________________
२६५
-११, ४९]
एकादशः सर्गः अपायमुक्तां पदवीं परे न यां चिरादपि प्रापयितुं परिक्षमाः । त्वदाश्रयस्तामचिरेण लम्भयन्करोति नश्चेतसि नाथ विस्मयम् ॥४६।। कषायनाम्नां विजयेन वैरिणामनश्वरश्रीप्रतिबन्धकारिणाम् । तवेश यः प्रादुरभून्महोदयो भवादृशामेव गिरां स गोचरः ॥४७॥ स्तुतिं विधायेति मुनेमनोहरां पुरो निषण्णे विनयेन भूपतौ। सविग्रहप्रश्रयपुञ्जशतिनां निपेतुरक्षीणि समं तपोभृताम् ॥४८॥ प्रवृत्तसंभाषणयोमिथस्तयोरुदंशुदन्तद्यतिदीपिताशयोः ।
धृतैकचन्द्रद्युजिगीषया स्वयं मही तदा द्वीन्दुरिव व्यजायत ॥४६॥ अपूर्वभास्वतः अपूर्वस्य नूतनस्य भास्वतः सूर्यस्य । तव ते। वक्त्रं मुखम् । यैः न विलोकितं न निरीक्षितम् । तेषां जन्मिनां जीवानाम् । जन्म जीवनम् । वृथैव निष्फलमेव । बत हन्त । उपमा ( व्यतिरेकः ) ॥४५।। अपायेति । अथ अनन्तरम् । परे अन्ये । अपायमुक्ताम् अपायेन बाधया मुक्ता रहिताम् । यो पदवी स्थानम् । चिरादपि बहुकालादपि । प्रापयितुं यापयितुम् । परिक्षमाः समर्थाः । न-न भवन्ति । त्वदाश्रयः त्वदाश्रययुक्तः । तां पदवोम् । अचिरेण शीघ्रम् । लम्भयन् प्राप्नुवन् । नः अस्माकम् । चेतसि चित्ते । विस्मयम आश्चर्यम् । करोति विदधाति । डुकृञ् करणे लट् ॥४६॥ कषायेति । ईश भो नाथ । कषायनाम्नां कषाय इति नाम येषां तेषाम् । अनश्वरश्रीप्रतिबन्धकारिणाम अनश्वरश्रियो मोक्षसम्पदः प्रतिबन्धं तिकूलं कुर्वन्तीति प्रतिबन्धकारिणः, तेषाम् । वैरिणां शत्रूणाम् । विजयेन जयेन । तव ते । यः महोदयः अभ्युदयः । प्रादुरभूत् प्रकटोऽभवत् । भू सत्तायां लुङ् । सः, भवादृशामेव भवानिव प्रदृश्यन्ते ते भवादृशः, तेषामेव, त्वादृशामेव-इत्यर्थः । 'त्यदादि-' इत्यादिना भवच्छब्दाद् दृशेः क्षि । 'आद्यद्-' इत्यादिना दीर्घः । गिरां वाचाम । गोचरः विषयो भवति । अतिशयः ।।४७॥ स्तुतिमिति । इति उक्तप्रकारेण । मुनेः गुणप्रभमनेः । मनोहरां मनोहररूपाम् । स्तुति स्तोत्रम् । विधाय विरचय्य । विनयेन ज्ञानादिविनयेन । पूरः अग्रे। निषण्णे उपविष्टे । भूपती क्षितिपतो। सविग्रहप्रश्रयपुञ्जङ्किनां विग्रहेण देहेन सह विद्यमानानां प्रश्रयाणां विनयानां पुञ्ज इति राशिरिति शङ्किनां शङ्कायुक्तानाम् । तपोभृतां यतीनाम् । अक्षोणि नयने । समं युगपत् । निपेतुः चिक्षिपतुः । पल्लू गतौ लिट् । सहोक्तिः ।।४८ । प्रवृत्तेति । उदंशुदन्तद्युतिदीपिताशयोः
सारे संसारको धर्मोपदेश देनेवाले और इसीलिए अपूर्व सूर्यके रूपमें प्रकट होनेवाले आपके मुखका जिन्होंने दर्शन नहीं किया, उन जीवोंका जन्म व्यर्थ ही है । यह बड़े ही खेदकी बात है ! ॥४५॥ हे नाथ ! सारी बाधाओंसे रहित एवं नित्य जिस मुक्तिपदवीको अन्य लोग चिरकालमें भी प्राप्त नहीं करा सकते, उसीको तुम्हारा आश्रय शोघ्र ही प्राप्त करवाकर हमारे मन में आश्चर्य उत्पन्न कर रहा है ॥४६॥ मुक्ति लक्ष्मीकी प्राप्तिमें बाधा डालनेवाले क्रोध, मान, माया और लोभ नामक शत्रुओंको जीत लेनेसे हे नाथ ! जो आपका महान् अभ्युदय प्रकट हुआ है, वह आप सरीखे महामुनियोंको वाणीका विषय है-आप सरीखे विशिष्ट ज्ञानी मुनि हो उसका वर्णन कर सकते हैं ॥४७॥ इस तरह गुणप्रभ मुनिको स्तुति-जो सबके मनको हरनेवाली थी-करके राजा अजितसेन उनके आगे विनय पूर्वक बैठ गया। उसे मूर्तिमान् विनय या विनयकी मूर्ति के रूपमें देखनेवाले मुनियोंकी दृष्टि एक हो साथ आकृष्ट हुईसभी मुनि उसे एक ही साथ देखने लगे ॥४८॥ मुनिराज गुणप्रभ और राजा अजितसेनका
१. = निरपायां, नित्यामिति यावत् । २. = मुक्तिम् । ३. = लम्भयितुम् । ४. = तवालम्बनम् । ५. = प्रापयन् । ६. = प्रातिकूल्यम् । ७. आ क्विप् । ८. श यानाम् । ९. = पतितानि । Jain Education Internal For Private & Personal Use Only
www.jainelibrary.org