________________
चन्द्रप्रमचरितम्
तिमिरेभमदुर्न हिंसितुं शशिसिंहाय गुहाश्रितं नगोः । शरणागतरक्षणं सतां नहि जातु व्यभिचारमेष्यति ॥२६॥ विबभावधि रोहदम्बरे विधुबिम्बं क्षणमुद्गमारुणम् । जनयद्धरिदिग्वधूजपाकुसुमापीडवितर्कमङ्गिनाम् ||३०|| समभूत्सुखिचक्रवाकयोमिथुनं संगमहृष्टमह्नि यत् । निशि तद्विरहार्तिविह्वलं धिगिमां दग्धविधेर्विडम्बनाम् ||३१|| यदधुः प्रिय कोपधूपिते हृदि मानग्रहशल्यमङ्गनाः । विधुरुद्धरति स्म दुर्धरं करसंदंशकताडनेन तत् ॥ ३२ ॥
२३८
वा ( उत्प्रेक्षा ) ॥२८॥ तिमिरेभेति' । नगाः पर्वताः । गुहाश्रितं गुहां गह्वरमाश्रितं ' सेवितम् । तिमिरेभं तिमिरमेवेभः करी तम् । शशिसिहाय शश्येव सिंहो मृगेन्द्रः तस्मै । हिंसितुं हन्तुम् । नादुः न ददति स्म । डुदान् दाने लुङ् । शरणागतरक्षणं शरणं रक्षणमागतानां रक्षणं पालनम् । सतां सत्पुरुषाणाम् । जातु एकवारमपि । व्यभिचारं व्यत्ययम् । नेष्यति हि न यास्यति हि । इण् गतो लट् । अर्थान्तरन्यासः ||२९||
।
1
भाविति । क्षणं क्षणपर्यन्तम् । उद्गमारुणम् उद्गमे उदयेऽरुणं लोहितम् । अम्बरे गगने । अधिरोहत् आरोहत् । विधुबिम्बं विधोश्चन्द्रस्य बिम्बं मण्डलम् । अङ्गिनां जनानाम् । हरिदिग्वधूजपाकुसुमापीडवितर्क हरिदिगेव इन्द्रदिगेव वधूर्वनिता तस्या जपाकुसुमेन जपापुष्पेण रचित आपीड शेखर इति वितर्कमाशङ्काम् । जनयत् उत्पादयत् सत् । विबभौ भाति स्म । भा दीप्तो लिट् । संशयः ||३०|| समभूदिति । सङ्गमहृष्टं सङ्गमेन संसर्गेण हृष्टं संतुष्टम् । यत्, चक्रवाकयोः कोकपक्षिणोः । मिथुनं द्वन्द्वम् । अह्नि दिवसे । सुखि सुखयुक्तम् । समभूत् समभवत् । भू सत्तायां लुङ् । तत्, निशि निशायाम् । विरहार्तिविह्वलं विरहस्य वियोगस्यार्त्या पीडया बिह्वलं मूच्छितम् । अभूत् । दग्धविधेः धूर्तपापस्य । इमाम् एनाम् । विडम्बनां तिरस्कृतिम् । धिक् । ' हा धिक् समया' इत्यादिना द्वितीया ॥ ३१ ॥ यदिति । अङ्गनाः वनिताः । प्रियकोपधूपिते प्रिये नायके विद्यमानेन कोपेन धूपिते संतापिते । हृदि हृदये । यत्, मानग्रहशल्यं मानस्य गर्वस्य ग्रह एव स्वीकार एव शल्यं शङ्कुम् । अधुः घरन्ति स्म । विधुः चन्द्रः दुर्धरं धर्तुमशक्यम् । तत् करसंदंशकताडनेन कर एव किरण एव संदेशकस्य ( संदंशः कङ्कमुखः तस्य । संदंश्यते तप्तहेमादि येन स संदंश: । ) तप्तलोह ग्राहकस्य प्रवेश किया ||२८|| पर्वतोंने अपनी गुफा की शरण आये अन्धकार रूपी हाथीको मारनेके लिए चन्द्रमा रूपी सिंहके हवाले नहीं किया; क्योंकि शरणागतको रक्षा करना सज्जनोंका व्रत है, जो कभी अन्यथा नहीं हो सकता - चन्द्रमाने गुफाओंके अन्धकारको छोड़कर बाहरके अन्धकारको हटा दिया ॥ २९ ॥ उदयकालीन लाल चन्द्रमा जब आकाशमें चढ़ रहा था, बड़ा ही सुन्दर प्रतीत हो रहा था । उस समय वह दर्शकों के मन में यह तर्क उत्पन्नकर रहा था कि यह ( चन्द्रमा) इन्द्रकी दिशारूपी नायिकाका कहीं जपापुष्पका शिरोभूषण तो नहीं है ||३०| चकवा चकवीका जो जोड़ा दिनमें एक साथ रहनेसे सुखी रहा, वही रात में एक दूसरे के विरहसे बेचैन हो उठा । निठुर विधाताकी इस विडम्बनाको धिक्कार है ||३१|| पतिके ऊपर उत्पन्न हुए क्रोधकी अग्निसे सन्तप्त अपने हृदय में मानवती ( रूठकर बैठी हुई) नायिकाओंने जिस मानके hi या कीलको ठोक लिया था, वह रात्रिके समय दुर्धर हो गया, पर उसे चन्द्रमाने अपनी
[ १०, २९ -
,
Jain Education International
१. आश तिमिति । २ = प्राप्तम् । ३. = व्याकुलम् । ४. = निष्ठुर दैवस्य । ५. आ तिरस्क्रियाम् । ६. आ 'स्वीकार एव' इति नोपलभ्यते । ७ श 'तत्' इति नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org.