________________
-११,४.] एकादशः सर्गः
२६३ अनेकचेष्टैरिति पर्युपासितं तपस्विवृन्दैरविनिन्द्यवृत्तिभिः । नरेश्वरस्तं प्रणिपत्य योगिनामधीश्वरं स्तोतुमिति प्रचक्रमे ॥३९।। मनस्विभिर्नाथ भवान्भवान्तकृद्विचिन्त्यते यः क्षणमात्मवेदिभिः । व्रजन्ति तेऽप्यात्तशुभाः कृतार्थतां कृतार्थ दृष्टे त्वयि का विचारणा ॥४०॥ जगन्महामोहतमःपटावृतं कुदृष्टिसेवापरिवृद्धविभ्रमम् ।।
कथं विबुध्येत तवांशुमालिनो न संचरेयुयदि वाङ्मरीचयः ।।४१।। मतीन्द्रियं वस्तु पदार्थम् । अजसा साकल्येन' यथास्वरूपेण ( यथास्वरूपं ) वा । उपदिशन्तं निरूपयन्तम् । स्वमार्गमाहात्म्यनिदर्शनोद्यतं स्वस्य मार्गस्य वर्मनः माहात्म्यस्य सामर्थ्यस्य निदर्शने प्रकाशने उद्यतमु. द्युक्तम् । अन्यं पुनरेकम् । तपोधनं तप एव धनं यस्य तम् । सः नृपः चक्रवर्ती। व्यलोकत ऐक्षत । लोक दर्शने लङ । रूपकम् ॥३८॥ अनेकेति । इति उक्तप्रकारेण । अनेकचेष्टः अनेकैः स्वाध्यायादिभिश्चेष्टेयापारैः । अनिन्द्यवृत्तिभिः अनिन्द्या स्तुत्या वृत्तिर्वर्तनं येषां तैः । तपस्विवन्दैः तपस्विनां मुनाना वृन्दैः समूहः । पर्युपासितं पूजितम् । योगिनां मुनीनाम् । अधोश्वरम् अधिपतिम् । तं गुणप्रभमनीश्वरम् । प्रणिपत्य प्रणभ्य । नरेश्वरः नरनाथः । स्तोतुं स्तुति कर्तुम् । इति वक्ष्यमाणप्रकारेण । प्रचक्रमे प्रारभते स्म। क्रम पादविक्षेपे लिट् । 'प्रोपाभ्यां समर्थाभ्याम्' इति तङ । अतिशयः ॥३९॥ सनस्वीति । कृतार्थ कृतो निष्पन्नोऽर्थः प्रयोजनं यस्य तत्संबोधनं ( तत्संबद्धो ) भो निधनप्रयोजन ( कृतकृत्य इति यावत् )। नाथ स्वामिन् । भवान्तकृत् भवस्य संसारस्यान्तोऽवसानं तं करोतीति तथोक्तः । भवान् पूज्यस्त्वम् । मनस्विभिः सम्यग्ज्ञानिभिः। आत्मवेदिभिः स्वरूपज्ञैः । यैः पुरुषः । क्षणं स्वल्पकालपर्यन्तम् । विचिन्त्यते ध्यायते (ध्याय्यते) इत्यर्थः । भवच्छब्दप्रयोगे प्रथमपुरुषः । तेऽपि पुरुषाः । अपि शब्दोऽनिर्धारणार्थः । आत्तशमाः आत्तं स्वीकृतं शुभं पुण्यं यैस्ते स्वीकृतपण्याः भूत्वा । कृतार्थतां निष्पन्नप्रयोजनत्वम् । व्रजन्ति गच्छन्ति । व्रज गतो लट् । त्वयि भवति । दृष्टे विलोकिते सति । का विचारणा को वा विचारोऽस्ति-इत्यर्थः । तव स्मरणमात्रेण सर्वे कृतपुण्या भवन्ति, त्वदर्शनेन तु शुभा"भूरिपुण्या भवन्ति-इत्यभिप्रायः ॥४०॥ जगदिति । महामोहतमःपटावृतं महान् मोहोऽज्ञानं स एव तमांसि तेषां पटो निवहः तेनावृत्तमारुद्धम् । कुदृष्टिसेवापरिवृद्धविभ्रमं कुदृष्टीनां मिथ्यादृष्टीनां सेवया आश्रयेण परिवृद्धः प्रवृद्धो विभ्रमो भान्तिर्यस्य तत् । जगत् लोकं ( कः )। अंशुमालिनः सूर्यस्य । तव ते । वाङ्मरीचयः वाच एव पदार्थोंका वास्तविक उपदेश देते, एवं साधु मार्गके महत्त्वको प्रकट करनेमें तत्पर रहते देखा ॥३८॥ इस प्रकारको प्रशस्त चेष्टाओंसे युक्त और श्लाघ्य वृत्तिवाले मुनि सङ्घसे पूजित उन गुणप्रभ नामके योगिकाट-आचार्यको प्रणाम करके राजा अजितसेनने उनकी स्तुति इस प्रकारसे शुरू की-॥३९॥ हे नाथ; जो आत्मज्ञानी मनस्वी भव परम्पराको नष्ट करनेवाले आपका क्षणभर भी ध्यान कर लेते हैं, वे भी शुभ परिणामोंको प्राप्त करके कृतकृत्य हो जाते हैं, फिर हे कृतकृत्य ! आपके दर्शन कर लेने पर तो विचार ही क्या करना है ? क्षण-भर ध्यान करनेवाले भी जब कृतकृत्य हो जाते हैं, तो साक्षात् दर्शन करनेवालोंकी कृतकृत्यताका होना तो सुतरां सिद्ध हैं । इसमें विचार करनेकी क्या आवश्यकता है ? ॥४०॥ जिसके ऊपर महामोहके अन्धकारका पर्दा पड़ा हुआ है और जिसे मिथ्यादृष्टियोंकी सेवा करनेसे भ्रम बढ़ गया है, वह जगत्, बोधको कैसे प्राप्त करता, यदि आप सरीखे मुनि-सूर्यको वाणी रूपी किरणोंका
१. श सामर्थ्येन । २. श वर्तनस्य । ३. आ 'सामर्थ्यस्य' इति नास्ति । ४. आ लोक । ५.अवेका नाना चेष्टा व्यापारा येषां तैः । ६. भा 'अतिशयः' इति नास्ति । ७. आ ध्ययते । ८. श पुरुषाः। ९. श विचारः को वा, विचारणा नास्ति-इत्यर्थः । १०.श 'तु' इति नास्ति। ११. प्रा 'शुभा' इति नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org