________________
२६४ चन्द्रप्रमचरितम्
[११, ४२निराश्रयाणां पततामधोगतावसि त्वमालम्बनमीश देहिनाम् । त्वमेव सोपानपथः स्थिराश्रयो विमुक्तिसौधारभुवं यियासताम् ॥४२।। स्वभावजैः क्षान्तिदयादमादिभिः परिफुटत्कुन्दसमानकान्तिभिः । प्रकाशितं विश्वममेयतां गतैस्त्वया गुणैश्चन्द्रमसा च रश्मिभिः ॥४३॥ जगत्यमुष्मिन्दिवसाधिपोपम त्वदीयवाग्भासुररश्मिभासिते । न मार्गशुद्धिर्हतकैरलम्भि यैर्न तैनं घूकायितमत्र जन्तुभिः ॥४४॥ विभिन्दतो हार्दमनेकजन्मजं तमस्तवाशेषजगद्गुरोर्नयः।
विलोकितं वक्त्रमपूर्वभास्वतो वृथैव तेषां बत जन्म जन्मिनाम् ॥४५।। वचनान्येव मरीचयः कान्तयः । यदि न संचरेयुः न व्याप्नुयुः । चर गतिभक्षणयोलिङ्। कथं केन प्रकारेण । विबुध्येत जानीयात् । बुधि मनि ज्ञाने लिङ् ॥४१॥ निराश्रयाणामिति । ईश भोः स्वामिन् । अधोगतो नरकगतो। पततां निमजताम् । निराश्रयाणां निराधाराणाम् । देहिनां जीवानाम् । त्वं प्रलम्बनम [त्वम् आलम्बनम् ] आधारः । असि भवसि । अस भुवि लट् । विमुक्तिसोधाग्रभुवं विमुक्तिर्मोक्षः स एव सोवो मन्दिरं तस्याग्रभुवमग्रभूमिम् । यियासतां यातुमिच्छताम् । स्थिराश्रयः स्थिराधारः। सोपानपथः सोपानस्यारोहणस्य पन्थाः मार्गः । 'ऋक्पू: पथ्यपोऽत्' इति अत्-प्रत्ययः । त्वमेव भवानेव । रूपकम् ॥४२॥ स्वभावेति । स्वभावजैः निसर्गजैः। परिस्फुटत्कुन्दसमानकान्तिभिः परिस्फुटतो विकसतः कुन्दस्य कुन्दपुष्पस्य समाना सटशो कान्तिषु तिर्येषां तैः। अमेयतां संख्यारहितत्वम् । गतैः यातैः । शान्तिदयादमादिभिः शान्तिश्च दया च दमश्च तथोक्ताः त एव आदयो ( आदी) येषां तैः । गणैः । त्वया भवता । रश्मिभिः किरणैः । चन्द्रमसा चन्द्रेण च । विश्वं सर्वम् । प्रकाशितं विभासितम् । तुल्ययोगिता ॥४३॥ जगतीति । दिवसाधिपोपम दिवसाधिपस्य सूर्यस्योपम समान ( उपमा साम्यं यस्य तत्संबुद्धो हे दिवसाधियोपम हे सूर्यसमान) । त्वदीयवाग्भासुररश्मिभासिते त्वदीयायाः तव संबन्धायाः वाचो वचनस्य भासुरेण प्रकाशनशोलेन रश्मिना भासिते प्रकाशिते ( त्वदीयवाग्भिरेव भासुररश्मिभिर्भासिते) । जगति लोके । हतकः निकृष्टः । यः, मार्गशुद्धिः मार्गस्य रत्नत्रयात्मकस्य शुद्धिर्नेमल्यम् । न अलम्भि न लभ ( म्थ ) ते स्म । डुलभिष् प्राप्तो लुङ् । तैः जन्तुभिः प्राणिभिः । अत्र अस्मिन् त्वयि । न चूकायितं, न चूकवदाचरितम् ( इति) न, किन्त्वाचरितमेव । उपमा ॥४४॥ विभिन्दत इति । अनेकजन्मजम् अनेक जन्मजातम् । हार्द हृदयसंभवम् । तमः तिमिरम् । विभिन्दत: छिन्दतः । अशेषजगद्गुरोः अशेषस्य सकलस्य जगतो लोकस्य गुरोः श्रेष्ठस्य । सञ्चार न हुआ होता तो ॥४१॥ हे ईश ! किसोका आश्रय न मिलनेसे अधोगतिमें गिरनेवाले प्राणियोंको तुम ही आश्रय हो और मुक्ति महलके ऊपरी सिरे तक पहुँचनेकी अभिलाषा करनेवालोंको तुम ही मजबूत सोपानमार्ग-सीढ़ी हो ॥४२॥ मुनिवर ! आपने अपने स्वाभाविक, विकसित होनेवाले कुन्दपुष्पके समान निर्मल, तथा अगणित क्षमा, दया और दम आदि गुणोंसे पूरे विश्वको प्रकाशित किया है और चन्द्रमाने अपनी स्वाभाविक, विकसित होनेवाले कुन्द पुष्पके समान शुभ्र एवं अगणित किरणोंसे समूचे विश्वको प्रकाशित किया है ॥४३॥ हे मुनीन्द्र ! आप सूर्यके समान हैं। आपने अपनी वाणी रूपी देदीप्यमान किरणोंसे इस जगत्को प्रकाशित कर दिया है, किन्तु फिर भी जिन अभागे प्राणियोंने रत्नत्रय रूप मार्गको निर्मलता नहीं प्राप्तकी, उन्होंने उल्लूका-सा आचरण नहीं किया, यह बात नहीं है ॥४४॥ हे आचार्यवर्य ! जीवोंके हृदय में भरे हुए अनेक जन्मोंके पाप या अज्ञानके अन्धकारको नष्ट करनेवाले,
१. अ म स्थिरश्रियो ; क ख ग स्थिरा श्रियो । २. श लेट । ३. श लेट् । ४. श अ-प्रत्ययः । ५. आ जगदिति । ६. = तव संबन्धिन्याः । ७. = नालाभि । ८. भा भिन्दतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.