________________
२२८
चन्द्रप्रमचरितम्
[९, ५२
उदककणचितैनितम्बिनीनां नयनयुगः सरसश्च कृष्णपद्मः। समुपहित मतिभ्रमा बभूवुः क्वचिदपि न स्थितिशालिनो द्विरेफाः ॥५२॥ क्षणमरुणितलोचना रमण्यः सलिलविहारमपास्य जातखेदाः । ममुरुपरि निपत्य कौकिन्यो निजजघनैरलघूनि सैकतानि ॥५३॥ अयमुदकहतो व्यथिष्यते त्वां यदि विदधे न मुखानिलेन सेकम् । इति कृतकृतकश्चिरं सदन्तव्रणमधरं दयितः पपौ प्रियायाः ॥५४॥ अनिमिषकुलसंकुले विद्भिः पयसि निजप्रतिमानिभेन नेत्रैः। ध्रुवमभिलषितो विलासिनीनां चलशफरीकुलविभ्रमापहारः ॥५५।।
सरोरुहमेव वदनं मुखं तदेव सरोरुहं कमलं तदेव । चन्द्रः सोमः। समननि अजायत । जनै प्रादुभवि लुङ्। रूपकम् ॥५१॥ उदकेति । उदककणचितैः उदकस्य जलस्य कर्णविन्दुभिश्चितै२ युक्तः । नितम्बिनीनां मानिनीनाम् । नयनयुगैः नयनानां लोचनानां युग युगलैः । सरसः सरोवरस्य । कृष्णपद्मः नील स्पलैश्च । समुपहितमतिभ्रमाः समुपहितः कृतो मतेर्बुद्धर्धमो भ्रान्तिर्येषां ते । द्विरेफाः भ्रमराः । क्वचिदपि कस्मिश्चित् [अपि] प्रदेशे। स्पितिशालिन:3 स्थित्या शालिनः। न बभूवः न भवन्ति स्म । भ्रान्तिमदलङ्कारः ॥५२॥ क्षणमिति । क्षणं क्षणपर्यन्तम् । 'कालाध्वनोव्याप्तो' इति द्वितीया । अरुणितलोचनाः अरुणिते लोहिते लोचने नयने यासां ताः । रमण्यः वनिताः। जातखेदाः जातायासाः । सलिलविहारं जलक्रीडाम् । अपास्य त्यक्त्वा । कौतुकिन्यः कोतूहलिन्यः सत्यः । निजजघनैः निजानां जघनैः। अलघुनि महान्ति । सैकतानि पुलिनानि । उपरि अग्रे । निपत्य स्थित्वा । ममः प्रमान्ति स्म ॥५३॥ अयमिति । मुख निलेन मुखस्यानिलेन वायुना । सेकं सेचनम् । यदि न विदधे न करोति (मि ) स्म । उदकहतः उदकेन सलिलेन हतो बाधित: पीडितः । अयम् अधरः । त्वां व्यथिष्यते' बाधिष्यते । व्यध ताडने लट् । इति एवम् । कृतकृतकः कृतः कृतको येन सः, कृतकपट इत्यर्थः । दयितः नायकः। सदन्तवणं दन्तर्जातं व्रणं ( दन्तवणं, दन्त व्रणो वा ) तेन सह वर्तते इति सदन्तव्रणः, तम्। अधरम् ओष्ठम् । प्रियायाः भार्यायाः । चिरं पपी पिबति स्म ।।५४ ।। अनिमिषेति । अनिमिषकुलसंकुले अनिमिषाणां मत्स्यानां कुलेन निवहेन संकुले संकीर्णे । पर्यास सलिले। निजप्रतिमानिभेन निजानां प्रतिमा इति निभेन व्याजेन । विद्धिः गच्छद्धिः। विलासिनोनां सीमन्तिनीनाम् । नेत्र: नयनः । चलशफरीकुलविभ्रमापहारः चलानां चलन्तोनां शफरीणां मत्स्यवनितानां कुलस्य समहस्य विभ्रमस्यापहार: परिहारः । ध्रुवं निश्चयम् । अभिलषितः वाञ्छितः।
रहा था, उसमें मृगनयनीका मुख ही चन्द्रमाकी छवि दे रहा था ॥५१॥ नायिकाओंके पानीको बिन्दुओंसे व्याप्त नेत्रों और सरोवरके नीले कमलोंमें भौंरोंको बुद्धिभ्रम हो गया, जिससे वे कहीं भी स्थित नहीं हो सके-कभी नेत्रोंकी ओर तो कभी नीलकमलोंकी ओर दौड़ते ही रहे ॥५२॥ कुछ स्त्रियाँ जब थक गई और उनको आँखें लाल हो गई, तब वे जलक्रीड़ा बन्द करके थोड़ी देरको बड़े-बड़े रेतीले प्रदेशोंके ऊपर चढ़कर जा बैठीं। अपने नितम्बोंसे उन प्रदेशोंको वे मापने लगी, तो उन्हें बड़ा कौतूहल होने लगा, यह जानकर कि वे प्रदेश ठीक उनके नितम्बोंके मापके हैं ।।५३।। 'यदि मैं अपने मुखकी वायु ( फूंक ) से सेक न करूं तो दन्तक्षतसे घायल, तेरा यह अधर पानी पड़नेसे तुझीको दुःखी कर देगा, यह छल भरी बात बनाकर किसी नायकने काफी समय तक अपनी प्रियाके अधरका पान किया ॥५४॥ मछलियोंसे व्याप्त जलमें परछाईके बहाने प्रवेश करनेवाले स्त्रियोंके नेत्रोंने मानो चञ्चल मछलियोंकी
१. म उपहितमतिविभ्रमाः । २. = व्याप्तैः। ३. = स्थिराः। ४.: स्वजनैः । ५. श व्यधिष्यते । ६. आ व्यथ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.