SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २५६ चन्द्रप्रभचरितम् बिभेति पापान्न सतामसंमतान्न मन्यते दुर्गतिदुःखमुद्धतम् । विलोभ्यमानो विषयामिषाशया करोत्यकर्तव्यशतानि मानवः ॥१४॥ मदान्धकान्तानयनान्तचञ्चलाः सदा सहन्ते न सहासितुं श्रियः । ज्वलज्जरावज्रहविर्भुजो जये कियच्चिरं स्थास्यति यौवनं वनम् ॥१५।। 'क्रियावसाने विरसैर्मुखप्रियः स्वयं विहास्यविषयविनाशिभिः । विलेख्यते कालमरीचिमालिनः करैर्हतं हा हिमसंनिभं वपुः ।।१६।। अनेकेषां कर्तव्यानां कार्याणां शतेन बहना (बाहल्येन ) आकूलो व्याकूलः । अयम् एषः। पुमान् पुरुषः । आसन्नमपि समोपमागतमपि । मृत्यं मरणम । ईक्षितुं वीक्षणाय । न क्षमः न समर्थों भवति ।।१३।। बिभेतीति । विषयामिषाशया विषयाणां पञ्चेन्द्रियगोचरणामामिषस्य स्वीकारस्थाशया अभिलाषेण । विलोम्यमानः विमुच्य (ह्य ) मानः । मानवः मनुष्यः। सतां सत्पुरुषाणाम् । असमतात् अनभ्युपगमात् । पापात् दुरितात् । न बिभेति भयं न याति । त्रिभो भये लट् । उद्धतं प्रवृद्धम् । दुर्गतिदुःखं दुर्गतीनां नरकादिदुर्गतीनां दुःखं नष्टम् । न मन्यते न जानाति । बुधि मनि ज्ञाने लट् । अकर्तव्यशतानि अकर्तव्यानां शतानि अनेकानि ( नाना अकर्तव्यानि-इत्यर्थः )। करोति विदधाति । आक्षेपः (१) ॥१४।। मदेति । मदान्धकान्तानयनान्तचञ्चलाः मदेन अन्धः ( अन्धानां ) कान्तानां वनितानां नयनानां नेत्राणाम् अन्त इव अवसानम् ( कटाक्ष-) इव चञ्चला भृशं चलनरूपाः । श्रियः सम्पदः । सदा सर्वदा। सह साकम् । आसितुं स्थातुम् । न सहन्ते समर्था न भवन्ति । ज्वलज्जरावज्र हविर्भुजः ज्वलन् जरैव वार्द्धक्यमेव वज्रहविर्भुजः ( वज्रहविर्भुक् वज्र ग्नि:, तस्य )। जय विजये सति ( जय विषये, जयाय-इत्यर्थः )। योवनं तारुण्यम् । वनं काननम् । कियच्चिर कियत स्थिरम ( कियन्तं कालं तावत ) । स्थास्यति । उपमा ॥१५॥ क्रियेति । मखप्रियः मखे प्रथमे ( अनभवादी) प्रियः प्रीतिरूपैः (आपातमधुरैः)। क्रियावसाने क्रियाया अनुमवस्यावसाने पर्यन्ते। विरस्यैः (विरसै. ) अप्रियः । विनाशिभि: विनाशशोलैः। विषयः पञ्चेन्द्रियविषयः। स्वयम् अहम् (स्वत एव)। विहास्ये विरहिष्ये (विहास्यः त्याज्यः)। हिमसन्निभं हिमस्य सन्निभं समानम् । वपुः शरीरम् । कालमरीचिमालिनः काल एव यम एव मरीचिमाली सूर्यरूपः तस्य । रूपकम् । करैः किरणः । हतं भी मृत्युको देखनेके लिए असमर्थ रहा करता है-(करिष्यामि करिष्यामि करिष्यामीति चिन्तया । मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतम्) ॥१३॥ यह मनुष्य, सन्त पुरुषोंके द्वारा निषिद्ध पापसे नहीं डरता और नरक आदि खोटी गतियोंके बड़े-बड़े असह्य दुःखोंको नहीं मानता, किन्तु पाँच इन्द्रियोंके विषयके लोभमें फंसकर सैकड़ों ऐसे-ऐसे काम करता रहता है, जो कभी नहीं करने चाहिएं ॥१४॥ लक्ष्मी मतवाली नायिकाके कटाक्षोंकी भाँति चंचल है। यह किसोके साथ सदा नहीं रह सकती। बुढ़ापा प्रज्वलित वज्राग्निके समान है। जब मनुष्य उसके चंगुल में फंस जाता है, तब यौवन रूपी वन उसके सामने कितनी देर टिका रह सकता है ?--जिस प्रकार वज्राग्निके प्रज्वलित होते ही सारा जंगल भस्म हो जाता है, इसी प्रकार जराके आते ही यौवन नष्ट हो जाता है ॥१५॥ इन्दियोंके विषय प्रारम्भमें प्रिय, भोगनेके पश्चात् अप्रिय और विनश्वर हैं। ये स्वयं ही मुझे छोड़ देंगे। यह शरीर बर्फके समान है। जिस प्रकार बर्फ सूर्यको किरणोंसे पिघलकर नष्ट हो जाता है। इसी प्रकार शरीर भी कालके १. अ करावसानेवरसः । २. आ °स्य वाज्छया अधि। ३. श आस्यितुं । ४. आ मरीचिमालिनः सूर्यस्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy