SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [११. एकादशः सर्गः] अथ प्रवृद्धे दिवसे विशांपतिर्विधाय स स्नानपुरःसराः क्रियाः । गृहीतवस्त्राभरणोऽधिशिश्रिये सभागृहं कल्पितसिंहविष्टरम् ॥१।। तमेत्य सर्वावसरव्यवस्थितं प्रधानदौवारिकसूचितागमाः। महीतलाश्लिष्टशिखेन मौलिना नृपाः प्रणेमुः प्रणतैकवत्सलम् ।।२।। ततः प्रतीहारकृतप्रवेशने यथायथं सभ्यजने व्यवस्थिते । - विलोकयामास स सेवयागतं समाजिरे राजगजं प्रजापतिः ।।३।। श्रीमन्नतामरनरेन्द्र किरीटकोटोमाणिक्यसंचयविलासमरीचिकाभिः । आलोढपादयुगलं जिनकुन्थुनाथं नित्यं नमामि जिनराजविनूतपादम् ॥२ अथेति । अथ सूर्योदयानन्तरम् । दिवसे दिने । प्रवृद्धे सति एधिते सति । सः विशांपतिः नरपतिः । स्नानपुरस्सराः स्नानमेव पुरस्सरं पूर्वं यासां ताः। क्रियाः कार्याणि । विधाय कृत्वा । गृहीतवस्त्राभरणः गृहीतानि स्वीकृतानि वस्त्राभरणानि येन सः । कल्पितसिंहविष्टरं कल्पितं विरचितं सिंहविष्टरं सिंहासनं यस्मिन् तत् । सभागृहम् आस्थानमण्डपम् । अधि"शिश्रिये आश्रयति स्म । श्रि सेवायां लिट् ॥१॥ तमिति । प्रधानदौवारिकसूचितागमाः प्रधानेन मुख्येन दौवारिकेन सूचितो विज्ञापित आगम आगमनं येषां ते । नपाः भूमिपाः। प्रणतकवत्सलं प्रणतेषु विनतेषु एको मुख्यो वत्सल: प्रोतिर्यस्य तम् । सर्वावर सर्वासां प्रजानामवसरे व्यवस्थितं स्थितम् । तं चक्रवर्तिनम् । एत्य आगत्य । महीतलाश्लिष्टशिखेन महीतले भूतले आश्लिष्टा संस्पृष्टा शिवा अग्रभागो यस्य तेन । मौलिना मुकुटेन । प्रणेमुः प्रणमन्ति स्म । णम प्रह्वत्वे शब्दे लिट् ॥२॥ तत् इति । ततः पश्वात् । प्रतीहारकृतप्रवेशने प्रतीहारेण दौवारिकेण कृतं प्रवेशनमन्तगमनं यस्य तस्मिन् । सभ्यजने सभ्ये सभायोग्ये जने लोके । यथायथं मर्यादामनतिक्रम्य । व्यवस्थिते सति स्थिते सति । सः प्रजापतिः चक्रवर्ती। सेवया सेवानिमित्तम् । आगतम् आयातम् । राजगजं गन्ध इसके पश्चात् दिन चढ़ते ही राजा अजितसेनने स्नान आदि क्रियाओंसे निवृत्त होकर वस्त्र और आभूषणोंको धारण किया। फिर वह सभा-भवन में पहुंचा, जहाँ सिंहासन रखा हुआ था ।।११। वह आम सभाका भवन था। वहाँ सबको आनेका और बोलने का भी अवसर दिया जाता था। इसीलिए उसका नाम सर्वावसर रखा गया था। चक्रवर्ती उस सभामें जाकर सिंहासनपर बैठ गया। फिर प्रमुख द्वारपालके द्वारा अपनी सूचना अन्दर भेजकर आगन्तुक राजाओंने विनम्र व्यक्तियोंके एकमात्र स्नेही अजितसेनके पास जाकर उन्हें मस्तक नवाकर प्रणाम किया। प्रणाम करते समय उनके मकटका ऊपरी भाग भमिका स्पर्श कर रहा था ॥२॥ इसके पश्चात् द्वारपालको सूचनाके अनुसार सभासदोंने प्रवेश किया, और वे वहाँ अपनेअपने योग्य स्थानपर बैठ गये। जब सभी लोग वहाँकी व्यवस्थाके अनुसार बैठ गये, राजा १. क ख ग घ विशिश्रिये। २. आ इदं पद्यं नोपलस्यते। ३. मा 'एधिते सति' इति नास्ति। ४. = परिधारितानि । ५. श 'अधि' इति नास्ति । ६. श आश्रयते । ७. श श्रि । ८. = स्निग्धः । "स्निग्धस्त वत्सलः' वत्सोऽस्त्यस्य, वत्सलः, सिध्मादित्वाद्लः । इति हैमः। ९. = अवसरोऽस्ति यस्मिन्, तस्मिन्, सदसि. इत्यर्थः । १०. आ संश्लिष्टा । ११. आ णम् । १२. आ श प्रतिहार। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy