________________
- 11, 4]
एकादशः सर्गः
अनल्पसत्त्वं गुरुवंशशालिनं प्रलम्बहस्तं स्वमिवावलोक्य तम् । मतङ्गजं क्रीडयितुं कुतूहलादचूचुदद्वीर नरान्नराधिपः ||४|| तदाज्ञयैकः समुपेत्य धीरधीर्जघान मुष्टया घनपीवरे करे । तमेति यावत्स जवेन पृष्ठतस्तुतोद तावद्भृशमारयापरः ||५|| निवृत्य यावत्किल पृष्ठवर्तिनं प्रतिप्रधावत्य तिकोपपीडितः । निपत्य तावन्निजलाघवात्परश्चकार पार्श्वे घनलोष्टताडनम् ||६||
हस्तिनम् । सभाजिरे सभाया आस्थानस्याजिरेऽङ्गणे । 'अङ्गणं चत्वराजिरे' इत्यमरः । विलोकयामास वीक्षां चक्रे || ३ || अनल्पेति । नराधिपः भूमिपाल: । अनल्पसत्त्वम् अनल्पं महत् सत्त्वं सामर्थ्यं यस्य तम् । गुरुवंशशालिनं गुरुणा महता वंशेन पृष्ठास्थना ( पृष्ठा स्थिना- इत्यर्थः ) शालिनं ४ शोभिनम्, पक्षे महाकुलेन भासिनम् । 'वेणी वर्गे कुले वंशः पृष्ठस्थावययेऽपि च ।' इत्यभिधानात् । प्रलम्बहस्तं प्रलम्बो दीर्घो हस्तः शुण्डादण्डो यस्य तम्, पक्षे हस्तः पाणि र्यस्य तम् । स्वमिव आत्मानमिव । तं मतङ्गजं मदगजम् । अवलोक्य वीक्ष्य । क्रोडवितुं क्रोडनाय । कुतूहलात् कुतुकात् । वीरपुरुषान् | अचूचुदत् अप्रेरयत् । चुद प्रेरणे लुङ् ॥४॥ तदाज्ञयेति । तदाज्ञया तस्याजितसेनस्याज्ञया अनुज्ञया । धोरधीः धीरा धीर ( -त्व ) गुणयुक्ता घोर्बुद्धियस्य सः । एकः शूरभटः । समुपेत्य समीपं गत्वा । घनपीवरे घने कठिने पोवरे स्थूले । करें शुण्डादण्डे । मुष्टया वज्रमुष्टया । जघान ' हन्ति स्म । हन हिंसागत्योलिट् । सः गजः । जवेन शीघ्रम् । तं पुरुषम् । यावत् यावत्पर्यन्तम् । एति आयाति । तावत् अपर: अन्यो भटः । पृष्ठतः पश्चाद्भागे । आरया आरादण्डेन' । भृशम् अत्यन्तम् । तुतोद वबाध । तुद" व्ययने लिट् ॥५॥ निवृत्येति । अतिकोपपीडित: १२ अतिकोपेनाधिकक्रोधेन पीडित : १३ प्रकाशित १४ सन् । निवृत्य वलित्वा । पृष्ठवत्तिनं पश्चाद्भागवर्तिनम् । पुरुषं प्रति यावत् किल, प्रधावति लघु पलायते" । सृ गतौ लट् । 'सर्ते र्घौ वेगे' इति घाव-आदेशः । तावत् परः अन्यः । पुरुषः, निजलाघवात् निजस्य स्वस्य लाघवात् लघुत्वात् । निपत्य समीपे गत्वा । पार्श्वे दक्ष ( दक्षिण ) पार्श्वे६ । घनलोष्टताडनं घनेन कठिनेन लोष्टेन ताडनं हननम् । चकार करोति स्म ।
२५३
अतितसेनने अपनी सेवाके निमित्तसे सभाके आँगन में आये हुए एक गजराजको देखा ||३|| वह गजराज अजितसेन सरीखा था । अजितसेनमें बहुत अधिक बल था; वह महान् वंश में जन्मा था और उसके बाहु लम्बे थे । इसी प्रकार गजराज बहुत बलवान् था; वह उभरी हुई रीढ़ की हड्डीसे विभूषित था और उसकी सूँड़ खूब लम्बी थी । उसे अपने ही समान देखकर अजितसेनने कौतुकवश कुछ वीर पुरुषोंको उसके क्रीड़ा करने के लिए प्रेरित किया ||४|| राजाकी आज्ञा पाकर एक धीर बुद्धिवाले वीर पुरुषने पास जाकर उसकी कठोर और पुष्ट सूँडपर मुक्केका प्रहार किया। हाथी बड़े वेग से जबतक मुक्का मारनेवालेपर झपटने ही वाला था, इतने में ही दूसरे वीरने उसे पीछेसे चमड़ा काटनेका औजार चुभा दिया, जिससे उसे बड़ी व्यथा हुई ||५|| फिर क्या था, उसका क्रोध भड़क उठा । फलतः वह जबतक मुड़कर पीछेसे प्रहार करनेवालेकी ओर लपकनेको ही था कि तीसरे पुरुषने बड़ी फुर्तीसे कुछ आगे
१. अ तमेव । २. अ आ निर्वृत्य । ३. आ 'पृष्ठास्थ्नो' इति नोपलभ्यते । ४. = शालते शोभते इत्येवं शीलः, तम् । ५. श वर्गिकुले । ६. श लङ् । ७. आ ' कठिने' इति नोपलभ्यते । ९. श अश्या आरादण्डेन | = 'आरा चर्मप्रभेदिका' इति हैमः । १०. श तुदि । ११. १२. आ दापितः । १३. आ दीपितः । १४. = 'प्रताडितः' इति भवेत् । १५. आ पलायति, १६. आ पार्श्वे चक्रिणः पावें ।
Jain Education International
For Private & Personal Use Only
८. = तताड |
श वृत्येति । श पलायेते ।
www.jainelibrary.org