SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ - १०, १२] दशमः सर्गः २१३ ककुभो मलिनात्मनाखिलं तमसा व्याप्तमवेत्य विष्टपम् । ययुरस्तमुपागते रवाविव विध्वंसभयाददृश्यताम् ।।९। अवभास्य जगद्गृहं करै रविदीपे विरतिं गते तमः । प्रसरहदृशे शनैः शनैरिव तत्कज्जलमम्बरे जनः ।।१०।। तमसाखिलमेव कुर्वता निजसङ्गेन जगन्मलीमसम् । इति देहवतां स्फुटीकृतं गुणदोषाः सदसत्प्रसङ्गजाः ॥११॥ विनिवृत्तनिजाह्निकक्रियं विगतालोकमुपात्तसंभ्रमम् । परिवृत्तिमगादिवाखिलं भुवनं संतमसावगुण्ठितम् ।।१२।। प्रविलापं प्रलापम् । विदधुरिव चक्रुरिव । भान्ति स्म । डुबाञ् धारणे च' लिट् । उत्प्रेक्षा ॥८॥ ककुम इति । रवी सूर्ये । अस्तं२ परोक्षम् । उपागते याते सति । मलिनात्मना मलिनो मलीमसः आत्मा यस्य, तेन । तमसा तिमिरेण । व्याप्तम् आवतम् । अखिलं निखिलम् । विष्टपं भुवनम् । अवेत्य ज्ञात्वा। ककूमः दिशः । विध्वंसभयादिव विध्वंसाद नाशाज्जातभयादिव भोतेरिव । अदृश्यतां नयनविषयाभावम् । ययुः यान्ति स्म । या प्रापणे लिट् । उत्प्रेक्षा ॥९॥ अवमास्येति । रविदीपे रविरेव दीपः प्रदीपः, तस्मिन । करैः किरणः । जगद्गृहं जगदेव गृहं मन्दिरम् । अवभास्य प्रकाशनं कृत्वा । विरति विरामम् । गते याते सति । अम्बरे गगने । शनैः शनैः मन्दं मन्दम् । प्रसरत् व्याप्नुवत् । तमः तमिस्रम् । जनैः लोकैः। तत्कज्जलमिव तस्य रविदोपस्य कालमिव मसिकेव। ददृशे दृश्यते स्म । दृशृ' प्रेक्षणे लिट् । उत्पप्रेक्षारूपकयोः सङ्करः ।१०॥ तमसेति । निजसङ्गेन नि जस्य सङ्गेन संसर्गेण । अखिलमेव निखिलमेव । जगत् भुवनम् । मलीमसं मलम् ( मलो ) अस्य अस्तीति मलीमसं पुनस्तत् । 'मलादोमसश्व' इति ईमस-प्रत्ययः । कुर्वता विदधता। तमसा तिमिरेण । देहवतां देहः शरीरमस्त्येषामिति देहवन्तः, तेषाम् ,, संसारिणाम्-इत्यर्थः । ॥ गुणदोषाः६ गुणाश्च दोषाश्च तयोक्ताः । सदसत्प्रसङ्गजाः सतां सत्पुरुषाणामसतां दुर्जनानां प्रसङ्गजाः संसर्गेण जाताः । इति एवम् । स्फुटीकृतं प्रागस्फुटमिदानों स्फुटं क्रियते स्म स्फुटीकृतं व्यक्तीकृतम्-इत्यर्थ.। दृष्टान्तः ( ॥११॥ विनिवृत्तेति । विनिवृत्तनिजाह्निकक्रियं विनिवृत्ता निरस्ता निजस्य स्वस्याह्निका दिवसे प्रवर्तमाना क्रिया व्यापारो यस्य तत् । विगतालोकं विगतो रहित आलोको यस्य तत् । उपात्तसंभ्रमम् उपात्तः स्वीकृतः संभ्रमोऽनवस्थिति भयं वा येन तत् । 'संवेगभयादरेषु' संभ्रमः' इति नानार्थकोशे । संतमसावगुण्ठितं संतमसेन समन्ताद् विद्यमानेन तमसा अवगुण्ठितमाच्छादितम्, ( पक्षे ) अज्ञानान्धकारेणावगुण्ठितम् । अखिलं निखिलम् । भुवनं विष्टपम् । परिवृत्ति व्यस्तवृत्तिम्, पक्षे उन्मत्त वृत्ति तिरस्कारं वा । अगादिव अयादिव । इण गतौ लुङ् । होने लगीं मानों सूर्य (पति) से वियुक्त होकर वे विलाप कर रही हों ।।८॥ सूर्यके अस्त होते ही मलिन अन्धकारने सारे संसारको घेर लिया, यह देखकर सभी दिशाएँ मानो विध्वंसके भयसे अदृश्य हो गईं ॥६॥ जगत् रूपो घरको प्रकाशित करके सूर्य रूपी दीपकके अस्त होते ही लोगोंने आकाश में धीरे-धीरे उसके कज्जल सरीखे प्रतीत होनेवाले अन्धकारको फैलते देखा ॥१०॥ अपने संसर्गसे सारे संसारको मलिन करते हुए अन्धकारने, समस्त प्राणियोंके सामने इस बातको स्पष्ट कर दिया कि गुण और दोष, क्रमशः अच्छे और बुरे संसर्गसे हुआ करते हैं ।।११।। अन्धकारका आवरण या पर्दा पड़ जानेसे सारा संसार बिलकुल बदल-सा गया। उसने दिनमें होनेवालो सारो क्रियाएं छोड़ दी, उसका प्रकाश समाप्त हो गया और उसे भय भी उत्पन्न हो गया। फलतः वह पागल सरीखा जान पड़ने लगा। पागल दैनिक क्रियाओंसे निवृत्त रहता है १. भा 'च' नोपलभ्यते । २. - अस्ताचलम् । ३. = प्रकाश्य । ४. श मषिकेव । ५. आ दृशिर। ६. मा स्वस्तिकान्तर्गतः पाठो नास्ति । ७. श विनोति । ८. श घरेषु । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy