________________
चन्द्रप्रभचरितम्
अयमपि मधुरस्वरोऽभिसर्पन्मधु मधुपः परिहृत्य पद्मिनीजम् । अहमिव परिपातुमाननं ते सुमुखि निसर्गसुगन्धि वाञ्छतीव ॥ ३६ ॥ अयमनभिमुखीं सुकेशि कोकः समनुनयन्बहुचाटुभिः स्वजायाम् । प्रकुपितदयिताप्रसाद हेतूनुपदिशतीव ममापि चाटुकारान् ॥ ३७ ॥ इयमपि शफरी समुत्पतन्ती गगनमितः सलिलादनेकवारान्' | ध्रुवमपहृतविभ्रमा भवत्या नयनयुगेन नताङ्गि पूत्करोति ।। ३८ ।। इदमिदमिति दर्शयन्नशेषं सलिलनिवासिमनोज्ञसत्त्ववृत्तम् | अरमयत युवा चकोरनेत्रां सरसि तदंसविलम्बिवामबाहुः ॥ ३९ ॥
२२४
।
करणे लट् । उपमा ॥ ३५ ॥ अयमिति । सुमुखि मनोहरवदने । पद्मनीजं कमलषण्डजनितम् । मधु पुष्प - रसम् । परिहृत्य हित्वा । मधुरस्वरः मनोहरस्वरयुक्तः । अभिसर्पन् अभिमुखमागच्छत् । अयमपि एषोऽपि । मधुपः भ्रमरः । ते तत्र । निसर्गसुगन्धि सहजगन्धयुक्तम् । आननं मुखम् । अहमिव परिपातुं परिपानाय । वाञ्छतीव इच्छतोव, भाति इत्यभिप्रायः । उत्प्रेक्षा ॥ ३६ ॥ अयमिति । सुकेशि सुशोभनाः केशा यस्याः तस्याः संबोधनम् । अनभिमुखीं विमुखीम् । स्वजायां स्वभार्याम् । बहुचाटुभि: बहुभिर्बहुलैश्वाभिः प्रियवचनैः । समनुनयन् प्रतिबोधयन् । अयम् एषः । कोकः चक्रवाकः । प्रकुपितवनिताप्रसादहेतून् प्रकुपिताया: कोपं कृतायाः दयिताया भार्यायाः प्रसादस्य संतोषस्य हेतून् कारणानि । चाटुकारान् प्रियवचनानि । ममापि । उपदिशतीव उपदेशं करोतीव । दिशि अतिसर्जने लिट् । उत्प्रेक्षा ॥ ३७॥ इयमिति । नताङ्गि विनम्रगात्रि 'असहनन् -' इत्यादिना ङी । इतः अस्मात् । सलिलात् " सरसः । अनेकवारम् असकृत् । गगनम् आकाशम् । समुत्पतन्ती समुद्गच्छन्ती । इयमपि एषापि । शफरी मत्स्यी । भवत्याः तव । नयनयुगेन नेत्रयुगलेन । अपहृतविभ्रमा अपहृतः स्वीकृतो विभ्रमः शोभा यस्या सा पूत्करोति पूत्कारं करोति । ध्रुवं निश्चयः । उत्प्रेक्षा ॥ १८ ॥ इदमिति । तदंसविलम्बिवामबाहुः तस्या १२ नायक्या: अंसे भुजशिरसि विलम्बी अवलम्बी १३ वामबाहुर्यस्य सः | युवा तरुणः । सरसि सरोवरे । अशेषं सकलम् । सलिलनिवासि जलनिवासि । मनोज्ञसत्त्ववृत्तं ४ मनोज्ञानां मनोहराणां सत्त्वानां जीवानां वृत्तं वर्तनम् । [ इदमिदमिति ] इदमेतत् [ इति ]। 'वोप्सायाम् ' ( इति ) द्विः । दर्शयन् " वीक्षमाणः । चकोरनेत्रां चकोर इव नेत्रे यस्याः ताम् । अरं भृशम् । अयत अगच्छत् । अय गतौ लङ् अरमयत रमय मास - इति वा ) । कुलकम् ।। ३९ ।। गति ( चाल ) सोखनेके लिए बार-बार आ जाकर अभ्यास कर रही हो ||३५|| कमलिनी के रसको छोड़कर इसी ओर आता हुआ यह मधुरस्वरवाला भौंरा भी, हे सुन्दर मुखवाली प्रिये ! तेरे स्वाभाविक सुगन्धिसे युक्त मुखको, जान पड़ता है मेरे ही समान पीना चाहता है ||३६| हे सुन्दर बालों वाली ! अपनी विमुख - अप्रसन्न पत्नीको बहुत-सी मीठी बातोंसे समझाता हुआ यह चकवा, लगता है मुझे भी, क्रुद्ध प्रियाको प्रसन्न करनेवाली चिकनी-चुपड़ी बातों का उपदेश दे रहा है ||३७|| हे नम्र शरीरवाली ! यह मछली भी सरोवर के इस जलसे बार-बार ऊपर आकाशकी ओर उछल रही है । जान पड़ता है तुमने अपनी आँखोंसे इसकी शोभा छीन ली है, जिससे यह पूत्कार कर रही है ||३८|| सरोवर में अपनी चकोरलोचना प्रियाको एक युवकने – जो उसके गलेमें अपना बायाँ हाथ डाले हुए था - 'यह देखो, यह देखो' ऐसा कहकर जलमें रहनेवाले सभी सुन्दर जन्तुओं की विशेषताएँ दिखलाकर प्रसन्न किया ॥ ३६ ॥
[ ९, ३६ -
१. अ आ इ "नेकवारम् । २. आ इ 'कुलकम्' इत्यपि समुपलभ्यते । ३. = उत्प्रेक्षा । ४. = कमलिनीसमुद्रसम् । ५. = तत्संबुद्धो । ६. = प्रकोपवत्याः । ७. आ दिश । ८ = सरः- सलिलादित्यर्थः । ९. आ समनुयाता । १०. श मत्सी । ११. आ फूत्करोति फूत्कारं करोति । १२. = नायिकायाः । १३. = विलम्बते इत्येवं शाल: । १४. = सलिलनिवासिमनोज्ञसत्त्ववृत्तं सलिलनिवासिनां मनोज्ञसत्त्वानां मनोहरप्राणिनां वृत्तं चेष्टितम् । १५. = प्रदर्शयन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.