SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २५४ चन्द्रप्रमचरितम् विनीयमानो नृपशासनेन तैः कृतक्रियै रित्थमसौ मतङ्गजः। प्रधावितुं कंचिदशक्तमुद्धतः करण जग्राह पुरः प्रसारिणा ।।७।। ग्रहागतं तं मदमूढमानसो जनस्य हाहेति रवेण पश्यतः। तथा समास्फालयति स्म भूतले यथा स सर्वावयवैय॑युज्यत ।।८।। विलोक्य तं शारदमेघवत्क्षणाद्विलीनमङ्गनच जीवितेन च। कृपाङ्गनालिङ्गिततुङ्गमानसो जगाम निर्वेदमिति क्षितीश्वरः ।।६।। अहो नराणां भवगर्तवर्तिनामशाश्वतीं पश्यत जीवितस्थितिम् । ययातिदूरेण जिताः स्वचापलात्तडिद्विलासाः शरदम्बुदैः समम् ॥१०॥ डुकृञ् करणे लिट् ॥६॥ विनीयमान इति । नपशासनेन' नपस्य चक्रिण: शासनेनाज्ञया। कृतक्रियः कृता विहिता क्रिया अभ्यासो यः, तैः । ते: भटैः । इत्यम् अनेन प्रकारेण । विनीयमान: वीक्ष्यमाणः (शिक्ष्यमाण:)। उद्धतः प्रवृद्धकोपः । असौ मतङ्गजः मदगजः । प्रधावितुं पलायितुम् । अशक्तं सामर्थ्यरहितम् । कञ्चित् कञ्चित्पुरुषम् । पुरःप्रसारिणा पुरःअग्रभागे प्रसारिणा प्रसरणशीलेन । करेण शुण्डादण्डेन । जग्राह गृह्णाति स्म । गृह उपादाने लिट् । ७॥ ग्रहेति । मदमूढमान सः मदेन मूढं मोहितं मानसं यस्य सः । सः मदगजः । हाहेति हा हा इति । रवेण ध्वनिना । पश्यतः वोक्षमाणस्य । जनस्य लोकस्य हा हा इति पश्य :: वीक्षमाणस्य हा हा इति ध्वनि कुर्वन्तं पश्यन्तं जनमनादत्य उदासीनं कृत्वा ( उपेक्ष्य) इत्यभिप्रायः । 'षष्ठी चानादरे' इति षष्ठी। ग्रहागतं ग्रहं वशम् ( ग्रहणम ) आगतम् यायातम् । 'ग्रहे ग्राहो वशः' इत्यमरः । (ग्रहः सूर्यादिनिबन्धोपरागेषु रणोद्यमे । ग्रहणे पूतनादो च सैहिकेयेऽप्यनुग्रहे । विश्वलोचनकोशः ) । तं पुरुषम् । यथा सर्वावयवैः सर्वेः अवयवैः । व्ययुज्यत व्यभिद्यत । युजन् योगे कर्मणि लङ् । तथा, भूतले महीतले । समास्फालयति स्म । आघातयति स्म । स्फल लट् । दृष्टान्तः (?) 11८॥ विलोक्येति । शारदमेघनत् शारदः शरदि शरत्काले भवो जातः मेघवत वारिवाहवत् ( शरदि भवः शारदः स चासौ मेधो वारिवाहः तद्वत् ) । अङ्गेन च शरीरेण । जीवितेन च जीवनेन । क्षणात अल्पकालात् । विलीनं नष्टम् । तं पुरुषम् । विलोक्य वीक्ष्य । कृपाङ्गनालिङ्गिततुङ्गमानसः कृपैव कारुण्यमेवाङ्गना वनिता तयालिङ्गितमाश्लिष्टं तुङ्गमुन्नतं मानसं चित्तं यस्य सः । रूपकम। क्षितीश्वरः सार्वभौमः । इति वक्ष्यमाणप्रकारेण । निर्वेदं वैराग्यम् । जगाम ययो। गम्ल गती लिट् ॥९॥ अहो इति । यया संसारस्थित्या । स्वचापलात् । निजचाञ्चल्यात् । शर बढ़कर उसकी बगल में कठोर लोढेका प्रहारकर दिया ॥६!। इस तरह राजाके आदेशसे अभ्यास करनेवाले वोरांके द्वारा उस हाथीको युद्धकी शिक्षा दी जा रही थी। इतने में, संयोगकी बात है, उस उद्धृत हाथीके सामने एक ऐसा मनुष्य आ गया, जो दौड़ने में असमर्थ था। फिर क्या था, हाथोने आगे सूंड फैलाकर उसे पकड़ लिया ॥७॥ लोगोंमें हाहाकार मच गया। उनके देखते देखते हाथीने-जो बिलकुल मदान्ध था-पकड़में आये हुए उस मनुष्यको जमोनपर ऐसे ढंगसे दे पटका कि उसके हाथ, पैर आदि सारे अङ्ग टूट-टूटकर अलग जा गिरे ॥८॥ शरत्कालके मेघकी तरह उसे क्षणभरमें ही शरीर और जीवनके साथ विलीन (मरते) होते देखकर कृपा रूपी अङ्गनाने राजा अजितसेनके उन्नत हृदयसे आलिङ्गन कर लिया-उस पुरुषको मृत्युके मुखमें जाते देखकर अजितसेनको दया आ गयी। फिर उसे वैराग्य हो गया। उस समय उसके मनमें इस प्रकारके वैराग्यके विचार उत्पन्न हुए ॥६॥ यह संसार बहुत बड़े गड्ढे के समान है । ओह इसमें पड़े हुए मनुष्योकी क्षणभङ्गर जीवनको अवस्थाको तो देखो !, जिसने अत्यन्त दूर १. 'नृपशासनेन' इति टोकाकृत्संमतः पाठः, प्रतिषु तु 'नृपशासनान्नरैः' इत्येव पाठो दृश्येत । २. आ ग्रह । ३. भा युजिर् । ४. आ स्फ लट् । ५. श तुङ्गम् उच्चम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy