________________
२२२ चन्द्रप्रमचरितम्
[९,२८हृषिततनुरुहाश्चिरेण भीरुप्रकृतितयाम्भसि नाभिमात्रकेऽपि । प्रियकरधृतपाणयो रमण्यः प्रविविशुराहितमन्दमन्दपादाः ॥ २८ ॥ तदखिलमपि वारि निक्षिपन्त्यः कठिनपयोधरपीडनैः पुरस्तात् । पृथुतरनिजकुम्भनुन्नतोया वनकरिणीरनुचकरब्जनेत्राः ॥ २६ ॥ जलमकलुषमन्तरानुबधनन्युवतिमुखप्रतिमां पयोजवुद्ध्या । श्रममफलमवाप मत्तभृङ्गो न स्वलु हितं मदमूढधीरवैति ।। ३०॥ सरलनवमृणालनालबाहुश्चपलशिलीमुखलोचना कृशाङ्गी। निजतनुमनुकुर्वती कयाचित्सरभसमम्बुजिनी समालिलिङ्गे ॥ ३१ ।। हृषितेति । हषिततनुरुहाः हृषिताः संतुष्टाः तनुरुहा रोमाणि यासां ताः । चिरेण कालविलम्बनेन । भीरुप्रकृतितया भोरोभयशीलस्य प्रकृतितया स्वभाववत्तया। नाभिमात्रकेऽपि नाभिः प्रमाणमस्य नाभिमात्रकं तस्मिन् । 'तदस्य प्रमाणान्मात्रट्' इति मात्रट्-प्रत्ययः। अम्भसि सलिले। प्रियकरधृतपाणयः प्रियाणां दयितानां करैर्हस्तैधता भनाः पाणयो हस्ता यासां ताः। रमण्यः वनिताः। आहितमन्दमन्दपादाः आहितो निक्षिप्तौ मन्दो पादौ यासांताः , सत्यः । प्राविविशुः अवतेहः । विश प्रवेशने लिट । जातिः ॥२८।। तदिति । कठिनपयोधरपीडनैः कठिनानां कर्कशानां पयोधराणां स्तनानां पोडनबर्बाधनैः ( आघातैः ) तदखिलमपि तत्सर्वमपि । वारि जलम् । पुरस्तात् अग्रे । निक्षिपन्त्यः सेचयन्त्यः । अब्जनेत्राः अब्ज कमलं तदिव नेत्रं यासां ताः। पुथुतरनिजकुम्भनुन्न तोयाः पृथुतरैमहत्तरैनिजकुम्भैः स्वकीयकुम्भस्थलैर्नुन्नं निरसितं तोयं जलं यासां ताः। वनकरिणीः वने विद्यमानाः कारिणो: करेणुकाः । अनुचक्रुः अनुकुर्वन्ति स्म । डुकृञ् करणे लिट् । उत्प्रेक्षा ।।२९।। जलमिति । अकलुषं निर्मलम् । जलं सलिलम् । अन्त: [ अन्तरा ] मध्ये । युवतिमुखप्रतिमां युवत्या वनिताया मुखस्य वदनस्य प्रतिमा प्रतिबिम्बम् । पयोजबुद्धया पयोजमिति कमलमिति बुद्धया। अनुबध्नन् अनुपतन् अनुचरन् । वा। मत्तभृङ्गः मत्तभ्रमरः । अफलं निष्फलम् । श्रमं प्रयासम् । अवाप याति स्म । आप्ल व्याप्ती लिट् । भ्रान्तिमान् । मदमूढधीः मदेन गर्वेण मूढा मुग्धा धोर्बुद्धिर्यस्य सः । हितं हितकार्यम् । नावैति खलु न जानाति खलु । इण गतौ लट् । अर्थान्तरन्यासः ।।३०।। सरलेति । सरलनवमृणालनालबाहुः सरलम् ऋजु नवं प्रत्यग्रं मृणालस्य बिसस्य नालमेव बाहुः ( पक्षे ) नालवद् बाहर्यस्याः सा। चपलशिलीमुखलोचना चपलश्चञ्चल: शिलीमुख इव ( एव ) लोचने यस्याः सा, (पक्षे ) भ्रमरलोचना वा। कृशाङ्गो तन्वङ्गो। निजतनुं स्वशरीरम् । अनु कुर्वती स्वीकुर्वती अम्बुजिनो कमलषण्डम् । कयाचित् स्त्रिया। सरमसं संभ्रमयुक्तं यथा सामग्रो सजा दी गई है-पवित्र जलवाले जलाशयमें स्नान किया ॥२७॥ भीरु स्वभाव होनेसे स्त्रियोंके रोंगटे खड़े हो गये। फलत: वे अपने अपने पतिके हाथोंमें अपने हाथ देकर, नाभि तक गहरे जलाशयके जल में भी बहुत देरके बाद धीरे-धीरे पैर रखतो हुई उतरी ॥२८॥ जिनके लोचन कमलोंके समान थे, उन स्त्रियोंने अपने कठोर स्तनोंके आघातसे जलाशयके सारे जलको आगेकी ओर ठेल दिया। अतः वे उस समय अपने विशालगण्डस्थलोंकी टक्कर लगाकर जलाशयके जलको आगेकी ओर ठेलनेवालो हथिनियोंका अनुकरण कर रही थीं ॥२६।। निर्मल जल में युवतीके मुखके प्रतिबिम्बको कमल समझकर एक मतवाला भौंरा उसके ऊपर मँडराने लगा, किन्तु उसे अपने परिश्रमका फल नहीं मिला-परिश्रम निष्फल ही हुआ। जिसकी बुद्धि मदसे विकृत हो गई है, वह निश्चय ही अपने हितको नहीं जान पाता ॥३०॥ सोधे नवोन कमलदण्डरूपी बाहुको धारण करनेवाली, चञ्चल भ्रमररूपी नेत्रोंसे युक्त, पतली और इसीलिए अपने शरीरका अनुकरण करनेवाली कमलिनीको किसी नायिकाने सखीके भ्रमसे
१. = याभिः । २. = निरस्तम् । ३. = याभिः। ४. श अनुचुम्बन् । ५. = विडम्बयन्तो । ६. = कमलिनी।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org