SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ -१०,५४] देशमः सर्गः विरहश्वसितोष्णनीरसाधरबिम्बा वनिता समीयुषे । न ददौ क्षणमास्यचुम्बनं दयितायान्यकथाप्रवर्तिनी ।।५।। बहुशः प्रणिपत्य बोधिता प्रियवाग्भिः प्रणयेन मानिनी । स्मरकातरमात्मवल्लभं परिरेभे श्लथवाहुबन्धनम् ।।५२।। परिरम्भभवो वधूवपुःपरिपुष्टिं विदधद्विलासिनाम् । बहुलः पुलकोद्गमोऽगमत्सचिवत्वं दृढनीविमोक्षणे ॥५३।। परिरम्भिणि जीवितेश्वरे विगलत्स्वेदपदेन संततः । सुदृशां हृदयेष्वसंभवन्निव शृङ्गाररसो विनिर्ययो ।॥५४॥ लोलुपं मुखचुम्बने मुखसंयोजने लोलुप लम्पटम् । प्रियं नायकम् । परिरम्भेण आलिङ्गनेम । अजोगमत् गमयति स्म । गम्ल गतौ गिजन्ताल्लुङ् । 'णे: --' इति णि लुक् । 'कं श्रि-' इत्यादिना ङः । तस्मिन् परे ' द्वितुः-' इति द्विः ।।५०।। विरहेति । विरहश्वसितोष्णनोरसाधर बिम्बा विरहेण वियोगेन जातेन श्वसितस्य श्वासानिलस्योष्णेत तापेन नीरसं रसरहितमधरस्योष्ठस्य बिम्बं प्रदेशो यस्याः सा । वनिता रमणी। समयुषे सम् समीपम् इयाय इति समीयिवान् तस्मै, समीपं गताय इत्यर्थः । दयिताय नायकाय । अन्यकथाप्रतिनी अन्यकथायाम् इतरप्रसङ्गे प्रवतिनी प्रवर्तमाना सती। आस्यचुम्बनं मुखचुम्बनम् । क्षणं क्षणपर्यन्तम् । न ददी न ददाति स्म। डुदाज दाने लिट् ।।५१।। बहुश इति । प्रणयेन स्नेहेन । बहुशः बहुलम् । प्रणिपत्य प्रणम्य । प्रियवाग्भिः प्रियाभि: प्रिययुक्ताभिर्वाग्भिर्वचनैः । बोधिता विज्ञापिता । मानिनी वनिता । स्मर कातरं स्मरे कामकेल्यां कातरं तत्परम् । आत्मवल्लभं स्वनायकम् । अश्लयबाहुबन्धनम् अश्लथं दृढं बाहुबन्धनं भुजबन्यो यया भवति तथा । परिरेभे आलिलिङ्ग । रमि रामस्ये लिट् ।।५२।। परिरम्भेति । परिरम्भभवः परिरम्भे आलिङ्गने भा उत्पन्नः । वधूवपुःपरिपुष्टि वध्वाः स्त्रियो वपुषः शरीरस्य परिपुष्टि तुष्टिम् । विदधत् कुर्वन् । बहुल: बहुः । पुलकोद्गमः पुलकस्य रोमाञ्चस्य उद्गम उदयः । दृढ नाविमोक्षणे' दृढस्य गाढस्य विमोक्षणे विमोचने । विलासिनां कामुकानाम् । सचिवत्वं सहायत्वम् । अगमत् अगच्छत् । गम्लु गतौ लुङ् । लुदित्वादङ् ।।५३।। परिरम्मिणीति । जीवितेश्वरे प्राणनायके । परिरम्भिणि आलिङ्गन. शोले सति । संततः व्याप्तः । सुदृशां सु शोभने दृशौ यासां तासाम्, स्त्रोणाम्-इत्यर्थः । हृदयेषु भी एक नायिका, सखीको निकट आती देख लज्जित हो गई। अतः उसने मुख चुम्बनके लिए लालायित अपने पतिको केवल आलिंगनसे ही सन्तुष्ट करके टाल दिया |॥५०॥ विरहसे निकलनेवालो श्वासको गर्मीसे एक नायिकाका होठ नीरस हो गया-सूख गया, अतः निकट आये हुए पतिको उसने कुछ क्षणों तक अपना मुख नहीं चूमने दिया। उस समय उसने और-और बातें छेड़ दी और उन्होंमें अपने पतिको उलझा लिया ॥५१।। एक नायकने बार-बार प्रणाम करके अपनी मानवतो पत्नीको खूब स्नेह पूर्वक मोठे शब्दों में समझाया, जिससे उसने अपने काम पीड़ित पतिको बाहुओंसे बाँधकर गले लगा लिया-गाढ़ आलिंगन किया ॥५२॥ पतिके आलिंगनसे नायिकाओंको अत्यधिक रोमांच हो आया, जिसने उनके शरीरको पुष्ट कर दिया और उनके विलासो पतियोंको उनके नाड़ोंकी दृढ़ गाँठ खोलने में सहायता दो ।।।।५३॥ पतिके १. अ सविधत्वं । २. = विलम्बयति स्म । ३. आ चिणो। ४. आ कल श्रित्यादिना जः । ५. = मधुराभिः । ६. = कातरतान्वितं । ६. आ 'तत्परम्' इति नास्ति । ७. श रभ् । ८. = पोनताम् । ९. आ श दृढविमोक्षणे । १०.= दृढा गाढा या नोविर्वस्त्रग्रन्थिः तस्या विमोक्षणे विमोचन । ११. श विलासिनीनां कामुकीनाम्। १२. श इदित्वादः । १३. मा 'आलिङ्गमशोले सति' इति नोपलभ्यत । १४. आ शोभनी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy