________________
२२५
- ९, ४३]
नवमः सर्गःमुखमसदृशविभ्रमैर्विदित्वा सुभगतनोररविन्दमध्यगायाः। सरसिजमिदमित्युपेत्य 'शाठ्यादविदिततत्त्व इवापरश्चुचुम्ब ॥ ४० ।। सरसिजरजसारुणे सपन्याः स्तनयुगले नखशङ्कया कृता । किमपि न दयितं जगाद काचित्परमवधीत्परिभङ्गुरैः कटाक्षः॥ ४१ ।। निजमधुरविलासशोभितानां सलिलविहारजुषां विलासिनीनाम् । वदनशशिजिताम्बुजानुसम्लो दरलिना नु मृणालिनी जनौधैः ।। ४२ ॥ . अधरदलगतं निधाय रागं स्ववपुषि यावकसंभृतं वधूनाम् ।
विदधति हृदयं स रागमासां विनिमयवृत्तिमशिश्रियालानि ।। ४३ ।। मुखमिति । अरविन्दमध्यगायाः3 अरविन्दस्य कमलपुष्पस्य मध्यगाया मध्यं गतायाः । सुभगतनोः मनोहरानयाः । असदृशविभ्रम: असदृशैर समानैविभ्रम: शोभाभिः । मुखं वदनम् । विदित्वा ज्ञात्वा । इदम् एतत् । सरसिजं सरसि ( सी ) रुहम्, इति, उपेत्य समीपं गत्वा। अविदिततत्त्व इव अविदितं तत्त्वं स्वरूपं येन स
व )। अपरः कश्वित् पुरुषः । शाठ्यात् शटत्वात् । चुचम्ब चम्बति स्म। चब' वक्त्रसंयोग लिट ॥४०॥ सरसीति । सान्याः प्रतिकूलस्त्रियाः। स्तनयुगले स्तनयोः कुचयोर्युगले युग्ने । सरसिजरजसा सरसिजस्य कमलस्य रजसा पांसुना। अरुणे लोहिते सति । नखशङ्कया नखः कररुह इति शङ्कया सन्देहेन । कृता कृतासूया । काचित् वनिता। दयितं पुरुषम् । [ न ] किमपि यत्किमपि ( न किञ्चिदपि )। जगाद ब्रवीति स्म । ( किन्तु ) परिभङ्गरैः वक्रः । कटाक्षः अपाङ्गदर्शनः। परम अधिक म । अवधीत बाधयति स्म । हन हिंसागत्योलुङ । उल्लेखः ( ? ) ॥४१।। निजेति ।' मृगालिनी कमलिनो। सलिलविहारजुषां' सलिलस्य जलस्य विहारं क्रोडां जुषां सेवमानानाम् । निजम्धुरविलास शोभितानां निजानां मधुरेण मनोहरेण विलासेन विनोदेन शोभितानां विराजितानाम् । विलासिनीनां वनितानाम् । वदनशशिजिताम्बुजा वदनानि मुखान्येव शशिनश्चन्द्राः जितानि पराजितान्यम्बुजानि सरसिजानि यस्या: सा, सती। मम्लो म्लायतिस्म । मलै गात्र. विनामे लिट् । नु किम् । जनोधैः जनसमूहै। दरम् ईषत् । मलिता मलिना। नु किम् । संशयः ।।४२।।
अधरेति । बधूनां वनितानाम् । अधरदलगतम् अधर ओष्ट: स एव दलं पल्लवः तद्गतम् । याकसंभृतं यावके न संभृतं संधृतम् । रागम् ३ अरुणम् । स्ववपुषि निजगात्रे। निधाय स्थापयित्वा। आसाम् एतासां नारीणाम् । हृदयं चित्तम् । सरागं रागेण सहितम् । विदधति कुर्वन्ति । जलानि सलिलानि । विनिमयवृत्ति विनिमयां ग्रहणप्रतिग्रहणरूपां वृत्ति वर्तनाम् । अशिश्रियन् भजन्ति स्म । सरोजल नि स्वयं स्त्रीणां दूसरे युवकने कमलोंके बीचमें खड़ी हुई अपनो सुन्दर शरीरवाली प्रियाके मुखको, उसके असाधारण विलासोंसे जानकर भी अनजानके समान निकट जाकर कमल बतलाते हुए धूर्तता पूर्वक चूम लिया ॥४०॥ स्नान करते समय एक नायिकाका स्तनयुगल कमलको परागसे लाल हो गया, जिससे उसकी सौतको नखक्षतको शङ्का हो गई। फलतः उसके हृदयमें ईर्ष्या उत्पन्न हो गई, पर उसने पतिसे कहा कुछ भी नहीं, केवल कुटिल कटाक्ष बाणोंसे उसके ऊपर प्रहार किया ॥४१॥ एक कमलिनीको म्लान देखकर दर्शक अपने मनमें यह सोचने लगे कि अत्यन्त सुन्दर विलाससे अलंकृत जलक्रीड़ा करनेवाली विलासिनियोंके मुखचन्द्रसे अपने कमलोंका पराभव देखकर यह कमलिनी मुरझा गई है या स्नान करनेनाले पुरुष वर्गके द्वारा मसली जानेसे ? ॥४२।। जलाशयके जलने नायिकाओंके अधर और पैरोंके माहुरका राग-लाल रंग लेकर
१. अ साक्षाद। २. अ आ इ क ख ग घ दरमलिता। ३. - अरविन्दामां कमलानां मध्यं मध्यभागं गच्छतोति अरविन्दमध्यगा, तस्याः । ४. = विलास:। ५. आ चुधि । ६. श पाशना । ७. श वध हिसायां लङ। ८. शनीचेति । ९. सलिलविहारं जुषन्ते सेवन्ते याः ताः, तासाम् । १०.= निजेन । ११. = विभ्रमेण । १२. श अधिकेति । १३. = आरुण्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org