________________
२२३
- ९, ३५]
नवमः सर्गः अपहृतवसना वधूस्तरङ्गैः पृथुनि नितम्बतटे निविष्टदृष्टिम् । प्रियतममवलोक्य जातलजा कलुषयति स्म जलं विलोडनाभिः ॥ ३२॥ पयसि समवतीर्य नाभिदध्ने विलुलितकेशकलापबन्धनायाः। समजनि रभसोत्कटं तरन्त्याः स्तनयुगमेव तरण्डकं तरुण्याः ॥ ३३ ॥ जनभयपरिविद्रुतेऽपि पत्यौ युवतिघनस्तनबिम्बमोहितायाः।। सलिलगतविमुग्धकोकवध्वा विरहभवव्यथया न संबभूवे ॥ ३४॥ इयमिह पुलिने निसर्गरम्ये चकिततया स्थिरतामनश्नुवाना ।
गतिमिव परिशिक्षितुं त्वदीयां सुतनु करोति गता गतानि हंसी ॥३५ ।। तथा । समालिलिङ्गे आलिंङ्गता । लिगु गतौ कर्मणि लिट् । श्लेषोपमा ॥३१।। अपहृतेति । तरङ्गः उमिभिः । अपहृतवसना अपहृतमपनीतं वसनं यस्याः सा । वधूः काचिद्वनिता। मृदुनि' कोमले। नितम्बतटे नितम्बप्रदेशे । निविष्टदृष्टिं निविष्टेि स्थापिते दृष्टी लोचने यस्य तम् । प्रियतमं वल्लभम् । अवलोक्य वीक्ष्य । जातलज्जा जातव्रीडा। विलोडनाभिः विलोडनैः । जलं सलिलम् । कलुषयति स्म कलुषमकरोत् ॥३२॥ पयसीति । नाभिदध्ने नाभिमात्रे-नाभिमात्रमस्य नाभिदधनम्, तस्मिन् । 'वोवं दधनड्डयसट्' इति प्रमाणे दनट-प्रत्ययः । पयसि जले। समवतीर्य प्रविश्य । विललितकेशकलापबन्धनायाः विललितं शिथिलितं केशकलापस्य केशपाशस्य बन्धनं ग्रन्थिका यस्याः तस्याः । रभसोत्कटं रभसस्य संभ्रमस्योत्कटमाधिक्यं यस्मिन् कर्मणि तत्। तरन्त्याः प्लवमानायाः। तरुण्याः युवत्याः । स्तनयुगमेव कुचयुगलमेव । तरण्डकं तुम्बिगण्डिकाद्वयम् । समजनि समजायत । जनै प्रादुर्भावे लुङ् । 'दीप्पूजन-' इत्यादिना जि-प्रत्ययः । “भेः' इति तस्य लुक् । रूपकम् ॥३३॥ जनेति । पत्यो पुरुषपक्षिणि । जनभयपरिविद्रुतेऽपि [जनभयात् पलायमानेऽपि सति । युवतिघनस्तनबिम्बमोहितायाः युवत्या वनिताया धनयोः कठिनयोः स्तनयोबिम्बे प्रदेशे चक्रवाक इति मोहितं ( मोहो) भ्रान्ति यस्याः, तस्याः । सलिलगतविमग्धकोकवध्वाः सलिलं गताया विमग्धाया मनोहरायाः कोकवध्वाश्चक्रवाकवनितायाः। विरहभवव्यथया विरहेण वियोगेन भवया जातया व्यथया पीडया। न संबभूवे न जन्यते स्म । जनैङ् प्रादुर्भावे, भावे लिट् । भ्रान्तिमान् ॥३४॥ इयमिति। सुतनु भो मनोहरगा।। इह अस्मिन् । निसर्गरम्ये निसर्गेण स्वभावेन रम्ये मनोहरे । पुलिने सैकते । चकिततया भीतियुक्ततया । स्थिरतां स्थिरत्वम् । अनश्नुवाना अप्राप्नुवती। इयम् एषा। हंसी हंसवधूः । त्वदीयां तव संबन्धिनीम् । गतिं गमनम् । पशिशिक्षितुमिव' अभ्यासं कर्तुमिव । गतागतानि गमनागमनानि । करोति विदधाति । डुकृञ् अपने गले लगा लिया-आलिङ्गन कर लिया ॥३१॥ किसी नायिकाके अधोवस्त्रको तरङ्गोंने छीन लिया, जिससे उसके विशाल निर्वस्त्र नितम्ब पर उसके पतिने अपनी दृष्टि गड़ा दी। उसे ऐसा करते देखकर नायिकाने लज्जित होकर ( जब और कुछ उपाय नहीं सूझा ) जलका विलोडन करके उसे मैलाकर दिया ॥३२॥ नाभि तक गहरे जल में उतर कर कोई युवती बड़ो तेजीसे तैरने लगी। उसके केशपाशका बन्धन खुल गया और केशपाश बिखरकर जल में लहराने लगा। इस अवसर पर उसके दोनों स्तन डोरीसे बँधी हुई दो तुम्बियोंका काम कर रहे थे ॥३३॥ लोगोंके भयसे पतिके भाग जाने पर भी जल में स्थित एक भोली-भाली चकवीकोजिसे किसी युवतोके कठोर स्तनमण्डलमें चकवे ( अपने पति ) का भ्रम हो गया थाविरहकी व्यथा नहीं हुई ।।३४।। हे सुन्दर शरीरवाली ! यहाँ इस स्वभावतः सुन्दर तटपर भयभीत हो जानेसे एक जगह स्थिर न रहनेवाली यह हंसी ऐसी जान पड़ती मानो तुम्हारी
१. एव टोकादमिमतः पाठः, प्रतिषु तु 'पृथुनि' इत्येव समुपलम्यते । २. = नाभिः प्रमाणं यस्य तत् । ३. आ कुम्भ । ४. आ जनो । ५. मा ख्यातिः । ६. मा 'जनैङ् प्रादुर्भावे,भावे लिट्' इति नोपलभ्यते । ७. आ ख्यातिमान् । ८. श गात्रि । ९. = परिशोर्लायतुमिव ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International