________________
२१५
-१०,२०1
दशमः सर्गः विसरन्बिस तन्तुनिर्मलो विबभासेऽथ नभः पयोनिधौ। निकरो रजनीपते रुचामिव मुक्ताफलरोचिषां चयः ।।१७।। प्रसृतालकतुल्यलाञ्छनातिरद्रयन्तरितार्धमण्डलः । व्रजति स्म ललाटपट्टतां क्षणमात्रं बलभिद्दिशः शशी ॥१८॥ विदधत्तिमिरं तिरोहितं करजालैगंगनान्तगामिभिः। अभवद्रजनीकरः क्रमादुदयाद्रीन्द्रशिरः शिखामणिः ।।१६।। उदयाद्रिशिरः श्रितः शशी शशमन्तर्गतमाजिघांसुना। तमसा शबरेण सायकैरिव विद्धोधिजगाम रक्तताम् ।।२०।।
युजन योगे भावे लङ् । उत्प्रेक्षा ॥१६॥ विसरन्निति । अथ सूर्यास्तमया ( ना ) नन्तरम् । बिसतन्तुनिर्मल: बिसस्य कमलस्य तन्तुरिव निर्मल: शुभ्रः । विसरन् प्रसरन् । रजनीपतेः निशाकरस्य । रुचां कान्तीनाम् । निकरः, नमःपयोनिधो समुद्रे । मुक्ताफलरोचिषां मुक्ताफलानां मुक्तामणीनां रोचिषां कान्तीनाम् । चय इव निवह इव । विबभासे भासते स्म । भासृ" दीप्ती लिट् । उत्प्रेक्षा ॥१७ । प्रसृतेति । प्रसृतालकतुल्यलाञ्छनद्युतिः प्रसृतस्य विसृतस्यालकस्य चूर्णकुन्तलस्य तुल्या समाना लाञ्छनस्य द्युतिः कान्ति र्यस्य सः । अद्रयन्तरिता. धमण्डल: अद्रिणा पूर्वपर्वतेनान्तरितं व्यवहितं मण्डलस्य बिम्बस्यार्धम् अर्धमण्डलं यस्य सः । शशी चन्द्रः । क्षणमात्रं क्षणपर्यन्तमेव । बलभिदिशः बलभिद इन्द्रस्य दिशः। ललाटपट्टतां ललाटस्य पढ़ता प्रदेशत्वम् । व्रजति स्म गच्छति स्म । व्रज गती लट् । उत्प्रेक्षा ॥१८॥ विदधदिति । गगनान्तगामिभिः गगनस्याकाशस्यान्तमव. सनं गामिभिः गमनशीलः। करजालैः कराणां किरणानां जालैः समूहैः। तिमिरं तमः । तिरोहितं व्यवहितम् । विदधत् कुर्वन् । रजनीकरः निशाकरः । क्रमात् परिपाट्याः। उदयाद्रीन्द्रशिरःशिखामणिः उदयाद्रीन्द्रस्य उदयपर्वतेन्द्रस्य शिरसो मस्तकस्य शिखामणिश्चूडामणिः । अभवत् अभूत् । भू सत्तायां लङ् । उपमा ॥१९॥ उदयेति । उदयाद्रिशिर:श्रितः उदयाद्रेरुदयपर्वतस्य शिरः शिखरं श्रित आश्रितः। शशी चन्द्रः । अन्तर्गतम् अन्तर्मध्यं गतं यातम् । शशं शशमृगम् । आजिघांसुना हन्तुमिच्छना। तमसा तिमिरेण । शबरेण व्याधेन । सायकैः बाणैः । विद्ध [ इव ] वेधित इव । रक्ततां लोहितत्वम् । निजगाम [ अधिजगाम ] ययौ ।
हो गये हों। फिर वे विछुड़ गये ॥१६॥ इसके पश्चात् सभी ओर फैलनेवाला, कमलदण्डके तन्तुओंके समान निर्मल, चन्द्रमाकी किरणोंका समूह सुशोभित होने लगा, जो ऐसा जान पड़ता था मानो आकाशरूपो समुद्रमें मोतियोंकी किरणोंका समूह हो ॥१७॥ चन्द्रमा दृष्टिगोचर होने लगा। उसका आधा भाग उदयाचलकी ओटमें छिपा हुआ था, और आधा उसके ऊपर देख पड़ता था, जो थोड़ी देर तक इन्द्रको दिशा (पूर्व) रूपी नायिकाके ललाटकी छविको धारण कर रहा था, और उसमें काला धब्बा विखरे केशपाशकी सुषमाको व्यक्त कर रहा था ॥१८॥ आकाशमें सभी ओर जानेवाली किरणोंसे अन्धकारको दूर करता हुआ चन्द्रमा धीरे-धीरे उदयाचलके सिर-शिखरपर, पूरा-का-पूरा पहुँच गया, और वहाँ वह उसका चूडामणि बन गया ।।१९।। चन्द्रमा उदयाचलके शिखरपर पहुँच गया। वहाँ वह बिल्कुल रक्तवर्ण हो गया, जिससे ऐसा प्रतीत होता था मानो अन्धकार रूपी भीलने उसके भीतर स्थित खरगोशको मारनेके लिए जो बाण मारे थे, उनसे वह स्वयं घायल हो गया हो, और घावसे निकलनेवाले
१. आ विवशन्।ि २. आ युजिर । ३. = कमलदण्डस्य मृणालस्य । ४. = आकाशसमुद्रे । ४. श भासृञ् । ५. = फलकत्वम् । ६. गच्छन्तीत्येवं शोलानि, तैः। ७. = क्रमतः । ८. = 'शशस्तु मृदुलोमकः'
इति हैमः । १०. आ जगाम । Jain Education International For Private & Personal Use Only
www.jainelibrary.org |