SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ - ११, ३४ ] एकादशः सर्गः विहर्तुमत्रावसरे समागतं महीपतिर्भूरिगुणं गुणप्रभम् । सवृन्दमज्ञानतमस्तमोरिपुं मुनीन्द्रमुद्यानचरादबुद्ध सः ॥ ३१ ॥ निशम्य तस्यागमनं स पावनं शिवंकरोद्यानमुपेत्य तस्थुषः । मुदाभ्युदस्थादचिरेण विष्टरात्कृती कृतार्थोऽहमिति ब्रुवन्वचः ||३२|| जनेन पौरेण वृतः पुरादसौ निरित्य तद्धाम जगाम भूमतिः । प्रचालयन्धर्मकथां समं नृपैः समन्वितैः संसृतिदुःखभीरुभिः ||३३|| तस्य तस्योपवने वनेचरो निदर्शयामास समुत्कचेतसः । विविक्तमत्यन्तमजन्तुकं शुचि महामुनेराश्रममाश्रितं श्रिया ॥ ३४ ॥ नापयाति । स एव पण्डितः विवेको । अर्थान्तरन्यासः ||३०|| विहर्तुमिति । अत्र अस्मिन् । समये वैराग्यभावनाप्रस्तावे । सः महीपतिः चक्रवर्ती। विहर्तुं विहारार्थम् । समागतं समायातम् । भूरिगुणं भूरयो बहुला गुणा यस्य तम् । सवृन्दं वृन्देन मुनिसन्दोहेन सह वर्तते इति सवृन्दः तम् । अज्ञानतमस्तमोरिपुम् अज्ञानमेव तस्तिमिरं तस्य तमोरिपुं सूर्यम् । गुणप्रभं गुणैः प्रभातीति गुणप्रभः, तं गुणप्रभनामधेयम् । मुनीन्द्रं मुनिपतिम् । उद्यानचरात् उद्याने चरतीत्युद्यानचरः, तस्मात्, वनपालकात् इत्यर्थः । अबुद्ध अबुध्यत । बुधि मनि ज्ञाने लुङ् । जाति: ।। ३१ ।। निशम्येति । शिवंकरोद्यानं शिवंकरम् इति ( नामकम् ) उद्यानम् । उपेत्य आगत्य । तस्थुषः अध्युषतः । तस्थौ इति तस्थिवान् तस्य तस्थुषः । 'लिटः क्वसुकानो' इति क्वसुः । तस्य गुणप्रभस्य । महामुनेः महामुनीशस्य । आगमनम् आयानम् । निशम्य श्रुत्वा । अहं कृतार्थः कृतः संपूर्णोऽर्थः प्रयोजनं यस्य सः कृतकृत्य इत्यर्थः । इति एवम् । वचः वचनम् । ब्रुवन् भाषमाणः । मुदा संतोषेण । अचिरेण शीघ्रम् । विष्टरात् सिंहासनात् । अभ्युदस्थात् अभ्युदतिष्ठत् । ष्ठा गतिनिवृत्तौ लुङ् ||३२|| जनेनेति । पौरेण पुरे भवेनौं । जनेन लोकेन । वृतः परिवेष्टितः । असौ भूपति: अजितसेनचक्री । पुरात् नगरात् । निरित्य निर्गत्य । धर्मकथां धर्मस्य रत्नत्रयात्मकधर्मस्य कथां प्रसङ्गम् । प्रचालयन् विस्तारयन् प्रवर्तयन् वा । शमान्वितैः शमेन मध्यस्थपरिणामेनान्वितैर्युक्तेः । संसृतिदुःखभीरुभिः संसृतेः संसाराज्जाताद् दुःखात् कष्टाद् भर्भयशीलः । नृपैः भूपतिभिः । समं साकम् । तद्धाम तस्य मुनेर्धाम स्थानम् । जगाम गच्छतिस्म । गम्लृ गतौ लिट् ||३३|| गतस्येति । उपवने आरामे । गतस्य यातस्य । समुत्कचेतसः समुत्कं समुत्सुकं चेतश्चित्तं यस्य तस्य । तस्य चक्रिणः । वन (ने) चरः वनपालकः । विविक्तम् एकान्तम् । अजन्तुकं निर्जन्तुकम् । शुचि पवित्रम् । अत्यन्तं नितान्तम् । श्रिया शोभया । आश्रितं सेवितम् । महामुनेः गुणप्रभकहलाता है ||३०|| इसी अवसरपर राजा अजितसेनको वनपालसे पता लगा कि विहार करने के लिए एक महा गुणी और अज्ञान अन्धकारको मिटानेके लिए सूर्यकी बराबरी करनेवाले आचार्य गुणप्रभ अपने संघके साथ उद्यानमें पधारे हैं ||३१|| शिवंकर नामक उद्यानमें पधारकर वहीं ठहरनेवाले मुनि राजगुणप्रभके पुनीत आगमनके शुभ समाचार सुनकर बुद्धिमान राजा अजितसेन 'मैं कृतकृत्य हो गया' ये वचन बोलता हुआ बड़ी प्रसन्नतासे तुरन्त हो अपने आसन से उठकर खड़ा हो गया ||३२|| पुरवासियोंसे घिरा हुआ राजा अजितसेन अपने नगरसे निकलकर शान्त परिणामवाले और सांसारिक दुःखोंसे डरनेवाले राजाओंके साथ धर्मचर्चा करता हुआ शिवंकर नामक उद्यान में पहुँचा, जहाँ मुनिराज पधारे हुए थे ||३३|| तपोवन में पहुँच - कर राजाका मन मुनिराजके दर्शनोंके लिए और भी अधिक उत्सुक हो उठा । तब मालीने उसे मुनिराज आश्रमके दर्शन कराये, जो एकान्त, जीव-जन्तुओंसे रहित, पवित्र और प्राकृ २६१ १. आ छ तस्यागमनं महामुनेः २. आ इ निरीत्य । ३. आ इ शमान्वितैः । ४. क ख ग घ म 'वने महीपतिः । ५. आ 'पुरे भवेन' इति नास्ति । ६. श निरीत्य । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy