________________
२६8
-११, ६३]
एकादशः सर्गः दयापरः साधुरतः परत्रधीरतस्त्वमेतामनुशाधि मेदिनीम् । समुद्धरंल्लोकमनाथमायुगं किमस्ति दीनोद्धरणात्परं तपः ॥६१॥ उदीरितायामिति वाचि सूरिणा पतिः प्रजानामचलान्तराशयः । समाहितः श्रेयसि पक्षमात्मनः पुनदृढीकर्तुमुपोपचक्रमे ॥६२॥ शिरःसमभ्यय॑मपोश लङ्घयते मया यदेतद्भवतोऽनुशासनम् । विहाय जन्मव्यसनानि विद्यते मुनीन्द्र नैवापरमत्र कारणम् ।।६३।।
परार्थसंपदः परार्था परप्रयोजना संपद् यस्य तस्य । गृहमेधिनोऽपि गृहस्थस्यापि । ते तव । एतत् इदम् । चरित्रम् आचरणम् । तपोभृतां मुनीनाम् । आचरणात् चरित्रात् न भिद्यते' भेदो न क्रियते भिदृञ् विदारणे कर्मणि लट् ॥६०॥ दयेति । तत: तस्मात् । दयापरः दयया कारुण्येन परः श्रेष्ठः । साधुरतः साधुषु मुनिषु रतः प्रीतः । परत्रधीः परत्रोत्तरगती धोबुद्धि र्यस्य सः । अनाथं निराधारम् । लोकं जनम् । समुद्धरन् पालयन् एताम् इमाम् । मेदिनी भूमिम् । आयुगं युगपर्यन्तम् । अनुशाधि रक्ष । शासु अनुशिष्टो लोट् । 'शाध्येधिजहि' इति साधुः । दीनोद्धरणात् अनाथोद्धरणात् । परम् उत्कृष्टम् । तपः तपश्चरणम् । किमस्ति किं वर्तते, न किमपि–इत्यर्थः । अर्थान्तरन्यासः ॥६१।। उदीरितेति । सूरिणा मुनिना । इति उक्तप्रकारेण । वाचि वचने । उदीरितायां निरूपितायां सत्याम् । अचलान्तराशयः अचलोऽन्तराशयो यस्य सः । श्रेयसि मोक्षे । समाहितः संनद्धः । प्रजानां लोकजनानाम् । पतिः प्रभुः । आत्मनः स्वस्य । पक्षम् अङ्गीकारम् । पृनः पश्चात् । दृढोकतुं स्थिरीकरणाय । उपोपचक्रमे' प्रारभते स्म । क्रमू पादविक्षेपे लिट् । 'प्रोपोत्सं पादपूरणे' इति द्विः । 'प्रोपाभ्यां समर्थाभ्याम्' इति तङ् ।।६२॥ शिर इति । ईश प्रभो। मुनीन्द्र मुनिपते । शिरःसमभ्यय॑मपि शिरसा मस्तकेन समभ्यय॑ पूजनीयमपि । भवतः तव । यत् कारणात् । एतत् इदम् । अनुशासनम् आज्ञा । मया, लङ्घयते अतिक्रम्यते । लघु गतो कर्मणि लट् । अत्र गृहस्थत्वे । जन्मव्यसनानि'' जनितदुःखानि विहाय परित्यज्य । अपरम् अन्यत् । कारणं हेतुः । नैव विद्यते नैवास्ति। विदि' सत्तायां लट् ॥६३।।
धर्मको अपनी सम्पत्ति समझते हो; तुम्हारे चरित्रकी, विद्वज्जन भी प्रशंसा करते हैं और तुम अपनी सम्पत्तिको परोपकारमें लगाया करते हो । अतएव यह स्पष्ट है कि तुम गृहस्थ हो किन्तु तुम्हारा चरित्र साधुओंके चरित्रसे भिन्न नहीं है ॥६०॥ राजन् ! तुम सदा दया करने में तत्पर रहते हो; साधुओंके भक्त हो और तुम्हारी बुद्धि परलोककी ओर लगी रहती है। अतः तुम युगके अन्ततक अनाथ लोगोंका उद्धार करते हुए इस पृथ्वीपर शासन करो। दोनोंके उद्धारसे बढ़कर और तप कौन सा है ? ॥६१॥ आचार्य गुणप्रभके यों कहनेपर भी राजा अजितसेन अपने विचारोंसे विचलित नहीं हुआ । चूंकि वह मुक्ति पानेके लिए प्रतिज्ञा कर चुका था, अतः अपने पक्षको पुष्ट करनेके लिए पुनः यों बोला- ॥६२॥ हे मुनीन्द्र ! आपकी यह आज्ञा मेरे लिए शिरोधार्य एवं पूजनीय है, किन्तु फिर भी मैं इसका जो उलङ्घन कर रहा हूँ, उसका कारण गृहस्थ अवस्थामें रहनेसे होनेवाले जन्म, जरा और
१. = भेदं न भजते । २. आ भिदिर । ३. श 'दयापरः' इति नास्ति । ४. श लेट् । ५. श तस्याम् । ६. एष टोकाकृभिमतः पाठः, प्रतिषु तु 'अथोपचक्रमे' इत्येव पाठो वर्तते । ७. आ क्रमु । ८. = यस्मात् । ९. मा लधि । १०. = अनुशासनलङ्घने । ११. = जन्मनो जन्मजरामरणानां दुःखानि । १२. आ विद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org