________________
२४५
-१०, ६२]
दशमः सर्गः त्रुटिताप्यतिमात्रसंस्तवान्मणिमालेव गुणैर्विलासिनाम् । रमणोमणितर्मनोहरैः सुरतेच्छा पुनरेव संदधे ॥१९।। सुभगाकृतिसीत्कृतं कलक्वणितं चाटुमनोहरं वचः । दयितासुरतेषु शृण्वता बहु मेने त्रिदिवो न कामिना ॥६॥ इति वृद्धि मिते रतोत्सवे रमयित्वा क्षितिपः शशिप्रभाम् । सुखनिद्रमशेत कोमले शयने तदभुजपाशवेष्टितः ॥६१।। प्रनुभ्य क्षणमथ मङ्गलैकहेतौ विश्रान्ति समुपगते प्रभाततूर्ये ।
यामिन्या विरतिमिति प्रविश्य सूता भूभर्तुः सपदि निवेदयांबभूवुः ॥६२।। इत्यर्थः)। अजनिष्ट अजायत । जनैङः प्रादुर्भावे लुङ् । मनोभुवः मन्मयस्य । चरितं चरित्रम् । वाममहो मनोहरमहो ( अहो वामम् अहो मनोहरम् ) वकं वा । 'वामे ( मो) बके मनोहरे' इत्यमरः । अर्थान्तरन्यासः ।।५८।। त्रुटितेति । अतिमात्रसंस्तवात् अतिमात्रं संस्तवात् परिचयात् । बहुलानुभवात्-इत्यर्थः । 'संस्तवः स्यात् परिचयः' इत्यमरः । मणिमालेव मणीनां रत्नानां मालेव माल्यमिव । त्रुटितापि' छेदिता अपि । विलासिनां कामुकानाम् । सुरतेच्छा निधवनेच्छा । मनोहरैः रुचिरैः । रमणीमणित. रमणोनां वनितानां मणितैगलरवैः । 'मणितं रतिकूजितम्' इत्यमरः । गुणः तन्तुभिः । पुनरव पश्चादेव । संदधे संघटिता ध्रियते स्म वा। सुरतेच्छात्रुटितापि गुणमणिमालेव महिलामणितैः पुनः संघटिता, भूयोऽपि सुरतेच्छाऽजायतइत्यर्थः । उत्प्रेक्षा ।।५९।। सुमगेति । दयितासुरतेषु दयितासु नायिकासु सुरतेषु निधुवनेषु । सुभगाकृति मनोहराकारयुक्तम् । सीत्कृतं सोत्कारम् । कलक्वणितम् अव्यातमनोहररवम् । चाटुमनोहरं चाटुभिः प्रियवचनमनोहरम् । वचः वचनम् । श्रुत्वा आकर्ण्य । कामिना कामुकेन। त्रिदिवः स्वर्गः । बहु महदिति । न मेने न मन्यते स्म । बुधि मनि ज्ञाने कर्मणि लिट् । जातिः ॥६०॥ इतीति । रतोत्सवे, इति एवम् । वृद्धि प्रवृद्धिम् । इते गते सति । क्षितिप: अजितसे नचक्रवर्तो। शशिप्रभां शशिप्रभादेवोम् । रमयित्वा क्रीडयित्वा । कोमले मृदुले। शयने शय्यायाम् । तद्भजपाशवेष्टितः तस्याः शशिप्रभाया भुज एव बाहुरेव पाशो रज्जुस्तेन वेष्टितः । सुखनिद्रं सुखेन संतोषेण युक्ता निद्रा यस्मिन् कर्मणि तत्; इति क्रियाविशेषणम् । अशेत अनिद्रायत । शोङ् स्वप्ने लङ् ।।६१।। प्रक्षुभ्येति । अथ निद्रानन्तरम् । मङ्गलैकहेती मङ्गलस्य एक हेतो मुख्यकारणे । प्रभाततूर्ये प्रभातस्य विभातस्य तूर्ये वाद्यविशेषे। क्षणं क्षणपर्यन्तम् । प्रक्षुभ्य घोषयित्वा । विश्रान्ति विश्रामम् । समुपगते समुपयाते। सूताः मङ्गलपाठकाः । 'क्षत्रियाद् ब्राह्मणीजोऽपि सूतः पारदबन्दिनोः' इत्यभिधानात् । प्रविश्य गत्वा। भूभर्तु : चक्रिणः । यामिन्या: रात्रः । विरति विरामम् । निवेदयांबभूवुः और कचग्रह ( बाल पकड़ना ) आदि चेष्टाएं की। ओह कामदेवका चरित बिलकुल विपरीत है ! ॥५८॥ जिस प्रकार अधिक उपयोगमें आनेसे टूटी हुई मणियोंको माला डोरेसे पुनः जुड़ जाती है उसी प्रकार प्रचुर मात्रामें अनुभव कर लेनेसे विलासियोंकी संभोगकी टूटी हुई ( पूरी हुई ) भो इच्छा नायिकाओंके मुखसे निकले ‘सी, सी, सी,' शब्दोंको सुनते ही पुनः जुड़ गई-उत्पन्न हो गई ॥५६॥ नायिकाओंके साथ सम्भोग करते समय उनके अत्यन्त सुन्दर सीत्कारको, उनके गहनोंके शब्दोंको, और प्रिय और मनोहर वचनोंको सुनकर कामियोंने स्वर्गको भी मामूली या तुच्छ समझा ॥६०॥ इस प्रकार रतोत्सवके बढ़नेपर चक्रवर्ती राजा अजितसेनने अपनी प्रिया शशिप्रभाके साथ संभोग किया फिर कोमल सेजपर उसकी बाहोंसे वेष्टित होकर आरामसे सो गया ॥६१॥ इसके पश्चात् प्रभात होते हो मांगलीक बाजे थोड़ी देर बजकर बन्द हो गये, फिर स्तुति पाठकोंने शोघ्र ही अन्दर प्रवेश करके राजाको रात्रिके समाप्त
१. भा इ संभवात् । २. = अहो वामम् अहो मनोहरम् । ३. = इति धनञ्जयः । ४. आ बहनु । ५. - छिन्ना। ६. श जायदिव । ७. = दयितानां नायिकानां सुरतेषु । ८. श घोषित्वा । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org