SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २५८ [११, २१ चन्द्रप्रमचरितम् नरो विबध्येत सरागतां गतो न कर्मभिस्तद्विपरीतभावनः। निरन्तरं मुञ्चति वारि वारिदे विगाहितुं धूलिरलं हि नाम्बरम् ॥२१॥ चराचरे नास्ति जगत्यभोजि यन्न जन्तुभिर्जन्मपयोधिमध्यगैः । किमेष लोको विषयान्धलोचनः पराङ्मुखो नश्यति'मोक्षसाधनात् ॥२२॥ दुरन्तभोगाभिमुखां निवर्तयेन शेमुषीं यः सुखलेशलोभितः। कथं करिष्यत्युपरूढिमागतामिमां स जन्मवततिं विनाशिनीम् ।।२३।। भवादेव संसारादेव। अनर्थाः अपायरूपाः। वधबन्धनादयः वधस्ताडनं बन्धो बन्धनं तो आदी ( आदी) येषां ते। सः संसारः । उत्खाततलः उत्खातं तलं यस्य सः भवेच्चेत् यदि स्यात् । भू सत्तायां लिङ। ते वधबन्धनादयः । न स्युः न भवेयुः । क्वापि कुत्रापि । कार्यसंपद: कार्यसमृद्धयः ( कार्याणीत्यर्थः)। अहेतुकाः कारणरहिताः । न स्युः । अस भुवि लिङ् । अर्थान्तरन्यासः ॥२०॥ नर इति । सरागताम् अभिलाषवत्त्वम । गत: यातः । नरः मनुष्यः । कर्मभिःशमाशभभेदकर्मभिः । विबध्येत न ह्येत । बधि बन्धने कर्मणि लिङ। तद्विपरीतभावनः तस्मात सरागपरिणामाद् विपरीता विरागरूपा भावना यस्य सः । न४ कर्मभिः-(ज्ञानावरणादिकर्मभिः) न बध्येत । वारिधेः समुद्रस्य [वारिदे मेघे] वारि जले (जलम्) । निरन्तरं निबिडम् । मुञ्चति सति त्यजति सति । धूलिः रजः । अम्बरम् आकाशम् । विगाहितुं लङ्घितुम् । नालं समर्थं न भवति हि । अर्थान्तरन्यासः ॥२१॥ चरेति । चराचरे चरा जङ्गमा अचराः स्थावरा यस्मिन तस्मिन् । जगति लोके । जन्मपयोधिमध्यगैः जन्मैव पयोधिः समुद्रः तस्य मध्यगैर्मध्यं गतः । जन्तुभिः प्राणिभिः । यत् वस्तु । न अभोजि नाभुज्यत । भुज पालनाभ्यवहारयोः कर्मणि लुङ् । तद् वस्तु । नास्ति न विद्यते । विषयान्धलोचनः विषयरन्धे लोचने यस्य सः । एषः अयम् । लोकः जनः । मोक्षसाधनात् मोक्षस्य साधनाद् रत्नत्रयात् । पराङ्मुखः सन् विमुखः सन् । किं किंकारणम् । नश्यति । आक्षेपः (?) ॥२२॥ दुरन्तेति । यः सुखलेशलोभितः ( सुखलेशे ) अल्पे-स्तोके सुखे लोभितः प्रोतः' ( मोहितः )। 'पोटायुवति:-' इत्यादिना समासः । दुरन्तभोगाभिमुखात् दुरन्तेषु दुःखावसानेषु भोगेषु पञ्चेन्द्रियभोगेषु अभिमुखाद् आसंजनात् ( दुरन्तभोगाभिमुखां दुरन्तेषु दुष्परिणामेषु भोगेषु पञ्चेन्द्रियविषयेषु अभिमुखा. मासक्ताम् )। शेमुषी बुद्धिम् । न निवर्तयेत् न निराकुर्यात् । सः जीवः । उपरूढिं प्रवृद्धिम् । आगताम् आयाताम् । इमाम् एताम् । जन्मव्रतति जन्म संसार: तदेव व्रततिर्लता ताम् । विनाशिनी विनाश आदि भी नहीं होंगे । बिना कारणके कार्य कहीं भी नहीं होता ॥२०॥ रागी मनुष्यको ही कर्मबन्धन हो सकता है, पर जिसकी भावना रागसे रहित-वीतराग है, उसे कर्म-बन्धन नहीं हो सकता । यदि मेघ लगातार पानी बरसाता रहे, तो आकाशमें धूलि नहीं उड़ सकती ॥२१॥ इस जंगम और स्थावर जगत्में ऐसी कोई वस्तु नहीं, जिसे संसार समुद्रके बीच में पड़े हुए जीवोंने न भोगा हो। जब भोगने योग्य वस्तु नहीं रही तो फिर क्या कारण है जो मनुष्य विषयोंमें अन्धा हो रहा है और सम्यग्दर्शन आदि मुक्तिके साधनोंसे पराङ्मुख होकर दुःखी हो रहा है ॥२२॥ जो जरासे विषयसुखके लोभमें फँसकर अन्त में दुःख देनेवाले भोगोंकी ओर जाती हुई अपनी बुद्धिको नहीं लौटाता, वह खूब बढ़नेवाली संसार रूपी लताको कैसे नष्ट कर १. क ख ग म रूपयति । २. श लेट । ३.श लेट। ४. आस । ५.शन भजपते । ६. श 'प्रोतः'इति नास्ति । ७. एव टीकाकृदभिमतः पाठः, प्रतिषु तु 'दुरन्नभोगाभिमुखां' इत्येव पाठो दृश्यते । ८.न निवारयेत् । ९. आ प्रतितं । १०. आ प्रततिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy