SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २५७ -११, २०] एकादशः सर्गः शनैर्विहास्यन्ति गतश्रियं न मां न बान्धवा बद्धधनर्द्धिबुद्धयः । फलप्रसूनप्रलये हि कोकिला भवन्ति चूतावनिजं जिहासवः ॥१७।। प्रपित्तु संपक्कफलोपमान्वितं जगत्यहो जीवितमत्र जीविनाम् । विलीयमाना निचयाः क्षणक्षयाः शुभाशुभं 'नंष्टुमनीश्वरं परम् ॥१८॥ कषायसारेन्धनबद्धपद्धतिभवाग्निरुत्तङ्गतरः समुत्थितः। न शान्तिमायाति भृशं परिज्वलन्न यद्ययं ज्ञानजलैनिषिच्यते ॥१६॥ दुरात्मकादेव भवाद् भयंकराद् भवन्त्यनर्था वधबन्धनादयः। न ते स्युरुत्खाततलः स चेद् भवेदहेतुकाः क्वापि न कार्यसंपदः ॥२०॥ नष्टं सत् । विलेख्यते २ जीर्ण ( जीर्णत्वम् ) नेष्यते । [ हा हन्त ] । लोङ् श्लेषणे ॥१६॥ शनैरिति । बद्धधद्धिबुद्धयः धनं द्रव्यं तच्च ऋद्धिरैश्वर्यं सा च बुद्धिधिषणा सा च तथोक्ताः, बद्धाः कृता धनधिबुद्धयो येषां ( यैः ) ते । बान्धवाः ज्ञातयः । गतश्रियं गता रहिता ( नष्टा ) श्रीः सम्पद् यस्य तम्, ऐश्वर्यरहितम् इत्यर्थः। मां मा। शनैः मन्दं मन्दम् । न विहास्यन्ति न त्यजन्ति ( इति )न', किन्तु त्यजन्त्येव । द्वो नौ प्रकृतमथं द्योतयतः। फलप्रसूनप्रलये फलानां पक्वानां प्रसूनानां कुसुमानां६ प्रलये रहिते ( अवसाने ) सति । कोकिलाः पिकाः । चूतावनिजम् आम्रवृक्षम् । जिहासवः त्यक्तुमिच्छवः । भवन्ति हि । अर्थान्तरन्यासः ( प्रतिवस्तुपमा) ॥१७॥ प्रपित्स्विति । अत्र जगति लोके। जीवानां प्राणिनाम् । जीवितं जीवनम् । प्रपित्सुसंपक्वफलोपमान्वितं प्रपित्सूनां पतनशीलानां संपक्वानां संपूर्णपरिणतानां फलानामुपमयान्वितं युक्तम् । स्यात् । विलीयमानाः आश्र ( श्रि ) यमाणाः। निचयाः परिग्रहाः । क्षणक्षयाः क्षणेऽल्पकाले क्षयो नाशो येषां ते। स्युः। शुभाशुभं पुण्यपापकर्म । नंष्टुं नाशनाय । परं केवलम् । अनीश्वरं स्थात् असमर्थं स्यात् । जातिः ।।१८।। कषायेति । कषायसारेन्धनबद्धपद्धतिः कषायाः क्रोधादयस्त एवं साराणि बलिष्ठानि इन्धनानि काष्ठानि तैबंद्धा पद्धति मर्मार्गो यस्य सः । उत्तङ्गतरः उन्नततरः । समत्थितः उत्पन्नः। परिज्वलन् परितो ज्वलन् । अयम् एषः । भवाग्निः संसाराग्निः । ज्ञानजलैः ज्ञानान्येव जलानि तैः । यदि न निषिच्यते सेचनं न करिष्यते ( नोक्ष्यते )। भृशम् अत्यन्तम् । शान्ति शमम् । न आयाति नागच्छति । या प्रापणे लट् । रूपकम् ।।१९।। दुरात्मेति । दुरात्मकात् दुष्टस्वभावयुक्तात् । भयंकरात् भोतिकरात् । सम्पर्कसे घुल-घुलकर नष्ट हो जाता है ॥१६॥ धन-सम्पत्तिके इच्छुक बन्धु लोग लक्ष्मीके चले जानेपर धीरे-धीरे मझे नहीं छोड देंगे, यह बात नहीं हैं-जब तक मेरे पास धन है तभी तक बन्धु-बान्धव साथ देंगे, पर जब धन चला जायगा, मैं निर्धन हो जाऊँगा, तब धीरे-धीरे सभी लोग किनाराकसी करने लगेंगे। जब फल-फूल विलीन हो जाते हैं, तब कोकिल आमके पेड़को छोड़ देनेके लिए उत्सुक हो जाते हैं ॥१७॥ जगत्में जीवोंका जीवन गिरनेवाले पके फलके समान है । ओह यह कितने खेदकी बात है ! संचित चेतन और अचेतन परिग्रह भी क्षणभंगुर है । केवल शुभ और अशुभ कर्म ही ऐसे हैं, जो बिना फल दिये नष्ट नहीं हो सकते ॥१८॥ क्रोध आदि कषाय रूपी ठोस ईंधनसे जिसका चारों ओरका मार्ग तैयार कर दिया गया है; जो ऊपर उठकर बहुत ऊंचाई तक पहुँच गया है और जो खूब प्रज्वलित हो रहा है, इसके ऊपर यदि ज्ञान जलका सिंचन न किया जाये तो वह संसार रूपी अग्नि कभी शान्त ही न हो ॥१९॥ यह संसार दुष्ट स्वभाववाला है, और भयंकर है। इसीसे वध और बन्धन आदि अनर्थ हुआ करते हैं। यदि संसारका मूल आधार (राग) उखाड़ दिया जाय तो वध बन्धन १. क ख ग घ नष्टु। २. श विलेष्यते । ३. आ भिन्नं। ४. श जातयः। ५. श नेति न । ६. श 'कुसुमानां' इति नास्ति । ७. श नष्टुं। ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy