________________
२६० चन्द्रप्रमचरितम्
[11,२८त्वमेव भोगामिषलोभ्यलोकयः कदर्थनीश्चित्त चिरं चतुर्गतीः। प्रशान्तिमायाहि ममाधुनापि कं' करिष्यसि क्लेशमतः परं परम् ।।२।। विवेकिनो जन्मविपत्तिभीरवो निरापदां संपदि बद्धचेतसः । अपीन्द्रियानीकजये यदीशते न मद्विधाः सिद्धिवधूरभर्तृकाः ॥२६॥ निवर्तितात्मा विषयेभ्य इत्यसौ पुनर्भविष्यद्भवभारभीलुकः ।
चकार चित्तं चतुरस्तपोवने हितान्न योऽपैति स एव पण्डितः ।।३०॥ कर्मणां मनोवाक्कायव्यापाराणां प्रकृतीः स्वभावान्, पक्षे चतुरङ्गसेनामात्यादिप्रकृतीश्च । वशम् अधोनम् । नेष्यतः यास्यतः। तपोवनं प्राप्तवतो गतवतोऽपि । सिद्धिभागिनः सिद्धिमात्मोपलब्धिं भागिनः आश्रयशीलस्य । मम मे । तदेव, अखण्डितं निष्कण्टकम् । राज्यम्' । रूपकम् ।।२७।। त्वमिति । चित्त भो मानस । भोगामिषलोभि भोगेषु पञ्चेन्द्रियविषयेषु आमिषेण आसक्त्या लोभि वाञ्छासहितम् । कथिनीः कद् कुत्सितोऽर्थः प्रयोजनमस्त्यासामिति तथोक्ताः । ............'- इत्यादिना समासः। 'कोः कदचि' इति कुशब्दस्य कद् आदेशः । चतुर्गतीः चतस्रश्च ता गतयश्च ताः। चिरं बहकालपर्यन्तम् । [त्वम्] अवलोकयः अदर्शयः । अत पव तस्मात् कारणात् । परं परम् उत्कृष्टम् । 'वीप्सायाम्' इति द्विः। के क्लेशं श्रमम् । करिष्यसि विधास्यसि । अधनापि इदानीमपि । प्रशान्तिम उपशमम । आयाहि आगच्छ। या प्रापणे लोट् ॥२८॥ विवेकिन इति । जन्मविपत्तिभोरवः जन्म जननं विपत्तिमरणं ताभ्यां भीरवः-बिभ्यतीत्येवंशोलाः भयशोला:-इत्यर्थः 'भ्यः क्रु-' इत्यादिना क्र-प्रत्ययः । विवेकिनः हेयोपादेयविवेकयुक्ताः । निरापदाम् । आपद्रहितानां सिद्धानाम-इत्यर्थः। संपदि संपत्ती। बद्धचेतसः बद्धं संबद्धं चेतश्चित्तं येषां ते । मद्विधा. मम सदृशः । इन्द्रियानीकजये इन्द्रियाणां पञ्चेन्द्रियाणामनीकस्य जयेऽपि विजयऽपि । नेशते समर्था न भवन्ति । ( तत् ) सिद्धिवधूः । मोक्षवनिता । अभर्तृका पतिरहिता भवति । मम समान (नाः ) सत्पुरुषा इन्द्रियजये कृतयत्ना न भवन्ति चेद् मोक्षस्य गन्तारो न सन्ति तस्मान्मोक्षवनितायाः पतिरहितत्वम्इत्यर्थः ॥२९॥ निवर्तितेति । विषयेभ्यः पञ्चेन्द्रियविषयेभ्यः । इति एवं प्रकारेण । निवतितात्मा निवतितो निवारित आत्मा स्वरूपं यस्य सः। चतुरः प्रौढः। असौ जीवः । पुनः पश्चात् । भविष्यद्भवभारभीलुक: भविष्यत एष्यतो भवस्य संसारस्य भाराद् भीलुको बिभेतीत्येवंशोलः । 'भ्यः क्रु-' इत्यादिना क्लुक-प्रत्ययः । तपोवने तपोऽनुष्ठाने । चित्तं मानसम् । चकार करोति स्म । यः पुरुषः। हितात् सन्मार्गात् । नापति करूंगा । ज्ञानावरणादि कर्मोंकी प्रकृतियोंको अपने अधीन बनाऊंगा। आत्माके शुद्ध स्वरूपकी सिद्धि प्राप्त करूंगा। इस प्रकार घरकी तरह तपोवन भी मुझे सुखदायी सिद्ध होगा ॥२७॥ रे मन ! भोगोंकी आसक्तिमें फंसकर तूने दुःख देनेवाली चारों गतियोंको चिरकाल तक देखा है। तू अब भी शान्त हो जा । मेरे लिए इससे भी बढ़कर और कौन सा क्लेश उत्पन्न करेगा? ॥२८॥ हेय और उपादेयको जाननेवाले, जन्म और जरासे डरनेवाले और हृदयसे मुक्त जीवोंकी रत्नत्रय रूप सम्पत्तिको चाहनेवाले मुझ जैसे लोग भी यदि इन्द्रियोंकी सेनाको जोतनेमें समर्थ नहीं होसकते तो कहना चाहिए कि मुक्ति कन्या कुंवारी ही रह जायगी ॥२९॥ इस तरह अजितसेनका मन विषयोंसे विमुख हो गया और उसे भावी जन्मपरम्परा बोझ मालूम पड़ने लगो । फलतः वह उससे डरने लगा। फिर उस चतुर चक्रवर्तीने तपोवन जानेका विचार कर लिया । यह उसने ठीक ही किया; क्योंकि जो हितके मार्गसे दूर नहीं भागता वही पण्डित
१. आ इ कि। २. = अधीनताम् । ३. = नयतः। ४. = सकलम् । ५.= संपत्स्यते, इतिशेषः । ६. श तमिति । ७. श 'कद्' इति नास्ति । ८. श 'इति' इति नोपलभ्यते । ९. = पीडाम् । १०. श लिट् । ११. श 'सिद्धानाम-इत्यर्थः' इति नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org