________________
- १०, ४ ]
[
१०. दशमः सर्गः ]
इतरेषु जनेषु का कथा न सुरेष्वप्युदया निरत्ययाः । इति सूचयितुं शरीरिणां रविरस्ताद्रिमथाधिशिश्रिये ॥ १ ॥ प्रियसङ्गसमुत्सुकाङ्गनानयनप्रान्तशरैरिव क्षतः । तनुमावहति स्म भानुमानरुणाम्भोरुहभारसंनिभाम् ||२|| दिवसाधिपवल्लभागमे वरुणाशा परिलोहितानना । स्वयमेव समेत्य कुङ्कुमैः कृतचर्चेव रराज संभ्यया ॥३॥ परकृत्यविधौ समुद्यतः पुरुषः कृच्छ्रगतोऽपि पूज्यते । शिरसास्तमयेऽप्यदीधरद्यदशीत द्युतिमस्तभूधरः || ४ ||
ན
इतरेष्विति । अथ जलक्रीडानन्तरम् । सुरेष्वपि देवेष्वपि । उदयाः प्रभ्युदया: । निरत्ययाः निर्वाधाः । न नभवन्ति । इतरेषु अन्येषु । जनेषु लोकेषु । का कथा का वार्ता । रविः सूर्यः । शरीरिणां जीवानाम् । इति परमार्थवचनम् । सूचयितुं दर्शयितुम् ( इव ) । अस्ताद्रि पश्चिमाद्रिम् । बधिशिश्रिये अधिश्रयति स्म । उत्प्रेक्षा ॥ | १ || प्रियेति । प्रियसङ्ग समुत्सुकाङ्गनानयन प्रान्तशरैः प्रियाणां दयितानां सङ्गे संयोगे समुत्सुकानामुद्युक्तानामङ्गनानां नयनानां नेत्राणां प्रान्ता अपाङ्गास्त एवं शरा बाणाः तैः । क्षत इव घातित इव । भानुमान् सूर्यः । अरुणाम्भोरुहमारसन्निभाम् वरुणाम्मोहहाणां रक्तसरोरुहाणां भारस्य समूहस्य संनिभां समानाम् । तनुं गात्रम् । आवहति स्म घरति स्म । वही प्रापणे लट् । उत्प्रेक्षा ॥ २. दिवसेति । वरुणाशा वरुणा पश्चिमा दिक् सैवाशा स्त्री । रूपकम् । दिवसाधिपवल्लभागमे दिवसाधिपः सूर्यः स एव वल्लभो या आगमनं तस्मिन् । परिलोहितानना परिलोहितमरुगमाननं मुखं यस्याः सा । स्वयमेव, समेत्य प्राप्य । कुङ्कुमैः काश्मीरजैः । कृतवर्चा इव कृता चर्चा स्नानं लेपनं वा यस्याः सा इव । सन्ध्यया सन्ध्यारागेण रराज माति स्म । राजन् दोप्तो लिट् । उत्प्रेक्षा ॥ ३ ॥ परेति । यत्, अस्तभूषरः अस्ताचलः । अशीतद्युतिम् अशीता उष्णा द्युतयः कान्तयो यस्य तम्, सूर्यम् - इत्यर्थः । अस्तमयेऽपि अस्तमान ( मन ) काले, पक्षे नाशसमयेऽपि । शिरसा मस्तकेन । अदीधरत् घरति स्म । धूञ धारणे णिजन्तात्लुङ् । परकृत्यविधौ परेषामन्येषां कृत्यस्य प्रयोजनस्य विधी करणे । समुद्यतः समुद्युक्तः । पुरुषः पुमान् । कृच्छ्रगतोऽपि कृच्छ्रं कष्टं गतोऽपि प्राप्तोऽपि पक्षे विगतपुण्योऽपि । पूज्यते हि महीयते हि । अर्थान्तरन्यासः ||४|| इसके पश्चात् —'जब देवोंका भी अभ्युदय निर्बाध नहीं है, तो और लोगों की बात ही क्या है मानों यह सूचना, समस्त प्राणियों को देनेके लिए सूर्यने अस्ताचलका आश्रय लिया || १ || • अपने-अपने पति के समागम के लिए उत्सुक नायिकाओंके कटाक्ष-बाणोंने मानो सूर्यको घायल कर दिया, फलतः उसका शरीर रक्त कमलोंके समूहकी भाँति बिलकुल लाल हो गया || २ || सूर्य रूपी नायकके आते ही पश्चिम दिशा रूपी नायिकाका मुख ( अगला भाग) लाल हो गया । इतने में संध्या ( उसकी सखी) आ गयी । उससे वह ऐसी प्रतीत होने लगी मानो उसके शरीरपर कुंकुमका लेप कर दिया गया हो || ३ || जो पुरुष दूसरोंके उपकार के लिए उद्यत रहता है, वह आपद्ग्रस्त होनेपर भी पूज्य होता है दूसरोंके द्वारा सन्मानित होता है । मानों इसीलिए
Jain Education International
१. अथाविशिश्रिये । २. अ रुहतारसंनिभाम् । ३. आवह, श वह्नि । ४. आगमे । ५. = यया । ६. आ राजू । ७. आा 'उत्प्रेक्षा' इति नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org