________________
२६८ चन्द्रप्रमचरितम्
[११, ५७प्रसीद नस्तद्वरदात्मदीक्षया यतः प्रसादो भवतः कियानपि । शुभं तनोत्याशु निहन्ति चाशुभं करोति किं वा न सतामनुग्रहः ॥५७।। निवेदितान्तःकरणस्य भूभुजः परीक्षितुं साहसिकस्य साहसम् । तदोयवाञ्छाविनिवर्तनोचितं पतिर्मुनीनां पुनरित्यवोचत ॥५८।। तपो वपुर्भिः कठिनैः सुदुष्करं यदर्जितं' साधुजनेन मादृशा । कथं सहेरन्सुकुमारमूर्तयो भवादृशाः कुङ्कुमलेपलालिताः।।५९।। दयावतो धर्मधनस्य धीमतामनिन्द्यवृत्तस्य परार्थसंपदः ।
चरित्रमेतद् गृहमेधिनोऽपि ते तपोभृतामारचणान्न भिद्यते ।।६०।। बन्धवश्च । शरणं रक्षणम् । न भवन्ति न सन्ति । भू सत्तायां लट् । इति एवम् । समाकलय्य विचार्य । मम मे । मानसं चित्तम् । त्वदीयसेवास्पृहमेव त्वदीयाय सेवाय स्पृहमेव वाञ्छितमेव ( स्पृहा वाञ्छा यस्य तत्, भवदीयसेवाभिलाषि - इत्यर्थः ) । प्रवर्तते विद्यते ॥५६।। प्रसीदेति । तत् तस्मात् कारणात् । वरद भो इष्टदायक । अस्मदीक्षया२ अस्माकमोक्षणेन (आत्मदीक्षया स्वदोक्षया, साधुदोक्षया-इत्यर्थः )। नः अस्माकम् ।प्रसीद प्रसन्नो भव । यतः, भवतः तव । प्रसादः कारुण्यम् । कियानपि लघुरपि । 'घत्विदं किम:' इति घतु-प्रत्ययः । 'किमिदम: कोश्' इति कि- धादेशः । आशु शीघ्रम् । शुभं पुण्यम् । तनोति करोति । तनू विस्तारे लट् । अशुभं पापम् । हन्ति निहिंसति । हन् हिंसागत्योर्लट् । सतां सत्पुरुषाणाम् । अनुग्रहः कारुण्यम् । किं वा किमिष्टम् । न करोति न विदधाति । अर्थान्तरन्यासः ॥५७॥ निवेदितेति । निवेदितान्त:करणस्य निवेदितं विज्ञापितमन्तःकरणं यस्य तस्य। साहसिकस्य समर्थस्य । भभजः भमिपतेः । साहसं सामर्थ्यम । परीक्षितुं परीक्षणाय । मनीनां योगिनाम । पतिः विभः । तदीयवाञ्छाविनिवर्तनोचितं तदीयाया भूपसंबन्धिन्या वाञ्छाया दीक्षास्वीकाराभिलाषस्य निवर्तचे निराकरणे उचितं योग्यम् । वचनम् । पुनः पश्चात् । इति वक्ष्यमाणप्रकारेण । अवोचत् अब्रवीत । ब्रू व्यक्तायां वाचि लुङ् । 'असि इति वच-आदेशः॥५८।। तप इति । यत्, कठिनः कर्कशैः। वपुभिः शरीरैः । सुदुष्करं कर्तुमशक्यम् । तपः बाह्याभ्यन्तररूपम् । मादृशा मम सदृशेन । साधुजनेन साधुरेव जनस्तेन मुनिजनेन। अजितं कृतम् । सुकुमारमूर्तयः सुकुमारा कोमला मूर्तिः शरीरं येषां ते, मृदुशरीराः इत्यर्थः । कुङ्कुमलेपलालिताः कुकुमस्य काश्मीरजस्य लेपेन विलेपेन लालिता विराजिताः। भवादशाः त्वादशाः । 'त्यदादि-' इत्यादिना क्वि. प्रत्ययः । कथं केन प्रकारेण । सहेरन् सह्यासु': । षहि मर्षणे लिङ । विषमालङ्कारः ॥५९।। दयेति । दयावत: कारुण्यवतः । धर्मधनस्य धर्म एव धनं यस्य तस्य । धीमतां बुद्धिमद्भिः। अनिन्द्यवृत्तस्य स्त्युत्याचरितस्य । मेरा मन अब केवल आपकी सेवाके लिए ही लालायित है।।५६॥ इसलिए हे मनोरथको पूरा करनेवाले मुनिराज मुझपर प्रसन्न होइये, और मुझे जिनदीक्षा प्रदान कीजिए; क्योंकि आपका थोड़ा-सा भी प्रसाद कल्याणको बढ़ानेवाला और अकल्याणको नष्ट करनेवाला है। सन्त पुरुषोंका अनुग्रह क्या नहीं कर देता है ? ॥५७॥ इस तरह अपने मनोभावको व्यक्त करनेवाले साहसी राजा अजितसेनके साहसकी परीक्षा करनेके उद्देश्यसे मुनिराज गुणप्रभ उसकी इच्छाको बदलनेके लिए उचित रीतिसे पुनः यों कहने लगे-॥५८॥ राजन् ! मुझ सरीखे साधुवर्गने कठोर शरीरसे जिस घोर और कठिन तपका अर्जन किया है, उसे तुम सरीखे सुकुमार एवं काश्मीरी केशरका शृङ्गार करनेवाले लोग कैसे सहन कर सकते हैं ? ॥५९।। राजन् ! तुम दयालु हो;
भवो
१. क ख ग घ म यदर्पितं । २. एष टोकाकृदभिमतः पाठः प्रतिषु तु 'आत्मदीक्षया' इत्येव पाठो दृश्यते । ३. श प्रसादतः कारुण्यात् । ४. आ किरादेशः, श केरादेशः। ५. आ तनु । ६. = येन । ७. श दीक्षास्त्वित्यभि । ८. = इतिशेषः । ९. श 'सह्यासुः' इति नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org