SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ - ११, ५६] एकादशः सर्गः २६७ तुलाव्यतीतो विनयः क्व चेदृशः क्व सार्वभौमी प्रभुतेयमीहशी । निषेव्यते सर्वगुणो गुणैरयं परस्परप्रीतिमुपागतैरिव ॥५३॥ । न तादृशी स्वे विभवे न बान्धवे न चापि संसारसुखे मनोहरे । यथास्य चिन्ता परलोकसाधने हितानुबन्ध्याचरितं महात्मनाम् ।।५४।। वदन्तमेवं तमुवाच भूपतिः समासतः प्रश्रयनम्रमस्तकः । यियासतस्तावकमेव धाम मे त्वदागमः पूर्वकृतः कृतः शुभैः ।।५।। पदातिसार्था विभवाश्च बान्धवा भवन्ति पाते शरणं न दुर्गतौ। समाकलय्येति मम प्रवर्तते त्वदीयसेवास्पृहमेव मानसम् ॥५६॥ निजेन स्वकीयेन । तेजसा प्रभावेण । सततम् अनवरतम्। चमत्कृतिम् आश्चर्यम् । तनोति करोति । तनू विस्तारे लट । चित्ते-इति प्रत्येकमभिसंबध्यते। दीपकः ( कम् ) ।.५२॥ तुलामिति । तुलाव्यतीतः तुलया उपमया व्यतीतोऽतीतः । ईदृशः एतादृशः । 'त्यदादि-' इत्यादिना क्वि । विनय: विनयगुणः । क्व च कुत्र च । सार्वभौमी सार्वभौमस्य चक्रिणः संबन्धिनी, तथोक्ता । 'पृथिवी सर्वभूमिभ्यामञ्' इति अञ्-प्रत्ययः । इयम् एषा। ईदृशी एतादृशी। प्रभुता विभुत्वम् । क्व कुत्र । सर्व गुणः निखलगुणवान् । अयम् एषः । गुणैः विनयादिगुणः । परस्परप्रातिम् आन्योन्यप्रोतिम् । उपागतैरिव आयातैरिव । निषेव्यते आराध्यते । षेवृञ् सेवने कर्मणि लट् । उत्प्रेक्षा ।।५३॥ नेति । अस्य चक्रिणः । परलोकसाधने परलोकस्य उत्तर गतेः साधने । यथा चिन्ता बुद्धिः । तादृशो तादग्र्या । स्वे स्वकीये। विभवे संपदि । न-न भवति । बान्धवे बन्धुजनेऽपि, न । मनोहरे मनोहररूपे। संसारसुखे सांसारिकसुखेऽपि च, न । न-इति प्रत्येक भसंबध्यते । दीपकः ( कम )। महात्मनां महापरुषाणाम। आचरितम् आचरणम् । हितानुबन्धि हितानुसारि हि । अर्थान्तरन्यासः ॥५४॥ वदन्तमिति । एवम उक्तप्रकारेण । वदन्तं ब्रुवन्तम् । तं मुनिपतिम् । प्रश्रयनम्रमस्तकः प्रश्रयेण विनयेन नम्रो नमनशीलो मस्तको यस्य सः। भूपतिः चक्रवर्ती । समासतः संक्षेपात् । उवाच ब्रवीति स्म । ब्रज व्यक्तायां वाचि लिट् । तावकं त्वदीयम् । 'युष्मदस्मदोऽञ् खो-' इत्यादिना अञ्, तद्योगे तवकादेशः । धामैव स्थानमेव । यियासतः गन्तुमिच्छोः । मे मम । त्वदागम: तवागमनम् । पूर्वकृतैः प्रारजन्मकृतः । शुभैः पुण्यैः । कृतः । अनुमितिः ।।५५।। पदातीति । दुर्गती नरकादिदुर्गती । पाते पतने । पदातिसार्थाः पदातीनां भटानां सार्थाः समूहाः । विभवाश्च सम्पदश्च । बान्धवाश्च हो रहा है ॥५२॥ कहाँ ऐसी अनुपम नम्रता और कहाँ सारे भूमण्डलकी ऐसो प्रभुता-ऐसो नम्रता और ऐसी प्रभुता किसी एक व्यक्तिमें नहीं हो सकती, केवल यही एक ऐसा व्यक्ति है, जिसमें परस्पर विरोधी ये दोनों गुण-नम्रता और प्रभुता दृष्टि-गोचर हो रहे हैं । इन गुणोंकी तरह इसमें और भी सभी गुण हैं, जिनको देखनेसे ऐसा प्रतीत होता है मानो सभी गुणोंमें एक दूसरेके प्रति प्रीति उत्पन्न हो जानेसे वे मिलकर इसकी सेवा करने लगे हों। ॥५३॥ अजितसेनको परलोक साधनेकी जैसी चिन्ता रहा करती थी, वैसी अपने वैभव, बन्धु-बान्धव और मनोहर सांसारिक सुखकी नहीं रहती थी। ठीक है, महात्माओंका आचरण हितका अनुसरण करनेवाला होता है ॥५४॥ इस प्रकार कहते हुए गुणप्रभसे राजा अजितसेन विनयसे सिर नवा कर संक्षेपमें यों बोला-मैं आपहीके स्थान में-जहाँ इससे पहले आप थे-आना चाहता था, किन्तु मेरे पूर्वजन्मके शुभ कर्मके उदयसे आप स्वयं यहींपर पधार गये हैं।॥५५॥ नरक आदि खोटो गतियोंमें गिरते समय सैनिक, वैभव और बन्धु-बान्धव रक्षा नहीं कर सकते, यह सोच करके ४. आश १. क ख ग घ म तुलां व्यती । २. अ क ख ग घ म पदातिपूर्वा । ३. आ तनु । तुलेति । ५. मा षेव, श षोवृक्ष । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy