________________
चन्द्रप्रमचरितम् न जहाति पुमान्कृतज्ञतामसुभङ्गेऽपि निसर्गनिर्मलः । रविणा गमितः समुन्नति सह तेनास्तमियाय वासरः ॥१३।। गुणवान्समुपैति सेव्यतां गुणहीनादपरज्यते जनः । दिवसापगमे मलीमसं कमलं पश्य समुज्झितं श्रिया ॥१४॥ ककुभां विवरेषु तारका विहतध्वान्तलवाश्चकासिरे । गलिता इव मित्रविप्लवे गगनस्योग्रशुचोऽश्रुबिन्दवः ॥१५॥ गलिताश्रुभिरातनिःस्वनैर्बहलध्वान्तमषीमलीमसैः।
विरहानलधूमधूसरैरिव चक्रायुगैर्व्ययुज्यत ।।१६।। 'गैत्योः' इति गादेशः । उत्प्रेक्षा ॥१२॥ नेति । रविणा सूर्येण । समुन्नति महोन्नतिम् । गमितः प्रापितः । वासरः दिवसः । तेन सूर्येण । सह साकम् । अस्तं नाशम् । इयाय जगाम । इण गतो लिट् । निसर्गनिर्मल: निसर्गेण स्वभावेन निर्मको मलरहितः। पुमान् पुरुषः। असुभङ्गेऽपि असूनां प्राणानां भङ्गेऽपि नाशेऽपि । कृतज्ञताम् उपकारस्मरणत्वम् । न जहाति न त्यजति । ओहाक् त्यागे लट् । अर्थान्तरन्यासः ॥१३।। गुणवानिति । गुणवान् गुणसहितः । जनः लोकः। सेव्यतां पूज्यताम् । समुपैति संयाति । गुणहीनात् गुण_नाद् रहितात् । अपरज्यते अपसरति । रज्जु रागे लट् । लोके गुणवान् जनो गुणवन्तमाश्रित्य पूज्यतामुपयाति, स एव गुणहोनमाश्रित्य स्वगुणान् त्यजते (ति) इत्यभिप्रायः । दिवसामपगमे दिवसस्य दिनस्य । अपगमे नाशे । मलोमसं मलसंयुक्तम् । श्रिया शोभया । समुज्झितं रहितम् । कमलं नलिनम् । पश्य दिलोकय । दृशृ प्रेक्षणे लोट । 'पा घा-' इत्यादिना पश्यादेशः। दृष्टान्तः॥१४ । ककुमामिति । ककुभां दिशाम्। विवरेषु भागेषु । विहतध्वान्तलवा: विहता निरस्ता ध्वान्तस्य तमसो लवाः कणा यासां ताः तथोक्ताः। तारकाः नक्षत्राणि । मित्रविप्लवे मित्रस्य सूर्यस्य विप्लवे नाशे, मित्रस्य सुहृदो विप्लवे नाशे च । श्लेषः । गगनस्य आकाशस्य। उग्रशुचा उग्रया तीव्रया शुचा शोकेन । अश्रबिन्दवः अश्रुणो नयनोदकस्य बिन्दवः कणाः । गलिता इव च्युता इव । चकासिरे । कास दीप्तौ लिट: उत्प्रेक्षा ॥१५॥ गलितेति । गलिताश्रभिः गलितं सवितमश्र नेत्रोद येषां तैः । आतनिःस्वनः आर्तः शोकेन युक्तो निःस्वनो येषां तैः । बहलध्वान्तमषीमलीमसैः बहलं गाढं ध्वान्तं तमस्तदेव मषी' तया मलीमसानि मलिनानि तः। चक्रायगलै: चक्राहानां चक्रवाकानां यगलैर्द्वन्द्वः । विरहानलधूमधूसरैः [ इव ] विरहो वियोगः स एवानलोऽग्निस्तस्य धूमेन धूसरा विवर्णाः तैरिव । व्ययुज्यत । उसे कुछ ज्ञान नहीं रहता और उसे भ्रम हुआ करता है ।।१२। जो मनुष्य स्वभावतः निर्मल होता है जिसका दिल साफ होता है-वह प्राण निकलनेकी नौबत आनेपर भी कृतज्ञताको नहीं छोड़ता। मानो यही सोचकर, सूर्यके द्वारा समुन्नत किया गया दिन, सूर्यके साथ ही अस्त हो गया ॥१३॥ गुणी मनुष्य पूज्य होता है, पर जब वह गुणहीन हो जाता है, तब लोग उससे विरक्त हो जाते हैं। कमलको देखो, दिन अस्त होनेपर ज्यों ही वह मलिन होने लगता है, त्योंही लक्ष्मी उसे छोड़ देतो है ॥१४॥ दिशाओंके बीच-बीचमें अन्धकारको कुछ-कुछ दूर करने वाली ताराएँ ऐसी जान पड़ती थीं, मानों मित्र (सूर्य, सखा) के अस्त (नष्ट) होनेपर अत्यधिक शोक करनेवाले आकाशको अश्रु-बिन्दुएं टपक रही हों ॥१५॥ चक्रवाक पक्षियोंके जोड़े दुःखी हो गये-उनकी आँखोंसे आँसू टपकने लगे, उनके मुखसे दुःखभरे शब्द निकलने लगे और वे अन्धकार रूपी काली स्याहीसे मैले होकर ऐसे जान पड़ने लगे मानो विरहाग्निके धुएंसे मटमैले
१. श अस्तमियाय नाशमियाय प्राप । २. श स्मरत्वम । ३ = अपरक्तो भवति । ४. श रञ्जि। ५. श अपगतम् । ६. आ दृशिर । ७. श लेट् । ८. = याभिः । ९. श चकाशिरे। १०. श काश । ११. मषति हिनस्त्योज्ज्वल्यमिति मषो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org