SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ - १०, ३६] दशमः सर्गः हिमरश्मिकरापसारिते तिमिरे काण्डपटस्फुटोपमे। रुरुचेऽम्बरकुट्टिमस्थितैः सितपुष्पप्रकरैरिव ग्रहैः ॥३३।। रजनीपतिना प्रतर्जितं करकुन्तैर्भुवनान्तवति यत् । प्रविवेश वियोगिनीमनःस्विव मूर्छाकृतकेन तत्तमः ॥३४॥ क्षणदानिलभासुरीभवद्विरहाग्निज्वलितेन चेतसा। वनिताभिरचिन्ति चित्तभूशरशाणाकृति चन्द्रमण्डलम् ।।३५।। शिशिरांशुकराभिमर्शनाद्रजसाविर्भवता समन्ततः । मकरन्दमयेन निर्बभाविव निर्यत्पुलका कुमुदती ॥३६।। ताडनेन । उद्धरति स्म उद्धृतवान् । रूपकम् ॥३२॥ हिमेति । काण्डपटस्फुटोपमे काण्डपटेन जवनिकापटेन स्फुटं व्यक्तमुपमा समानं यस्य तस्मिन् । तिमिरे तमसि । हिमरश्मिकरापसारिते हिमरश्मेश्चन्द्रस्य करेण किरणेन अपसारिते निवारिते । अम्बरकुट्टिमस्थितैः अम्बरमेवाकाशमेव कुट्टिमम् अङ्गणं, तस्मिन् स्थितैः । सितपुष्पप्रकरैरिव सितानां शुभ्राणां पुष्पाणां कुसुमानां प्रकरैरिव समूहैरिव । ग्रहः नक्षत्रैः । रुरुचे दिदीपे । रुचि दीप्ती भावे लिट् । उत्प्रेक्षा ॥३३॥ रजनीति । भुवनान्तवति भुवनस्यान्ते मध्ये वति वर्तमानम् । रजनीपतिना सोमेन । करकुन्तैः करा एव कुन्ताः कुन्तायुधानि, तैः । प्रतजितं भसितम् । यत् तमः तिमिरम् । तत्, मूर्छाकृतकेन मूर्छा इति कृतकेन व्याजेन । वियोगिनीमनःसु वियोगिनीनां विरहिणीनां मन.सु चित्तेषु । प्रविवेश इव अन्तर्गत ( तम् ) इव । विश प्रवेशने लिट । उत्प्रेक्षा ॥३४॥ क्षणदेति । क्षणदानिलभासुरीभवद्विरहाग्निज्वलितेन क्षणदेव रात्रिरेवानिलो वायुः तेन भासुरीभवतः प्रकाशनीभवतः अग्ने प्रज्वलितेन संतापितेन (क्षण दा रात्रिः तस्या अनिलो वाय स्तन भासरीभवन प्रज्वलन विरहाग्निवियोगानलस्ते संधुक्षितेन )। चेतसा चित्तेन । वनिताभिः सुन्दरीभिः । चन्द्रमण्डलं चन्द्रस्य मण्डलं बिम्बम् । चित्तभूशरशाणाकृति चित्तभुवो मन्मथस्य शरस्य बाणस्य शाणस्य आकृति यस्य तत् । इति, अचिन्ति चिन्त्यते स्म । चितै संज्ञाने कर्मणि लुङ् । उत्प्रेक्षा । ३५।। शिशिरेति । शिशिरांशुकराभिमर्शनात् शिशिरांशोश्चन्द्रस्य कराणां किरणानामभिमर्शनात् स्पर्शनात् । मकरन्दमयेन पुष्परसमयेन । समन्ततः परितः आविर्भवता प्रकटीभवता । रजसा धूल्या । कुमुद्वती कुमुदिनी । निर्यत्पुलकेव निर्यन् निर्गच्छन् पुलको यस्याः सा इव । निर्बभौ भाति स्म। किरणोंकी संसीसे पकड़कर निकाल दिया ॥३२॥ चन्द्रमाने अपने कर (किरण, हाथ) से पर्दे सरीखे अन्धकारको हटा दिया तो आकाश रूपी फर्श या रंगमंचपर स्थित नक्षत्र (पुष्प शशिकी भाँति सुशोभिन होने लगे ॥३३।। चन्द्रमाने अपनी किरणोंके भालोंसे जगत्के अन्दरके जिस अन्धकारका तर्जन किया, वह मू के बहाने विरहिणियोंके हृदय में जा घुसा ॥३४॥ रात्रिको वायुसे विरहाग्नि प्रज्वलित हो उठी और उससे विरहिणियोंका हृदय जलने लगा। इस अवसर पर विरहिणियोंने चन्द्रमण्डलको कामदेवके बाणोंको तेज करनेवाले शाण (सान) के आकार में देखा-चन्द्रमा उन्हें सान-सा प्रतीत हुआ ॥३५॥ चन्द्रमाकी किरणों (अथ च हाथों) के स्पर्शसे कुमुदिनीके चारों ओरसे सरस पराग निकलने लगा, जिससे वह ऐसी जान पड़ने लगो मानो १. क ख ग घ म कूट्रिमं स्थितः। २. अ शिरसाणीकृत। ३. =साम्यम् । ४. -हस्तेनेति ध्वन्यर्थः । ५. मा रुच। ६.= भुवनस्यान्ते मध्ये वर्तत इति भुवनान्तर्वति । ७. श विरहिणां। ८. श प्रकाशिनी । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy