________________
- १०, २८ ]
दशमः सर्गः
अपहन्ति नरो निसर्गजानपि दोषान्गुणवन्तमाश्रितः । नमसा हि हिमांशु संगमादपनीतं मलिनत्वमात्मनः ||२५|| उदितेन पयोधिरिन्दुना परमां कोटिमनीयतोन्नतेः । महतां हि परोपकारिता सहजा नाद्यतनी मनागपि ॥ २६ ॥ विकसत्कुमुदाकरं सरः प्रकटोडुप्रकरं नभःस्थलम् । द्वयमाप परस्परोपमां करजाले शशिनः प्रसंपति ||२७|| रजनी तमसान्त्यजातिना परिमृष्टा घनवर्त्मवर्त्मनि । प्रविधातुमिवात्मशोधनं निममज्जेन्दुमहोमहाहदे ||२८||
२३७
अलङ्कारः । अभूत् अभवत् । भू सत्तायां लुङ् । उत्प्रेक्षा || २४|| अपहन्तीत्यादि । हिमांशुपङ्गमात् हिमांशोश्चन्द्रस्य सङ्गमात् संसर्गात् । नभसा गगनेन । आत्मनः स्वस्य । मलिनत्वं मलीमसत्वम् । अपनीतं निराकृतम् । गुणवन्तं गुणिनं पुरुषम् । आश्रितः समुपयातः । नरः पुरुषः । निसर्गजान् स्वभावजनितान् । दोषानपि पापान्यपि । अपहन्ति नाशयति । हन हिसागत्योः कर्तरि लट् । अर्थान्तरन्यासः ||२५|| उदितेनेति । उदितेन उदेति स्म उदितः तेन उदयं गतेन । इन्दुना सोमेन । पयोधिः समुद्रः । उन्नतेः महत्त्वस्य । परमाम् उत्कृष्टाम् । कोटिं भागम् । अनीयत े अयायत । गोन् प्रापणे कर्मणि लङ् । 'दुहि याचि -' इत्यादिना द्विकर्मकः । महतां सताम् । परोपकारिता परेषां सर्वेषामुपकारितामुपकारित्वम् । सहजा निसर्गजनिता । हि मनागपि ईषदपि । न अद्यतनी अद्यभवा न । ' सायम् -' इत्यादिना तनट् । 'टिट्ठण्ढे -' इत्यादिना ङो । अर्थान्तरन्यासः ||२६|| विकसदिति । शशिनः चन्द्रस्य । करजाले कराणां किरणानां जाले समूहे । प्रसर्पति प्रसरति सति । विकसत्कुमुदाकरं विकसन् कुमुदानां कुवलयानामाकरो निवहो यस्मिन् तत् । सरः सरोवरः । प्रकटोडुप्रकरं प्रकटः प्रादुभर्वन् उडूनां नक्षत्राणां प्रकरो निवहो यस्मिन् तत् । नभस्तलं नभस आकाशस्य तलं प्रदेशः । द्वयं सरोवरनभस्तलयोर्द्वयम् । परस्परोपमाम् अयोग्योपमाम् । आप याति स्म । आप्लु व्याप्तौ लिट् । उपमा ||२७|| रजनीति | घनवर्त्मवर्त्मनि घनवत्मैव गगनमेव वर्त्म मार्गः तस्मिन् आकाशमार्गे - इत्यर्थः । तमसा तिमिरेण । अन्त्यजातिना चाण्डालेनौं । परिमृष्टा परिस्पृष्टा । रजनी रात्रिः स्त्री । आत्मशोधनम् आत्मनः स्वस्य शोधनं शुद्धिम् । प्रविघातुमिव कर्तुमिव । इन्दुमहोमद्दाहदे इन्दोरचन्द्रस्य महः कान्तिः तदेव महति ह्रदे ( महाहृदः, तस्मिन् ) सरोवरे । निममज्ज स्नाति स्म । डुमस्जी शुलो लिट् । रूपकं परिणामो
७
वह कुमुदिनी रूपी नायिकाका चन्द्रमाके समागमके समय तिलक बन गया ||२४|| ' गुणवान्का आश्रय पानेवाला पुरुष अपने स्वाभाविक दोषों को भी छोड़ देता है' यह बिलकुल सच है, क्योंकि आकाशने चन्द्रमाका संसर्ग पाकर अपनी स्वाभाविक मलिनताको छोड़ दिया ||२५|| चन्द्रमाने उदित होकर समुद्रको उन्नतिको चरम सीमा में पहुँचा दिया। इसका एकमात्र कारण है महान् पुरुषों की स्वाभाविक परोपकार करनेकी प्रवृत्ति, जो अंशत: भी आजकी नहीं मानी जा सकती ॥२६॥ चन्द्रमाकी किरणोंके फैलनेपर सरोवर - जिसमें कुमुदोंका समूह खिल उठा और आकाश — जिसमें नक्षत्र मण्डल प्रकट हो गया, ये दोनों बिलकुल एक सरीखे हो गये ||२७|| चन्द्रोदय के पहले अन्धकार रूपी चण्डालके द्वारा रात्रि रूपी स्त्री आकाशमार्गमें छूली गई थी, मानो इसीलिए अपनेको शुद्ध करनेके लिए उसने चन्द्रमा प्रकाश रूपी बहुत बड़े जलाशय में
१. क ख ग व म प्रविवेशेन्दु । २. = नीतः । ३. आ अयास्ययत । ४. आ ङीप् । ५. श कमलानाम् । ६. आ चण्डालेन । ७. आ डुमज्जा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org