________________
२४१
-१०,५५]
दशमः सर्गः विरहे तनुतामतीव ये दधुरङ्गावयवा नतभ्रुवाम् । प्रियसंगमजन्मभिर्ययुः पुलकैस्ते पुनरेव पीनताम् ।।४२॥ हठकारिणि यावदङ्गनाः प्रतिकूलं क्षणमाचरन्प्रिये । निजशासनभङ्गसेय॑धीरिव तावद्धनुराददे स्मरः ॥४३।। नवसंगमजन्मना हिया नतमूर्नामरविन्दचक्षुषाम् । भयमिश्रमपीयताधरो हठवृत्त्युन्नमिताननः प्रियः ॥४४॥ पतिरङ्गनया न्यषेधि यत्परिरम्भेऽधरपीडनेऽपि वा। विपरीततया मनोभुवस्तदभूद्रागविवृद्धयेऽखिलम् ॥४५ । हतदक्प्रसरा निरन्तरस्तनभारेण ददश नाङ्गना।
वसनं च्युतमप्यधः पतत्प्रियदृष्टयान्वमिमीत केवलम् ।।४६॥ रागिभिः कामिभिः । रतये क्रोडाय । विविक्तं प्रच्छन्नम् । आस्पदं स्थानम् । जगृहे स्वीक्रियते स्म । ग्रह उपादाने कर्मणि लिट् ॥४१॥ विरह इति । नतभ्रुवां नते ध्रुवौ यासां तासां नारीणाम् । ये अङ्गावयवाः शरीरावयवाः । विरहे वियोगे । अतीव अत्यन्तम् । इव शब्दो वाक्यालङ्कारे । तनुतां कृशत्वम् । दधुः धरन्ति स्म । प्रियसङ्गम जन्मभिः प्रियाणां नायकानां सङ्गमे संयोगे जन्मभिजति: पुलकै: रोमाञ्चै.। ते अङ्गावयवाः । पुनरेव पश्चादेव । पीनतां स्थूलत्वम् । ययुः यान्ति स्म। या प्रापणे लिट् ।।४२।। हठकारिणीति । अङ्गनाः वनिताः। हठकारिणि बलात्कारिणि सति । प्रिये नायके। क्षणं क्षणपर्यन्तम् । प्रतिकूलं प्रतीपम् । यावत् यावत्पर्यन्तम् । आचरन आचरन्ति स्म । चर गतौ लङ । तावत्, स्मरः मन्मथः । निजशासनभङ्गसेय॑धीरिव निजस्य स्वस्य शासनस्पाज्ञाया भङ्गेन नाशेन सेा सकोपा धो र्यस्य स इव । धनुः चापम् । आददे आददौ ॥४३॥ नवेति । नवसङ्गमजन्मना नवेन नूतनेन सङ्गमेन जन्मना जातया । हिया लज्जया। नतमनी नता मर्धातो यासां तासाम् । अरविन्दचक्षुषाम् अरविन्दमिव चक्षुषी यासा तासाम् । अधरः ओष्ठः । हठवृत्त्युन्नमिताननैः हठवृत्त्या बलात्कार वृत्त्या उन्नमितमुद्गतं मुखं येषां तैः । प्रियः प्राणनायकैः। भयमिश्र भयसाहितं यथा भवति तथा । अपीयत पीयते स्म। पा पाने मणि ल॥४४॥ पतिरिति । पतिः नायकः। परिरम्भे आलिङ्गने । अधरपीडनेऽपि वा अधरस्थ ओष्ठस्य पोडने बाधने.पि वा। अङ्गनया वनितया। यत यत्कार्यम । न्यषेधि तिरस्क्रियते स्म । मनोभुव: कामस्य । विपरीततया विपरीतत्वेन । तत तत्कार्यम । अखिलं सकलम् । रागविवृद्धये रागस्य विवृद्धये प्रवृद्धये। अभूत् अभवत् । भू सत्तायां लुङ् ॥४५॥ हतेति । निरन्तरस्तनभारेण निरन्तरेण निबिडेन स्तनभारेण स्तनातिशयेन । हतदृवप्रसरा हतः संवृतो दशो: प्रसरो को हुआ और चन्द्रमाका पूर्ण प्रकाश फैल गया, तब रागी युवक अपनी-अपनी प्रियाओंके साथ एकान्त स्थान में चले गये ॥४१।। कामदेवके धनुषकी भाँति नम्र भौं वाली युवतियोके जो अंग विरहके समय अत्यन्त कृश हो गये थे, वे प्रियके समागमसे उत्पन्न हुए रोमांचोंसे पुनः पुष्ट हो गये ।।४२।। पतिके हठ करनेपर ज्योंही युवतियोंने न, न, न, कहकर प्रतिकूल व्यवहार किया त्यों ही कामदेवको मानो अपने शासनको अवहेलना करनेसे उनके प्रति ईर्ष्या उत्पन्न हो गई, फलतः उसने तत्काल ही अपना धनुष उठा लिया ।।४३।। प्रथम समागमके समय युवतियोंने-जिनके नेत्र कमल सरीखे थे-लज्जावश अपने सिर झुका लिये, तब उनके पतियोंने बलात् उनका मुख ऊपर उठाकर अधर पान कर लिया ।।४४।। पतिको आलिंगन अथवा अधरपान में प्रवृत्त होते देख उसकी नायिकाने जो न, न, न कहकर निषेध किया, कामदेव उसके खिलाफ था। फलतः वह सारा निषेध अनुरागको बढ़ानेके लिए हुआ ।।४५।। सघन स्तनोंका व्यवधान पड़ जानेसे नायिकाकी
१. अ क ख ग घ म 'रादधे । २. श ग्रहि । ३. मा प्रतिपथम् । ४. श आदधे दधौ। ५. = जन्म यस्याः सा तया । ६. श नतो मूर्धा । ७.%3D यः।
३१ Jain Education International For Private & Personal Use Only
www.jainelibrary.org