SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २३६ चन्द्रप्रमचरितम् घनवीथिरथं क्षपापतावधिरूढे धृतधामधन्वनि । उपभुक्तनिशं तमो भयात्परदारग्रहजादिवाद्रवत् ।२।। विगलत्तिमिरावगुण्ठनामुडुधर्मोदकबिन्दुसंभृताम् । दहशुः शिशिरांशुसंगमे सुरतस्थामिव शर्वरी जनाः ॥२२।। भवतीह विनापि हेतुना घटना कस्यचिदेव केनचित् । विकसद्भिरिति स्फुटाकृतं कुमुदैरेव निशाकरोदये ॥२३।। प्रविकासिनि यन्न्यलीयत भ्रमरीणां कुमुदानने कुलम् । तिलकं तदभूत्प्रसाधनं कुमुदिन्यास्तुहिनांशुसंगमे ।।२४।। गम्ल गतौ लिट् । उत्प्रेक्षा ।।२०॥ धनेति । धृतधामधन्वनि धामैव किरण ( णाः ) एव धनुः तथोक्तम्, धृतं भृतं च तद् धामधनुश्च तथोक्तम्, धृतधामधनुरस्यास्तीति धृतधामधन्वा तस्मिन् क्षमापती निशापती, चन्द्रे-इत्यर्थः। घनवीथिरथं घनस्य मेघस्य वीथिः, गगनम-इति भावः, घनवोथिरेव रथः, तम् । रूपकम् । अधिरूढे सति । उपभुक्तनिशम् उपभुक्तानुभूता निशा रात्रिर्येन तत् । तमः तिमिरम् । परदार ग्रहजात् परदाराणां परस्त्रीणां ग्रहजाद् ग्रहणेन जातात् । भयादिव भीतेरिव । अद्रवत् अधावत् । द्रु गतौ लङ् । उत्प्रेक्षा ॥२१॥ विगलदिति । शिशिरांशसङ्गमे शिशिरांशोश्चन्द्रस्य सङ्गमे संसर्गे । विगलत्तिमिरावगुण्ठनां विगल द् विगच्छत् तिमिरमेव तम एवावगुण्ठनं वस्त्रं यस्याः ताम् । उडुधर्मोदकबिन्दुसंभृताम् उडूनि नक्षत्राणि तान्येव धर्मस्य स्वेदस्योदकं जलं तस्य बिन्दवस्तान् संबिति स्म उडुधर्मोदकसंभृता, ताम् शर्वरों रात्रिम् । जनाः लोकाः। सुरतस्यामिव निधुवनस्थामिव । ददृशुः पश्यन्ति स्म । दृशृ प्रेक्षणे लिट् । उत्प्रेक्षा ॥२२॥ मवतीति । इह जगति । हेतुना विनापि कारणेन विनापि । कस्यचिदेव वस्तुन एव । केनचित् वस्तुना साकम् । घटना सम्बन्धः। भवति जायते । निशाकरोदये निशाकरस्य चन्द्रस्योदये। विकसद्भिः । कुमुदैरेव कैरवैरेव । इति एवम् । स्फुटींकृतं व्यक्तीकृतम्। कुमुदैः सह संबन्धः कुमुदानां विकसनेनैव व्यक्तीकृत इत्यर्थः । अनुमितिः ॥२३॥ प्रविकासिनीति । प्रविकासिनि विका ( क) सनशीले । कुमुदानने कुमुदमेवाननं तथोक्तं, तस्मिन् । भ्रमरीणां'- मधुकरीणाम् । कुलं समूहः । न्यलीयत्” न्यपतत् । लोङ् श्लेषणे कर्मणि लट् । तुहिनांशुसङ्गमे तुहिनांशोश्चन्द्रस्य सङ्गमे संसर्गे। कुमुदिन्याः" कुमुदषण्डस्य कुमुदिनीजातिः ( तेः ), स्त्रिया इति ध्वनिः । तत् भ्रमरीकुलम् । तिलकं तिलकम्- इति नाम । प्रसाधनम् रक्तसे रंजित हो गया हो ॥२०॥ अपना प्रकाश या प्रभाव रूपी धनुष (और किरण रूपी बाण) लेकर ज्यों ही रात्रिका पति-चन्द्रमा आकाश रूपी रथपर सवार हुआ, त्यों ही रात्रिका उपभोग करनेवाला अन्धकार मानो परनारी भोगनेके भयसे भाग गया-चन्द्रोदय होते ही अन्धकार नष्ट हो गया ॥२१॥ चन्द्रमाका संगम होते ही रात्रि रूपी नायिकाका अन्धकार रूपी घूघट उतर गया और उसके ऊपर नक्षत्र रूपी पसीनेके बिन्दु दृष्टिगोचर होने लगे। अतएव दर्शकोंको वह ऐसी प्रतीत हो रही थी मानो वह सुरतमें निरत हो ॥२२॥ चन्द्रोदय होनेपर केवल रात्रि विकासी कमल हो विकसित हुए ( न कि दिन में खिसकनेवाले कमल), जिन्होंने मानो यह स्पष्ट बतला दिया कि इस संसार में किसीका किसीके साथ बिना किसी कारणके भी (स्वाभाविक) सम्बन्ध होता है ॥२३॥ विकसित कुमुद रूपी (कुमुदिनीके) मुखपर जो भौंरोंका झुण्ड जा बैठा, १. क ख ग घ म भ्रमराणां। २. = धृतं धामैव धनुर्यन, तस्मिन् । ३. श द्रु सु (स्र) गतो। ४. श संसर्गे' इति नोपलभ्यते। ५. = उडून्येव धर्मोदबिन्दवः तै: संभृतां व्याप्ताम् । ६. आ दृशिर । ७. = कस्यचिद्वस्तुन एव । ८. भा 'साकम्' इति नास्ति । ९. = स्फुटद्भिः। १०. श कुमुदैरिव कैरवैरिव । ११. श 'व्यक्तीकृतम्' इति नोपलभ्यते । १२. आ भ्रमराणां । १३. श व्यली यत् । १४. = कुमुद्वत्याः । १५. अ भ्रमरं । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy