________________
२४ चन्द्रप्रमचरितम्
[९,३७ - रजनीपतिबिम्बदर्शनात्प्रियसङ्गत्वरमाणचेतसाम् । परिवृद्धिमियाय योषितां हृदये कामपि रागसागरः॥३७॥ सुहृदर्थपरैर्महात्मभिन पुनः स्वार्थपरैरुदीयते । यदभूद्रजनीकरोदयः परिवृद्धयै स्मरशक्तिसंपदः ॥३८॥ बभुरौषधयः समन्ततः शिखरे भूमिभृतां ज्वलच्छिखाः। क्षणदाङ्गनयेव दीपिका हरिणाङ्काभिगमे प्रदीपिताः ॥३९॥ निजधामविवृद्धिकारिणी न परं चन्द्रमसा विभावरी । कुमुदिन्यपि भासिता सतां निरपेक्षा हि परोपकारिता ॥४०॥ परिणामिनि यामिनीमुखे हरिणाङ्केच कठोरतेजसि।
जगृहेऽथ विविक्तमास्पदं रतये रागिभिरङ्गनासखैः ॥४१॥ भा दीप्ती लिट् । उत्प्रेक्षा ॥३६॥ रजनीति' । रजनोपतिबिम्बदर्शनात् रजनीपतेश्चन्द्रस्य बिम्बस्य मण्डलस्य दर्शनात् विलोकनात् । प्रियसङ्गत्वरमाणचेतसां प्रियस्य धवस्य सङ्गमे संसर्गे त्वरमाणमुत्सुकं चेतो यासां तासाम् । योषितां वनितानाम् । हृदये चेतसि । रागसागरः राग एव सागरः समुद्रः । कामपि परिवृद्धि प्रवृद्धिम् । इयाय याति स्म । इण् गतौ लिट् । रूपकम् ॥३७॥ सुहृदिति । महात्मभिः महापुरुषः । सुहृदर्थपरैः सुहृदो मित्रस्यार्थे प्रयोजने परैः तत्परैः । उदीयते ऐश्वर्य प्राप्यते । स्वार्थपरैः स्वप्रयोजनतत्परैः । पुनः पश्चात् । न नोदीयते । यत् यस्मात् । रजनीकरोदयः रजनीकरस्य चन्द्रस्योदयः । स्मरशक्तिसंपदः स्मरस्य मन्मथस्य शक्तः सामर्थ्यस्य सम्पदः संपत्तेः। परिवृद्धयै परिवर्धनाय । अभूत् अभवत् । भू सत्तायां लुङ् ॥३८॥ बभुरिति । भूमिभूतां पर्वतानाम् । शिखरे शृङ्गे । समन्ततः सर्वतः । ज्वलच्छिखा ज्वलन्ती शिखा यासां ताः। औषधयः काष्ठज्योतिषः । हरिणाङ्काभिगमे हरिणाङ्कस्य चन्द्रस्याभिगमे आगमे । क्षणदाङ्गनया क्षणदेव रात्रिरेवाङ्गना स्त्री तया। प्रदीपिताः प्रज्वलिताः। दीपिका इव प्रदीपा इव । बभुः भान्ति स्म । भा दीप्तो लिट । उत्प्रेक्षा ॥३९।। निजेति । चन्द्रमसा चन्द्रेण । परं केवलम् । निजधामविवद्धिकारिणो निजधाम्नः स्वकिरणस्य विवृद्धि प्रवृद्धि करोतीत्येवं शीला तथोक्ता । विभावरी रात्रिः । न भासिता न प्रकाशिता। किन्तु, कुमुदिन्यपि कुवलयषण्डमपि भासिता-इत्यर्थः । सतां सत्पुरुषाणाम् । परोपकारिता परोपकारित्वम् । निर हि अपेक्षारहिता हि । अर्थान्तरन्यासः ॥४०॥ परिणामिनीति । यामिनीमुखे यामिन्या रामखे प्रारम्भे । परिणामिनि परिपाकवति । हरिणाङ्केऽपि चन्द्रेऽपि । कठोरतेजसि कठोरं सम्पूर्ण तेजः किरणो यस्य तस्मिन्, सति । अथ अनन्तरम् । अङ्गनासखैः अङ्गना एव वनिता एव सख्यो येषां तैः ‘राजन् सखेः' इति अट् । उसे रोमांच हो रहा हो ॥३६॥ जो नायिकाएँ प्रिय समागमके लिए भीतरसे उतावली हो रही थीं, उनके हृदयमें, चन्द्रबिम्बको देखते ही रागका सागर उमड़ पड़ा। उस समय उसमें जो वृद्धि हुई, वह अनिर्वचनीय है ॥३७।। महात्मा अपने मित्रोंके उपकारके लिए अवतरित होते हैं, न कि अपने स्वार्थको सिद्ध करनेके लिए। इसोलिए चन्द्रमाका उदय कामदेवको शक्तिरूपी सम्पत्तिके बढ़ानेके लिए हुआ ॥३८॥ पर्वतोंकी चोटियोंपर चारों ओर जड़ी बूटियाँ जगमगाने लगीं, उनसे लौ निकलने लगी । अतएव ऐसा प्रतीत होने लगा मानो चन्द्रमाके शुभागमनके अवसरपर उसकी रात्रि रूपी प्रियाने छोटे-छोटे दीपक जला कर रख दिये हों ॥३९।। चन्द्रमाने अपने प्रकाशको बढ़ानेवाली न केवल रात्रिको, वरन् कुमुदिनीको भी सुशोभित कर दिया। सज्जनोंकी परोपकारको प्रवृत्ति निश्चय हो निःस्वार्थ होती है ॥४०॥ रात्रिका पहला भाग जब समाप्त होने: .. १. श रजनोपतीति । २. = पत्युः। ३. = अनिर्वचनीयाम् । ४. = समागमे । ५. = प्रज्वालिताः प्रबोधिता वा । ६. = स्वकिरणानां । ७. = कुमुदत्यपि । ८. = अङ्गनानां सखायोऽङ्गनासखाः, तैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org