्द्रदीक्षानिहितैकमानसं जिनेन्द्रस्य जिनेश्वरस्य दीक्षायां तपःस्वीकारे निहितं स्थापितमेकं मख्यं मानसं चित्तं यस्य' तम् । विशां महताम् । अधीशं प्रभुम् । अन्वमन्यत अनुमन्यते स्म । मनि' ज्ञाने लङ् । अनुमितिः ॥६६।। तत इति । तत: पश्चात् । तेन मुनीन्द्रेण । अनुमतः संमतः । सः महोपति: भूमिपतिः । जितशत्रुसूनवे'' जितशत्रुरिति सूनवे पुत्राय । राज्यं भूपतित्वम् । वितीर्य दत्वा मुक्तपरिग्रहग्रहः मुक्तस्त्यक्तः परिग्रह एव ग्रहो येन सः । संयमभारभूषणं संयमस्येन्द्रियनिग्रहस्य भार एवातिशय एव भूषणमलंकारो यस्य मरणके घोर दुःखोंको छोड़कर और कुछ नहीं है ॥६३।। यदि जीवोंको इष्ट वियोग और अनिष्ट संयोग आदिके निमित्तसे होनेवाली नाना प्रकारको बुरी-बुरी मानसिक व्यथाएं न होती तो जिनेन्द्र भगवान्ने जिसका स्वयं प्रयोग किया है, उस दुर्धर और सत्य महाव्रतको कौन पालता ? संसार सुखमय होता तो सचमुच ही कोई महाव्रत पालन करनेका कष्ट न उठाता ॥६४॥ विचित्र दुःख देनेवाली जन्म और मरणको परम्परा यदि गृहस्थोंको भी नष्ट हो जाय तो आप सरीखे परम विवेकियोंके तपश्चरणका परिश्रम व्यर्थ ही चला जाय ।।६५।। अजितसेनकी चेष्टाओंमें उदारताका पुट रहता था और उसका मन केवल जिनदीक्षाकी ओर ही लगा हुआ था। उसके मुंहसे उक्त बातें सुनकर मुनिराजने उसके दृढ़ निश्चयको निश्चित रूपमें जान लिया। इसके पश्चात् गुणप्रभने उसे जिनदीक्षाकी अनुमति दे दो ॥६६॥ इसके पश्चात् अजितसेनने मुनिराज गुणप्रभसे जिनदीक्षाको स्वीकृति पाते ही अपने जितशत्रु नामके १. क ख ग घ म दृशामेव विवे। २. मा 'महाव्रतं' इति नास्ति । ३. श व्रताधिकम् । ४. = परम्परा । ५. आ श लिङ् । ६. आ 'लट् इति नास्ति । ७. श लेट् । ८. श यती। ९. = येन । १०. आ मनु । ११. = जितशत्रुसंज्ञकाय सुताय । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy