________________
-९,५१]
नवमः सर्गः विचकृषुरलकाविलासिनीनामधिरुरुहुर्जघनान्युरांसि जघ्नुः। अनवरतनिपातिनस्तरङ्गा निपुणमिवाभ्यसितुं भुजङ्गवृत्तम् ।।४।। मदनरसमिवातिरिच्यमानं मुखगतवारिपदेन विक्षिपन्ती । प्रियतममभि काचिदाबभासे स्मितरुचिराजितमुग्धवक्त्रचन्द्रा ।।४।। निपतति कुचमण्डले रमण्याः प्रियरचितः सलिलाञ्जलिन यावत् । हृदयमभिषिषेच तावदेव प्रतियुवतेनयनाम्बुनः प्रवाहः ॥५०।। सितकुसुमचयैश्च्युतैः कबर्या वियदिव तारकितं बभौ यदम्भः।।
समजनि मृगमुग्धलोचनाया वदनसरोरुहमेव तत्र चन्द्रः ॥५१।। कमलिन्याः । न मुषिताः न लुण्ठिताः [ न मुषितं नापहृतम् ] । इति एवम् । नार्यः वनिताः । पयसि जले । चिरं, निमज्य स्नात्वा। ईश्वराय प्रियतमाय । दिव्यशद्धि कोशपानं शपथम । ददरिव ददति स्मेव दाने लिट् । भान्ति । उत्प्रेक्षा ॥४७॥ विचकृषुरिति । अनवरत निपातिनः अनवरतं सततं निपातिनः निपतनशीलाः । तरङ्गाः ऊर्मयः । निपुणं प्रौढम् । भुजङ्गवृत्तं भुमङ्गानां विटानां वृत्तं वर्तनम् । अभ्यसितुम्[इव] अभ्यासं कर्तुमिव । विलासिनीनां वनितानाम् । अलकान् चूर्णकुन्तलान् । विच कृषुः आकृष्टि चक्रुः । कृष विलेखने लिट। जघनानि नितम्बानि । अधिरुरुहः आरु (रो)हन्ति स्म । सह बीजजन्मनि लिट् । उरांसि वक्षांसि । जघ्नुः घ्नन्ति स्म । हन हिंसा गत्योः लिट् । उत्प्रेक्षा ॥४८॥ मदनरसमिति । मुखगतवारिपदेन
बक्त्रं गतम इतं वारि सलिलम इति पदेन व्याजेन| अतिरिच्यमानं वर्धमानम । मदनरसं मदनस्य मन्मथस्य रसं शृंगाररसम्-इत्यर्थः । प्रियतममभि प्रियतमं दयितस्याभिमुखम् । 'भागिनि प्रतिपर्युनुभिः' इति द्वितीया । विक्षिपन्तीव वमन्तोव । स्मितरुचिराजित मुग्धवक्त्रचन्द्रा स्मितस्य ईषद्धसनस्य रुच्या कान्त्या राजितं विभासितं मुग्धं मनोहरं वक्त्रं मुखमेव चन्द्रो यस्याः सा। रूपकम् । कावित एका नारी । आबभासे । भासू दीप्तो लिट् । उत्प्रेक्षा ॥४९।। निपततीति । प्रियरचितः प्रियेण दयितेन रचितः कृतः सलिलाञ्जलि: सलिलस्य जलस्याञ्जलिः। यावत यावत्पर्यन्तम् । रमण्या तरुण्याः। कुचमण्डले कुवयोस्तनयो मण्डले प्रदेशे। न निपतति न निष्पतति । तावदेवतावन्मात्रमेव । प्रतियुवतेः सपत्न्याः । नयनाम्बुनः नेत्रोदकस्य । प्रवाहः निर्झरः । हृदयं चित्तम् । अभिषिषेव । षिचन से चने लिट् ॥५०॥ सितेति । कबर्याः केशदेश.त् । च्युत पतितः । सितकुसुमचयः सितानां श्वेतानां कुसूमानां चयः समुदायः । तारकितं तारका: संजाता अस्मिन्निति । 'सजाततारकादिम्य इत.' इति इत-प्रत्ययः । वियदिव गगनमिव । यद अम्भः सलिलम । बभो रराज। भा दीप्तो लिट् । तत्र जले । मृगमुग्वलोचनाया. मृगस्येव मुग्धे मनोहरे लोचने नयने यस्याः तस्याः । वदन. लगाकर मानो दिव्य परोक्षाके द्वारा अपने पतिको आत्मशुद्धिका परिचय दे रही थीं ॥४७॥ लगातार ऊपर गिरनेवाले तरंग मानो विटवृत्तिका चतुराईसे अभ्यास करनेके लिए स्त्रियों के बाल खींच रहे थे, जघन प्रदेशके ऊपर चढ़ रहे थे और छातोसे टकरा रहे थे ॥४८॥ एक नायिका-जिसका मुखचन्द्र मुसकानको चाँदनीसे सुशोभित था-अपने पतिके सामने कुरलेके बहानेसे मानो अन्दर न समा सकनेवाले शृङ्गाररसको बाहर निकाल रही थी ॥४९॥ नायक अपनी एक नायिकाके स्तनोंपर अपनी अञ्जलिका जल डालनेको ही था, इतने में उसकी दूसरी नायिकाने देख लिया। फलतः अञ्जलिके जल गिरनेसे पहले ही दूसरी नायिकाकी आँखोसे आंसुओंका प्रवाह बहने लगा, जिससे उसका हृदय भीग गया ॥५०॥ एक नायिकाके केशपाशसे गिरे हुए सफेद फूलोंसे सरोवरका जो जल, ताराओंसे व्याप्त आकाशकी भाँति सुशोभित हो
१. आ इ म वृत्तिम् । २. अ मदनशर । ३. = ब्रुडित्वा। ४. = चेष्टितं व्यवहारं वा। ५. श आकृष्टम् । ६. = नितम्बान् । ७. मा रुह बीजजन्मनि प्रादुर्भाव। ८. शहन हिंसायां गतौ च । ९. श वर्तमानम् । १०. श निक्षिपति । ११. = तावत्पर्यन्तमेव । १२. आ सिचू सेचने । १३. आ इतः । :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org