________________
- ११, २० ]
एकादशः सर्गः
मनुष्यजन्मेदमवाप्य दुर्लभं क्षयात्कथंचिन्मलिनस्य कर्मणः । भवाम्बुराशौ पुनरापदां पदे पतन्ति ते ये न हिते विजाग्रति ||२४|| यदीदमागन्तुक दुःखकारणं प्रशस्यते संसृतिसौख्य मज्ञकैः । तदा प्रशंसा पदमेतदप्यहो विषान्वितस्यास्तु गुडस्य भक्षणम् ||२५|| निहत्य नूनं शमखङ्गधारया निबन्धकानद्य कषायविद्विषः । वरीतुमिच्छोर्मम सिद्धिकामिनीं निबन्दुमीष्टे' जगतीह कः परः ||२६|| समुद्धतान्पापरिपून्हनिष्यतो वशं स्वकर्मप्रकृतीश्च नेष्यतः । तपोवनं प्राप्तवतोऽप्यखण्डितं तदेव राज्यं मम सिद्धिभागिनः ||२७||
युक्ताम् । कथं केन प्रकारेण । करिष्यति विधास्यति । डुकृन् करणे लृट् । रूपकम् ||२३|| मनुष्येति । कथंचित् केनचित् प्रकारेण । मलिनस्य मलीमसस्य कष्टरूपस्य इत्यर्थः । कर्मणः शुभाशुभरूपस्य । क्षयात् नाशात् । दुर्लभं दुष्प्रापम् । इदं मनुष्यजन्म मनुष्यभवम् । अवाप्य लब्ध्वा । ये पुरुषाः । हिते मोक्षकारणे । न विजाग्रति न विजागरिणो भवन्ति । ते पुरुषाः । पुनः पश्चात् । आपदाम् आपत्तीनाम् । पदे स्थाने । भवाम्बुराशी भव एव संसार एव अम्बुराशिः समुद्रः तस्मिन् । पतन्ति मज्जन्ति । पत्लृ गतौ लट् । रूपकम् ॥२४॥ यदिति । आगन्तुक दुःखकारणम् आगन्तुकस्य भविष्यतो दुःखस्य कारणं निमित्तम् । संसृतिसौख्यं संसृतेः संसारस्य सौख्यं सुखम् । अज्ञः अज्ञानिजनैः । यदि प्रशस्यस्ते प्रस्तूयते । तदा तर्हि । प्रशंसापदं प्रशंसायाः पदं स्थानम् । एतदपि इदम् ( अपि स्यात् ) - । विषान्वितस्य विषेण गरलेन अन्वितस्य युक्तस्य । गुडस्य शर्करायाः । भक्षणं सेवनम् । अहो । ( सविषस्य गुडस्य भक्षणमिव संसृतिसुखं न प्रशस्यते - इति भावः ) । आक्षेपः (?) ||२५|| निहत्येति । विबन्धकान् प्रतिबन्धकान् । कषायविद्विषः कषाया एव क्रोधमानादय एव विद्विषः शत्रवः, तान् । शमखड्गधारया शम एव रागद्वेषनिवृत्तिपरिणाम एव खड्गधारा प्रहरणधारा तया । नूनं निश्चयेन । निहृत्य संभिद्य । अद्य इदानीम् । सिद्धिकामिनी सिद्धिरेव मोक्ष एव कामिनी वनिता ताम् । वरीतुं परिणेतुम् । इच्छो वाञ्छितस्य । मम मे । इह जगति अस्मिन् लोके । निबन्धुं निरोद्धुम् । परः अन्यः । कः को वा । ईष्टे समर्थो भवति, न कोऽपि इत्यर्थः । रूपकम् ||२६|| समुद्धतानिति । समुद्धतान् गवितान् । पापरिपून् पापान्येव रिपवः शत्रवः, तान् । हनिष्यतः" हिसिष्यतः । स्वकर्मप्रकृतीः स्वस्यात्मनः
२५९
जन्मको पाकर जो
सकेगा ? ||२३|| अशुभ कर्मके क्षयसे, बड़ी कठिनाईसे इस दुर्लभ मनुष्य लोग अपने हितकी ओर जागरूक नहीं रहते, वे आपत्तियोंके घर स्वरूप संसार सागर में फिर जागिरते हैं ||२४|| यह सांसारिक सुख भावी दुःखोंका कारण है, फिर भी मूर्ख लोग यदि इसकी प्रशंसा करें, तो विष मिले हुए गुडका भक्षण भी प्रशंसनीय होना चाहिए ||२५|| अब मैं क्रोधादि कषाय रूपी रोड़ा अटकानेवाले शत्रुओंको निश्चय ही शमता रूपी खड्गकी धारासे नष्ट करके मुक्ति कान्ताका वरण करना चाहता हूँ । इस संसार में फिर अन्य कौन शत्रु है, जो मुझे रोक सके ? ||२६|| जिस प्रकार मैं यहाँ रहकर उद्दण्ड शत्रुओंको मारता रहा, अपने कर्मचारियों और प्रजाजनोंको अपने अधीन रखता रहा और मन, वचन और देवी सिद्धिको प्राप्त करता रहा । इस तरह अखण्ड साम्राज्यका स्वामी रहा । इसी तरह तपोवनमें जाकर भी मैं अखण्ड साम्राज्यका स्वामी बना रहूँगा । वहाँ जाकर मैं उद्धत पाप रूपी शत्रुओंका हनन करूंगा — सभी पापोंका परित्याग कर दूँगा । चंचल मन वचन और कायकी प्रकृतिको अपने वशमें
१. आ इ विबन्धु । २. = कष्टकरस्य । ३. = अष्टविधकर्मणः । ४. = दत्तावधाना न भविन्त । ५. = गुडति रक्षतीति गुडः - इक्षुरसक्वाथः, तस्य । 'गुड इक्षुरसक्वाथः' इति हैमः । ६. आ संछिद्य । ७. = वाञ्छकस्य । ८. = नाशयतो निवारयतो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org