SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [११, ५०महीभृनस्तस्य सतां प्रणायकः स धर्मवृद्धिं परिघुष्य पावनीम् ।। विलोकिताशेषमुखेन्दुरस्पृहो गुणानुरागाद् गिरमित्युपाददे ॥५०॥ निमित्तभावेन मदस्य भूयसो निसर्गतः पार्थिवता व्यवस्थिता । महानुभावे पुनरत्र सान्यथा प्रवर्तते पश्यत पश्यताद्भतम् ।।५।। नयेन नृणां विभवेन नाकिनां गतस्पृहाणां विनयेन योगिनाम् । महीभुजामेष निजेन तेजसा तनोति चित्ते सततं चमत्कृतिम् ॥५२।। उदंशनाम् उद्गता बहिः (ऊर्ध्व ) गता अंशवः किरणा येषां तेषां दन्तानां रदनानां द्युत्या कान्त्या दीपिता: प्रकाशिता आशा दिशो ययो: तयोः। तयोः मुनिपतिभूपत्योः । मिथः परस्परम् । प्रवृत्तसंभाषणयोः प्रवृत्तं कृतं संभाषणं ययोः तयोः सतोः। धृतक वन्द्रद्युजिगीषया धृतः संभृत एकश्चन्द्रो यस्या (यया) सा तथोक्ता, धृतकचन्द्रा चासो द्योश्च तां जिगीषया जेतु मच्छया, एकचन्द्रोपेताकाशं जेतुमिच्छया-इत्यर्थः । जि४ अभिभवे तस्य सन-प्रत्यये 'जे लिट् सनि' इति द्विर्भावे पूर्वात परस्य कुः कवर्गादेशः। मही भूमिः । तदा तत्समये । द्वोन्दुरिव चन्द्रद्वयसहितेव । व्यजायत समभवत् । जनैङ् प्रादुर्भावे लङ् । उत्प्रेक्षा ॥४९।। महीभृत इति । सतां सत्पुरुषाणाम् । प्रणायकः प्रभुः । विलोकिताशेषमुखेन्दुः विलोकिता वोक्षिता अशेषाणां सर्वेषां मुखानि वक्त्राण्येव चन्द्रा येन सः। अस्पृहः वाञ्छारहितः । सः गुणप्रभमुनीशः। तस्य महीभृतः अजितसेनचक्रिणः । पावनी पवित्राम् । धर्मवृद्धि धर्मवृद्धिरस्तु-इत्याशिषम् । [ परिघुष्य ] संघुष्य निरूप्य । गुणानुरागात् गुणप्रीत्याः । इति वक्ष्यमाणप्रकारेण । गिरं वाचम् । उपाददे उवाच । डुदाञ् दाने लिट् । रूपकम् ॥५०॥ निमित्तेति । निसर्गतः स्वभावतः । भूयसः बहुलस्य । मदस्य गर्वस्य । निमित्तभावेन कारणस्वरूपेण । पार्थिवता भूमिपतित्वम् । व्यवस्थिता विक्षिप्ता । अत्र चक्रेश्वरे। महानुभावे महासामर्थ्येन युक्ते । त्वयि, पुनः पश्चात् । सा पार्थिवता । अन्यथा मदनिमित्ताभावेन । प्रवर्तते विद्यते । वृतूङ् प्रवर्तने लट' । ( इति ) अद्भुतम् आश्चर्यम् । पश्यत पश्यत वोक्षध्वं वीक्षध्वम्' । 'वीप्सायाम्' इति द्विः ॥५१॥ नयेति । एषः अजितसेनचक्री । नृणां मनुष्याणाम् । चित्ते मनसि । नयेन नयगुणेन । नाकिनां देवानाम् । विभवेन ऐश्वर्येण । गतस्पृहाणां वाञ्छारहितानाम् । योगिनां मुनीनाम् । विनयेन विनयगुणेन । महीभुजां भूमिपतीनाम् । आपसमें वार्तालाप होने लगा। इस अवसरपर दोनोंके दाँतोकी शुभ्र कान्तिसे सारी दिशाएँ प्रकाशित हो उठों, जिससे ऐसा प्रतीत होने लगा, मानो केवल एक ही चन्द्रमाको धारण करनेवाले आकाशको जीतनेकी इच्छासे पृथ्वीने उस समय दो चन्द्रमा धारण कर लिये हों ॥४६॥ गुणप्रभ समस्त मुनियोंके नायक थे। वे निस्पृह थे। उन्होंने सभीके चेहरों की ओर दृष्टिपात किया, और राजा अजितसेनको 'धर्मवृद्धि रस्तु'--'धर्मकी वृद्धि हो' कहकर आशीर्वाद दिया। फिर उसके गुणोंके प्रति अनुराग होनेसे उन्होंने ये वचन कहे-1॥५०॥ राजा होना स्वभावसे ही बहुत भारी मदका कारण है, यह बात बहुत पहलेसे हो निश्चित है। फिर भी इस प्रभावशाली चक्रवर्ती में यह मदवाली बात बिलकुल विपरीत है-चक्रवर्ती होनेपर भी इसे ( अजितसेनको ) तनिक भी अहङ्कार नहीं है । देखो, देखो, यह कितने आश्चर्यकी बात है ! ॥५१॥ यह अपनी नीतिसे मनुष्योंके, विभूतिसे देवोंके; विनयसे निस्पृह योगियोंके और प्रतापसे राजाओंके चित्त में निरन्तर चमत्कार उत्पन्न कर रहा है-इसकी नीति, विभूति, विनय और प्रतापको देखकर क्या मनुष्य, क्या देव, क्या योगी और क्या राजे-महराजे सभीको आश्चर्य १. आ द्युतिना कान्तिना ( ? ) । २. = याभ्याम् । ३. = प्रारब्धम् । ४. श जि नि । ५. आ जनी। ६. श लिङ। ७. =निश्चिता। ८. = महाप्रभावे । ९. श 'मद' इति नास्ति । १०. आ वृतु वर्तने लट् । ११. आ 'वीमध्वम्' इति नास्ति । १२. आ 'इति' नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy