________________
चन्द्रप्रमचरितम्
मयि पश्यति माभिभूयतां तमसेदं मलिनात्मना जगत् । इति तर्कयतेव मण्डलं दिनभर्त्रान्तरधीयतात्मनः ||५|| बलवान्विधिरेव देहिनां न सहाया न मतिर्न पौरुषम् | तमसा स तथा प्रतापवान्दिननाथोऽपि यदभ्यभूयत || ६ || विषये गुणवद्विवर्जिते गुणहीनाः प्रभवन्ति का गतिः । गगनं हितमभिरावृतं मलिनैरस्तमिते दिनाधिपे ॥७॥ कृतदीप्तरवैर्विहङ्गमै र्निजनीडाभिमुखैः समाकुलाः । वियुता इव पद्मबन्धुना प्रविलापं विदधुर्दिगङ्गनाः ॥८॥
२३२
*
मीति । मयि पश्यति सति वीक्षमाणे सति । इदम् एतत् । जगत् विष्टपम् । मलिनात्मना मलिनो मलीमस आत्मा स्वरूपं यस्य तेन । तमसा अन्धकारेण । माभिभूयतां तिरस्कारो मा क्रियताम् । भू सत्तायां कर्मण लोट् । इति एवम् । तर्कयतेव विचारयतेव । दिनभर्त्रा सूर्येण । आत्मनः स्वस्य । मण्डलं बिम्बम् । व्यन्तरधीयत व्यवधीयते स्म । डुधान् धारणे च कर्मणि लङ् । उत्प्रेक्षा । ५।। बलवानिति । तथा तेन प्रकारेण । प्रतापवानपि प्रतायुक्तोऽपि । सः दिननाथः सूर्यः । यत् यस्मात्कारणात् । तमसा तिमिरेण । अभ्यभूयत तिरस्क्रियते स्म । ( तत् ) देहिनां जीवानाम् । विधिरेव बर्भेव । बलवान् बलवत् ( सबल: ) । सहायाः बलवन्तो न भवन्ति । मतिः बुद्धिः । न, बलवती न भवति । अर्थान्तरन्यासः || ६ || विषय इति । दिनाधिपे सूर्ये । अस्तमिते अस्तं गते सति । मलिनः मलोमसैः । 'मलादीममश्च' इति ईमस - प्रत्ययः । तमोभिः तिमिरैः । गगनं हि आकाशं हि । आवृतं व्याप्तम् । गुणवद्विवर्जिते गुणवद्भर्गुणयुक्तैः पुरुषविवर्जिते रहिते । विषये देशे । गुणहीनाः गुणैर्हीना रहिताः । प्रभवन्ति समर्था भवन्ति । का गतिः गतिः का ? गुणवद्रहितेऽपि देशे गुणहोनानां स्थित्यमावे तेषां गतिः का' इत्यर्थः ॥ ७ ॥ कृतेति । कृत् दीप्तरवैः कृता विहिता दीप्ता: तारा रवाः स्वरा यः तैः । निजनोडाभिमुखैः निजानां स्वेषां नीडानां कुलायानामभिमुखैरभिमुखं गच्छद्भिः । विहङ्गमैः पक्षिभिः । समाकुलाः व्याप्ताः । दिगङ्गनाः दिक्षु ककुप्सु विद्यमाना अङ्गनाः कन्यकाः । पद्मबन्धुना पद्मस्य कमलस्य बन्धुर्बान्धवः, तेन, सूर्येण - इत्यर्थः । वियुताः विरहिताः ।
૮
९.
[ १०,५
||४|| मेरे देखते अभिभूत न हो,
अस्ताचलने डूबते समय भी सूर्यको अपने मस्तक (शिखर) पर धारण किया हुए - मेरी दृष्टि के सामने, यह जगत् मलिन ( कृष्णवर्ण, पापी) अन्धकार से मानो यह सोचकर सूर्यने अपने मण्डलको छिपा लिया - सूर्य डूब गया || ५|| जब प्रतापी सूर्य भो अन्धकारके द्वारा अभिभूत तिरस्कृत कर दिया गया, तब तो यही कहना चाहिए कि प्राणियों का भाग्य ही बलवान है, न कि सहायक, बुद्धि और पुरुषार्थं || ६ || जिस देश में गुणवान् नहीं रहते, उसमें निर्गुणोंकी प्रभुता हो जाती है । इसका उपाय ही क्या है ? इसीलिए न, सूर्यके अस्त होते ही मलिन अन्धकारने आकाशको घेर लिया ||७|| जोर-जोरसे शब्द करते हुए पक्षी अपने- अपने घोंसलोंको ओर जाने लगे, तो सभी दिशाएँ उनसे व्याप्त होकर ऐसी प्रतीत
१. आ वक्ष्यमाणे । २. = न तिरस्क्रियताम् । ३. श लेट् । ४. आ 'च' नास्ति । ५. भा इन । ६. एष टीका श्रयः पाठः, प्रतिषुतु 'गुणवृद्धिर्वाजते' इत्येव वर्तते । ७. = उपायः । ८. = क्व इति यावत् । ९. = दिश एवाङ्गना दिगङ्गनाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org