________________
- ९, २७ ]
नवमः सर्गः स्फुटमिह कमनीयमन्यथा वा न किमपि भावकृतस्त्वयं विभागः। समजनि यदशोकतः पलाशं प्रियमवतंसितमीश्वरेण वध्वाः ॥ २५ ॥ ऋतुजनितरुचिर्वधूसमूहैरवचितपुष्पचयश्च यस्तरूणाम् । मुदित इव परार्थयात्मलक्ष्म्या पवनधुतैर्नवपल्लवैननर्त ॥ २६ ॥ इति वनविहृतिप्रसङ्गखिन्नं निखिलमवेत्य जनं स्वमप्यधीशः । सरसि शुचिजले ममज सज्जीकृतजलकेलिपरिच्छदप्रपञ्च ।। २७ ॥
प्रियायाः दयितायाः। स्तनतट' स्तनप्रदेशम् । संस्पृशन् स्पर्श कुर्वन् । रमणः नायकः । हृदि हृदये । बकुलस्रजं बकुलपुष्पमालाम् । बबन्ध बध्नाति स्म ॥२४॥ स्फुटमिति । ईश्वरेण नायकेन । अशोकत: कङ्केलिपुष्पात् । यत् पलाशं किंशकपुष्पम् । वध्वाः वनितायाः अवतंसितं कर्णाभरणी कृतम् । (तत् ) प्रियं प्रीतम् । समजनि समजायत । जनैङ् प्रादुर्भावे लुङ् । इह भुवि । किमपि, स्फुटं व्यक्तम् । कमनीयं मनोहरम् । अन्यथा वा न। कमनोयाकमनीयविभागः अयं विभागः अतिशयः तु । भावकृतः संकल्पकृतः ॥२५॥ ऋस्विति । ऋतुजनितरुचिः ऋतौ कालविशेषे जनिता चासो रुचिः शोभा च तथोक्ता। वधुसमुहैः वधूनां वनितानां समूहनिवहः । अपचितपुष्पचयः अपचितोऽपनीतः पुष्पाणां चयः समूहो यस्य सः । तरूणां महीरुहाणाम् । चय: समूहः । परार्थया परेषामन्येषामर्थया प्रयोजनया। आत्मलक्ष्म्या आत्मनः स्वस्य लक्ष्म्या संपदा । मुदित इव संतुष्ट इव । पवनधुतैः पवनेन मारुतेन धुतैः कम्पितः। नवपल्लव: नवैः प्रत्यग्रैः पल्लवैः किसलयः । ननर्त नृत्यति स्म । नृते गात्रविक्षेपे लिट् । उत्प्रेक्षा ।।२६।। इतीति । अघोशः चक्रवर्ती । इति एवम् । वनविहृतिप्रसङ्गखिन्नं वनस्य विहृतेः क्रोडायाः प्रसङ्गेन संबाधेन खिन्नमायस्तम् । निखिलं समस्तम् । जनं लोकम् । स्वमपि आत्मानमपि । अवेत्य ज्ञात्वा। शुचिजले शुचि निर्मलं जलं यस्य तस्मिन् । सज्जीकृतजलकेलिपरिच्छदप्रपञ्चे सज्जीकृतः सन्नद्धीकृतो जलकेल्या जलक्र डायाः परिच्छदानां परिकराणां प्रपञ्चो निचयो यस्य ( यत्र ) तस्मिन् । सरसि सरोवरे । ममज्ज स्नाति स्म । डुमस्ज शुद्धी। लिट् ॥२७॥
मौलसिरीकी माला पहना दी ॥२४॥ निश्चय ही इस संसारमें कोई भी चीज न तो सुन्दर है और न असुन्दर; क्योंकि सुन्दर और असुन्दरका यह विभाग मानवके मनोभावों पर निर्भर है । एक नायकने अपनी नायिकाके कानसे अशोकका फूल निकालकर उसके स्थान में ढाकका फूल पहना दिया, जो उसे अशोकके फूलसे कहीं अधिक प्रिय लगा। अथवा एक नायकने स्वयं अपने हाथसे अपनी नायिकाके कान में ढाकका फूल पहना दिया, जो उसे अशोकके फूलसे भी अधिक अच्छा लगा। अशोकका फूल सुन्दर और ढाकका फूल असुन्दर समझा जाता है। पर पति अपने हाथसे स्नेहपूर्वक यदि टेसू-ढाकका भी फूल पहना दे, तो उसका प्रिय होना ही उचित है ॥२५।। जिनमें वसन्त ऋतुने शोभा उत्पन्न कर दो थी और जिनकी पुष्पराशिको नायिकाओंके वर्गने चुन लिया था, उन वृक्षोंके हवासे हिलते हुए पत्तोंको देखकर ऐसा जान पड़ता था मानो वे अपनी परोपकारिणी लक्ष्मोके निमित्तसे खुशीके मारे नाच रहे हों ॥२६॥ इस तरह वन विहारके प्रसङ्गसे सारे पुरवासियोंको, अपने परिवारके लोगोंको और स्वयं अपने को थका हुआ जानकर आंजतसेन चक्रवर्तीने, जिसके लिए जल कोड़ाके योग्य नाना प्रकारकी
१. = स्तनाग्रम् । २. आ जनी। ३. आ नृती। ४. श अधिकाचरणेन। ५. श श्रान्तम । ६. श स्वकीयमपि । ७. आ डुमज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org