________________
चन्द्रप्रमचरितम्
[१०, ६३ - यात्येषा नृवर विभावरी विकीर्ण संवृत्यांशुकमिव धाम तारकाणाम् । चन्द्रऽस्तं जिगमिषति त्वदाननेन्दुं शोभायै जगत इव प्रबोधयन्ती ।।६३।। सिन्दूरद्युतिरिव पूर्वदिक्पुरंध्याः सीमन्तान्तरविसृता विभाति संध्या । मुश्चोर्वीप्रिय शयनं तव स्मितेन व्यामिश्रां दधतु रुचि विभातदीपाः ॥६॥ एतच्च प्रविकसदम्बुजाभिमुख्यं गच्छद्भिभ्रमरगणैर्विमुच्यमानम् । ब्रह्माण्डप्रसृतभवद्यशोजितथि संकोचं कुमुदवनं शुचेव धत्ते ॥६५।। पिङ्गत्वादिव विरहानलप्रलिप्तमोत्सुक्यात्सरप्ति मिलद्रथाङ्गयुग्मम् ।
वक्षोजद्वयमिव नाथ कुङ्कुमाक्तं कामिन्यास्तव हृदयस्थले विभाति ॥६६॥ विज्ञापयामासुः । विद ज्ञाने णिजन्नाल्लिट ।। ६२।। यातीति । नृपवर नृपाणां [ नृवर नृणां ] वर श्रेष्ठ । चन्द्रे सोमे । अस्तम् अस्तपर्वतम् । जिगमिषति गन्तु मच्छति सति । त्वदानने न्दु तव ते आनन मेवेन्दुश्चन्द्रः, तम् । रूपकम् । जगतः लोकस्य। शोभायै शोभानिमित्तम् । प्रबोधयन्तीव निवेदयन्तीव । एषा इयम् । विभावरी निशा स्त्री'। विकीर्ण विस्तीर्ण । तारकानां नक्षत्राणाम् । धाम कान्तिम् । अंशुकमिव वसनमिव । संवृत्य संकोचयित्वा । याति गच्छति । या प्रापणे लट् । उत्प्रेक्षा । ६३।। सिन्दुरेति । उर्वोप्रिय भूपते । पूर्वदिक्पुरंध्याः पूर्व दगेव पुरन्ध्री नारी, तस्याः । रूपकम् । सोमन्तान्तरविस्तृता सोमन्तस्य केशमध्यपद्धतेरन्तरे मध्ये विस्तृता वितता । सिन्दूरद्युतिरिव सिन्दूरस्य चूर्णविशेषस्य द्युतिरिव कान्तिरिव । सन्ध्या प्रभातः । विभाति विराजते । भा दीप्तो लट् । तत: शयनं शय्यातलम् । मुञ्च त्यज । मुल मोक्षणे लोट। तव ते । स्मितेन मन्दस्मितेन । व्यामिश्रां मिलित.म। रुचि कान्तिम् । विभातदीपाः प्रदीपः। दधतु धरन्तु । डुधा धारणे लोट् । उत्प्रेक्षा ॥६४।। एतदिति । प्रविकसदम्बु जाभिमुख्यं प्रविकसतोऽम्बुजस्य कमलस्याभिमुख्यम् । गच्छद्भिः सपद्भिः । भ्रमरगणैः भ्रमराणां मधुकराणां गणै समूहैः । विमुच्यनानं त्यज्यमानम् । ब्रह्माण्डप्रसृतभवद्यशाजितश्रि ब्रह्माण्डेषु लोवेषु, लोक रूढिप्रयोगः, प्रसृतेन व्याप्तेन भवतस्तव यशसा की. जिता विजिता श्रीः शोभा यस्य तत् । एतत् इदम् । कुमुद वनं कुवलयवनम् । शुचे। शोकेनेव । संकोचं मुकुलितम् । ( मुकूलितावस्थाम् ) । धत्ते धरति । उत्प्रेक्षा ।।६५।' पिङ्गत्वादिति । नाथ भो नाथ । पिङ्गत्वात् हेमवर्णत्वात । विरहानलअलिप्तम [ इव ] विरह एव वियोग एवानलो वह्निम्न प्रलिप्तं प्रलिप्तमिव । औत्सुक्यात, सरसि सरोवरे । मिलद्रथाङ्गयुग्मं मिलत्' संयोजत्" रथाङ्गानां चक्रवाकानां युग्मं युगलम् । तव ते । होने की सूचना इस प्रकार दी ॥६२॥ राजन् ! आप सब राजाओं में श्रेष्ठ हैं अब चन्द्रमा अस्त होना चाहता है, अत: जगत्को शोभा बढ़ाने के लिए आपके मुखरूपी चन्द्रमाको जगाती हुई-सी यह रात्रि ताराओंको कान्तिरूपी फैले हुए वस्त्रको लपेटकर जा रही है ॥६३॥ राजन् प्रभातकी सन्ध्या ऐसी जान पड़ती है मानो पूर्वदिशा रूपी सौभाग्यवती नायिकाकी मांगमें भरी हुई सिन्दूरकी द्युति हो । अब आप सेज छोड़िये। ये प्रभातके दीपक आपकी मुसकानसे मिली हुई कान्तिको धारण करें ॥६४॥ राजन सारे ब्रह्माण्ड में फैले हुए आपके यशने जिसकी श्री-शोभा जीत ली है और भौरोंके झुण्ड जिसे छोड़-छोड़कर विकसित कम लोंको ओर चले जा रहे हैं, वह ( पराजित और अपमानित ) कुमुदवन मानो शोकके कारण संकुचित हो रहा हो ॥६५॥ राजन् ! सरोवरमें चक्रवाक और चक्रवाको का युगल बड़ी उत्सुकतासे मिल रहा है। पोले
१. आ 'निशा स्त्रा' इत्यस्य स्थाने 'रात्रिः' इति समुपलभ्यते । २. श भूमि ते । ३. = नागसंभवस्य । सिन्दुरं नागसंभवम्' इत्यमरः । ४. आ चूर्णविलेपस्य । ५. = प्रभातम, प्रगेतना सन्ध्या इति यावत् । ६. श लेट् । ७. श धारणे च लेट् । ८. = सामोप्यम् । ९. = मुकुलितावस्याम् । १०. = संयोगं भजत् । ११. आ संयोजयत् । १२. श चक्रवाकाणां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.