________________
[१०,७७
२५०
चन्द्रप्रमचरितम् बन्दिभ्यो ललितपदक्रमाभिरामा संशृण्वन्निति दयितोपमां स वाणीम् । 'निःस्पन्दोच्छ वसददरप्रसुप्तभृङ्गैरम्भोजैः सममभजन्नृपः प्रबोधम् ।।७७।।
अथ कथमप्यपास्य दयिताभुजपाशमसावरुणरुचा प्रसाधयति पूर्वदिशं तपने । रतिकलहप्रसङ्गगलितोज्ज्वलहारमणिप्रकरचितं पयोनिधिमिव व्यमुचच्छयनम् ॥७।।
निराकृताः प्रतापिनः तेजस्विनो भूपाला राजानो येन सः । मम मे। उपरि प्रयातम् ऊर्ध्वं प्रयात मागतम् । ईक्षितुं विलोकितुम् । न खलु शक्नोति न समर्यो भवति । इति मत्वा। भवतः तव । भयादिव भोतेरिव । अयम् एषः। रोचिष्मान् सूर्यः । बिम्बं मण्डलम् । आकाशप्रणयि आकाशे गगने प्रणयि प्रसरणयुक्तम् । 'प्रणयः प्रेमिण विस्रम्भे याच्या प्रसरयोरपि ।' इति विश्वः । शनैः मन्दम् । करोति विदधाति । उत्प्रेक्षा ॥७६।। बन्दिभ्य इति । बन्दिभ्यः मङ्गलपाठकेभ्यः । ललितपदक्रमाभिरामां ललितानां मनोहराणां पदानां तिङ्सुबन्त-(सुप्तिङन्त-) रूपाणां क्रमेण परिपाटया अभिरामां मनोहराम्, पक्षे, ललितेन मृदुलेन पदक्रमेण पादन्यासेनाभिरामाम् । दयितोपमा भार्योपमाम् । इति उक्त प्रकाराम् । वाणों वचनम् । संशृण्वन् आकर्णयन् । सः नृपः चक्रो। निष्पन्दोच्छ्वसदुदरप्रसुप्तभृङ्गः निष्पन्दाश्चलनरहिता उच्छ्वसन्त उच्छ्वासं कुर्वन्त: उदरे अन्तः प्रसुप्ता भृङ्गा मधुकरा येषां तैः । अम्मोजैः कमलैः । समं साकम् । प्रबोधं जागरम्, पक्षे विकसनम् । अभजत् आश्रयत् । भज सेवायां लङ् । सहोक्तिः ॥७७॥ अथेति । अय जागरणानन्तरम् । तपने सूर्ये । अरुणरुचा अरुणया लोहितया रुचा कान्त्या । पूर्वदिशम् इन्द्रदिशम् । प्रसाधयति सति भूषयति सति । असो चक्रवर्ती । दयिताभुजपाशं दयितायाः शशिप्रभाया भुज एव पाशः, तम् । कथमपि येन केनापि ( प्रकारेण ) । अपास्य त्यक्त्वा । रतिकलहप्रसङ्गगलितोज्ज्वलहारमणिप्रकटचित रतिकलहस्य प्रणयकलहस्य प्रसङ्गेन गलितस्य पतितस्योज्ज्वलहारस्य प्रज्वल (प्रोज्ज्वल.) हारस्य मणोनां मौक्तिकानां प्रकरण समूहेन चितं विततम् । पयोनिधिमिव समुद्र मिव । शयनं शय्याम् । व्यमुचत् । मुच्लन् मोक्षणे लुङ् । 'सतिशास्ति-' इत्यादिना
अपने ऊपरसे मेरा जाना देख नहीं सकेगा, मानो यही सोचकर सूर्य आपके डरसे अपने बिम्बको धीरे-धीरे आकाशमें चढ़ा रहा है ॥७६।। मंगलपाठ करनेवालोंसे नायिकाके समान सुन्दर पदविन्यास ( सुबन्त तिङन्त पदोंका विन्यास, पैरोंका विन्यास ) से मनको रमानेवाली वाणी सुनता हुआ राजा अजितसेन, कमलोंके-जिनके अन्दर निश्चेष्ट, धीरे-धीरे श्वास लेनेवाले भौंरे सोए हुए थे-साथ-ही-साथ प्रबुद्ध हो गया। कमल खिल उठे और राजा जाग उठा। ॥७७|| सूर्य अपनी अरुण आभासे अभो पूर्व दिशाके शृंगार करनेमें ही लगा हुआ था, किन्तु राजा अजिससेनने जागते हो जिस किसो तरह अपनी प्रियाके बाहुपाशसे निकलकर सेज छोड़ दो, जो रतिकलहके प्रसंगसे गिरे हुए हारके मणियोंसे व्याप्त होकर रत्नाकरको भाँति दृष्टिगोचर
१. क ख ग घ म नि:स्यन्दो । २. अ आ इ मुञ्चच्छयनम् । ३.=गमनम् । ४. श भजि । ५. = व्याप्तम् । ६. = मुमोच । ७. मा लङ्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org