________________
२६२ चन्द्रप्रमचरितम्
[१,३५गृहीतयोगं तपसा कृशीकृतं ददर्श कंचिन्मुनिमातपस्थितम् । दिवाकरांशुप्रकरैकलक्ष्यतां 'प्रयातमुन्मूलितमोहविद्विषम् ॥३५।। प्रभावनायां जिनवर्त्मनो रतं विशुद्धसिद्धान्तपयोधिपारगम् । समुद्यतं धर्मकथाप्रवर्तने यति धरित्रीपतिरक्षतापरम् ॥३६।। नयप्रमाणांशुभिरुज्ज्वलात्मभिः प्रवादिखद्योतचयं पराभवम् । नयन्तमुद्दयोतितलोकमैक्षत प्रजापतिः कंचन साधुभास्करम् ॥३७॥ त्रिकालमध्यस्थमनन्यगोचरं परोक्षवस्तूपदिशन्तमञ्जसा ।
स्वमार्गमाहात्म्यनिदर्शनोद्यतं व्यलोकतान्यं स नृपस्तपोधनम् ।।३८।। मुनोन्द्रस्य । आश्रमं स्थानम् । निदर्शयाभास दर्शयतिस्म । दृश' प्रेक्षणे णिजन्ताल्लिट् ।।३४।। गृहीतेति । [ गृहोतयोगं ] गृहीतः प्रशस्तो योगो ध्यानं यस्य ( येन ) तम् । तपसा बाह्याभ्यन्तररूपतपसा। कृशीकृतं प्रागकृश इदानों कृशः क्रियते स्म कृशोकृतः, तं सूक्ष्मोकृतम् । 'कर्मकर्तृभ्याम्-' इत्यादिना च्विः । 'ध्वी चानव्ययस्य-' इति ईकारः । आतपस्थितम् आतपे आतपयोगे स्थितम् । दिवाकरांशुप्रकरैकलक्ष्यतां 5 दिवा दिवसं करोतीति दिवाकरः। दिवा [-विभा-] निशा-' इत्यादिना दिवा शब्दात परात् करोते: ष-(ट-) प्रत्ययः, दिवाकरस्य सूर्यस्यांशूनां किरणानां प्रकरस्य निवहस्य एकां मुख्यरूपां लक्ष्यता के लक्ष्यत्वम् । प्रयातं गतम् । उन्मूलितमोहविद्वषम् उन्मूलितः समूलमुद्भूतो मोह एव विद्विट् शत्रुर्येन तम् । कंचिन्मुनिम् एकं मुनोशम् । ददर्श पश्यति स्म । दृश प्रेक्षणे लिट् । जातिः॥३५॥ प्रभावनायामिति । जिनवर्त्मनः जिनमार्गस्य । प्रभावनायां प्रवर्धने । रतं तत्परम् । विशुद्धसिद्धान्तपयोधिपारगं विशुद्धो निर्मलः सिद्धान्तः परमागमः स एव पयोधिः समुद्रः तस्य पारगं पारदश्वानम् । धर्मकथाप्रवर्तने धर्मस्य रत्नत्रयात्मकस्य कथायाः प्रसङ्गस्य प्रवर्तने करणे । समुद्यतं सप्रयत्नम् । अपरम् अन्यम् । यति मुनिम् । धरित्रीपतिः भूमिपतिः । ऐक्षत ददर्श । ईक्ष दर्शने लङ् । रूपकम् ॥३६।। नयेति । उज्ज्वलात्मभिः निर्मलस्वरूपैः । नयप्रमाणांशुभिः नया नैगमादयः प्रमाणे प्रत्यक्षपरोक्षे तान्येवांशवः किरणाः तः। प्रवादिखद्योतचयं प्रवादिनो मिथ्यवादिनस्त एव खद्योता ज्योतिरिङ्गणास्तेषां चयं समूहम् । पराभवं तिरस्कारम् । नयन्तं प्रापयन्तम् । उद्योतितलोकम् उद्योतितः प्रकाशितो लोको येन तम् । कंचन एकम् । साधुभास्करं साधुर्मुनिः स एव भास्करः सूर्यः, तम् । प्रजापतिः जनपतिः । ऐक्षत अपश्यत् । श्लेषो रूपकञ्च ॥३७॥ त्रिकालेति । त्रिकालमध्यस्थं त्रयाणां भूतभविष्यद्वर्तमानरूपाणां कालानां समयानां मध्यस्थं मध्ये वर्तमानम् । अनन्यगोचरम् अन्येषामज्ञानिनामगोचरमविषयम् । परोक्षवस्तु परोक्षतिक शोभासे युक्त था ॥३४॥ वहाँ अजितसेनने किसी मुनिको आतप योगमें स्थित देखा, जो ध्यानमग्न थे; तपस्यासे कृशकाय थे; जिनके ऊपर सूर्यको किरणें पड़ रहीं थीं-जो धूपमें बैठे हुए थे और जिन्होंने मोह रूपी शत्रुको मूलसे नष्टकर दिया था जो निर्मोह थे ॥३५॥ राजा अजितसेनने एक अन्य साधुको जिन मार्गको प्रभावनामें तत्पर देखा, जो निर्मल आगम रूपी समुद्रके पारगामी थे और धार्मिक चर्चा चलानेके लिए सदा तैयार रहा करते थे ॥३६॥ चक्रवर्ती अजितसेनने किसी साधुको सूर्यको बराबरी करते देखा-जिस प्रकार सूर्य अपनी उज्ज्वल किरणोंसे जुगुनुओंको हतप्रभ कर देता है और समस्त लोकको प्रकाशितकर देता है, इसी प्रकार वे मुनिराज नैगम आदि नय और प्रत्यक्ष आदि प्रमाण रूपी उज्ज्वल किरणोंसे अन्यवादी रूपी जुगनुओंको परास्त करके सारे संसारको ज्ञानका प्रकाश देकर आलोकित कर रहे थे ॥३७।। अजितसेनने अन्य साधुको त्रिकालवर्ती, दूसरोंके द्वारा अज्ञात तथा परोक्ष
१. अ क ख ग म प्रयान्त । २. आ दृशिर्। ३. श स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । ४, श 'प्रयातं गतम्' इति नास्ति । ५. आ दृशिर् । ६. श द्रवर्धमाने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org